शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ।। ११ ।।

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ।। ११ ।।

भावरत्नकोशः

एवं तत्रैव प्रकारान्तरमुच्यते शुचौ देश इत्यादिना । शुचौ मनः-प्रसादहेतुभूते देशे, तथाविधे काले, तथाविधायाम् अवस्थायामिति चोपलक्ष्यते । चेलाजिनकुशोत्तरं चेलं वस्त्रम्, अजिनं कृष्णव्याघ्रादिचर्म, कुशाः दर्भाः उत्तरे यस्मिन् तत् तथा, विपरीतोऽत्र क्रमः । चेलादीनामिति प्राञ्चः । न अत्युच्छ्रितम् अतीवोच्छ्रितम् अत्युच्छ्रितम्, नातिनीचं नाप्यतीव नीचम्, स्थिरम् अचलम्, आत्मन आसनं प्रतिष्ठाप्य ।। ११ ।।