विषयेन्द्रियसंयोगाद्यत् तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ।। ३८ ।।

विषयेन्द्रियसंयोगाद्यत् तदग्रेऽमृतोपमम् ।

परिणामे विषमिव तत्सुखं राजसं स्मृतम् ।। ३८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- विषयेति ।। विषयाणां शब्दादीनाम् इन्द्रियाणां श्रोत्रादीनां च ‘जातम्’ इति शेषः । अग्रे प्रथमसन्निपाते अमृतोपमं परिणामे परिपाककाले दुःखोदर्कतया विषमिव तत्सुखं राजसं स्मृतम् ।। ३८ ।।