एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ।। १ ।।
अर्जुन उवाच–
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ।। १ ।।
भाष्यम्
अव्यक्तोपासनाद्भगवदुपासनस्योत्तमत्वं प्रदर्श्य तदुपायं प्रदर्शयत्यस्मि-न्नध्याये । तदुपासनमपि मोक्षसाधनं प्रतीयते । ‘श्रियं वसाना अमृतत्व-मायन् भवन्ति सत्या समिथा मितद्रौ’ (ऋ.७.४.४.४) इति ।।
भावप्रदीपिका
अध्यायार्थमाह– अव्यक्तेति । ननु ब्रह्माद्युपासना-भगवदुपासनयोराधिक्यमपृच्छन्नव्यक्तभगवदुपासनयोरुत्तमं किमिति पृच्छति ? इत्यत आह– तदिति । मोक्षसाधनत्वे साम्यप्रतीत्या प्रश्न इत्यर्थः । श्रीसमाराधनार्थं जातस्तदर्थं गुरुसेवायै निरियाय । स च श्रियं श्रियः स्तोतृभ्यो वयः शुश्रूषया ददाति । एवं श्रियं प्रति वसन्तो बहवो गुरुशिष्याः मुक्तिमगमन् । तत्र च मिथुने द्वन्द्वे समीहितानि सत्यानि भवेयुरिति ।
प्रमेयदीपिका
एतदध्यायप्रतिपाद्यमर्थमाह– अव्यक्तेति ।। अव्यक्तं श्रीः । तदुपायं भगवदुपासनोपायम् । तदुपायप्रदर्शनं च भगवदुपासनाधिक्य-समर्थनार्थमित्येकार्थता । षट्कान्तर्भावश्च । अर्जुनस्य प्रश्नसङ्गतिप्रदर्शनेनैवानन्तर्य-लक्षणाऽपि सङ्गतिर्ज्ञायते ।।
ननु भगवदुपासनमिवाव्यक्तोपासनमपि यदि मोक्षसाधनत्वेन प्रमितं स्यात्, तदा तत्साधकाधिक्यविषयः संशयः स्यात् । तदेव कुतः? तथा कथमयं संशयमूलोऽर्जुनस्य प्रश्नः? न हि भिन्नफलसाधनसाधकानां निर्धारणार्थः प्रश्नो युज्यते । किन्तु साध्य-निर्धारणार्थ एव । नच तथा प्रकृतो ‘यावानर्थः’(२.४६) इत्यादिना निरस्तत्वादित्यत आह– तदुपासनमपीति ।। श्रियं प्रति वसाना वसन्तः, तामाच्छाद्य स्थित्वा वा उपासीना इति यावत् । तेषां समिथा समीहितानि सत्यानि भवन्ति । मितद्रौ समुद्रे क्षीराब्धौ ।।
भावबोधः
प्रश्नसङ्गतिप्रदर्शनेनैवेति ।। ‘एवंशब्देन दृष्टश्रुतरूपं ‘मत्कर्म-कृत््’ इत्यादि प्रकारश्च परामृश्यते’ इत्यनेनेत्यर्थः । ननु त्वदुपासकानां वा फलमुत्तमम्, अव्यक्तोपासकानां वा फलमुत्तममिति साध्यनिर्धारणाभिप्रायेणैव साधकनिर्णयार्थः प्रश्न इत्यत आह – न च तथा प्रकृत इति ।। तथात्वे के वा उत्तमफलका इति के वोत्तमा इति वा भवेन्न तु योगवित्तमा इतीति भावः । तदभिप्रायेण प्रश्नकरणासम्भवे हेतुमाह – यावानर्थ इति ।। मोक्षव्यतिरिक्तस्वर्गादेः सर्वस्यापि फलस्य मोक्षादवरत्वस्य तत्रोक्तेः प्रश्नस्य सिद्धार्थता स्यादिति भावः । वसन्त इति ।। निवासार्थकस्य वसतेः परस्मैपदित्वनियमादिति भावः । यथाश्रुतमङ्गीकृत्याप्यर्थमाह – तामिति ।। आच्छादनार्थकस्य वसतेः आत्मनेपदित्वादिति भावः ।
भावदीपः
प्रतिपाद्यभेदेनाध्यायभेदमाशङ्क्य भगवदुपासनोत्तमतैव प्राधान्येन प्रतिपाद्यते । तदुपायस्तु तादर्थ्येन । अतो नानेेन दोष इति भावेनाऽह–तदुपायप्रदर्शनं चेति ।। षट्केति ।। भगवन्माहात्म्योक्तिपरत्वाद् अस्याध्यायषट्कस्य तदुपपादनेनोत्तमत्वोक्तेश्च तन्महिमोक्तौ पर्यवसानादिति भावः ।। अर्जुनस्य प्रश्नसङ्गतीति ।। ‘एवं सततयुक्ताः’ इति गीतायामेवंशब्देन दृष्टश्रुतरूपभगवत्परामर्शेन प्रश्नकरणस्य अग्रे भाष्ये व्याख्यानात् पूर्वानन्तर्य-मस्य सिद्धमिति भावः ।। तत्साधकेति ।। अव्यक्तोपासनानुष्ठातुराधिक्यविषय इत्यर्थः ।। भिन्नश्रीतत्वोपासनायां मोक्षेतरफलकत्वं मन्वान आह– नहीति ।। भिन्नेति ।। भिन्नविभिन्न-फले मोक्षतदितरफलके ये साधने भगवदव्यक्तयोरुपासने तत्साधकानां तदनुष्ठातॄणां मध्ये कोऽधिक इति निर्धारणार्थ इत्यर्थः ।। साध्यनिर्धारणार्थ एवेति ।। उपासनाजन्यफलद्वयमध्ये किमुपासनायाः फलमधिकमिति साध्यनिर्धारणार्थ एव प्रश्नो युज्यत इत्यर्थः ।। अस्तु तथैव प्रकृत इत्यत आह– नच तथेति ।। कुतः? इत्यत आह– यावानिति ।। ‘यावानर्थ उदपाने सर्वतः सम्प्लुतोदके’(२.४६) इत्यादिना द्वितीये एव मोक्षेतरफलस्यानुत्तमत्वोक्तेः, अव्यक्तो-पासनस्य च मोक्षेतरफलकत्वात् साध्ये सन्देहस्यैवायोगेन तदुत्तमत्वनिर्धारणार्थोऽपि प्रश्नो न युक्त इत्यर्थः ।। ‘वस निवासे’ ‘वस आच्छादने’ इति धातुद्वयरूपमित्युपेत्य क्रमादर्थावाह–वसाना इत्यादिना ।। वसतेरात्मनेपदं छान्दसमिति भावः ।। क्षीराब्धाविति ।। ‘अमृतत्वमायन्’ इत्यन्वय इति भावः ।।
भावरत्नकोशः
‘अस्मिन्नध्याये’ इति भाषणादाह– एतदिति ।। द्वादशेत्यर्थः । अव्यक्तशब्देन प्रधानग्रहणे तस्याचेतनया तदुपासनमनुचितमिति तस्य भगवदुपासनाधिक्यं प्रति अवधित्वभाषणमयुक्तम् इत्यतोऽत्राभिप्रेतम् अव्यक्तशब्दार्थमाह– अव्यक्तं श्रीरिति ।। अभिमान्यधिकरणन्यायेन श्रीदेव्या अव्यक्तपदमुख्यार्थत्वाद् युक्तं तदुपासनस्यावधित्वभाषणमिति भावः । तच्छब्दस्य प्रकृतोभयपरत्वभ्रमं व्युदसितुमाह– तदुपायं भगवद्गुपासनोपायमिति ।।
ननु भगवदुपासनाधिक्ये तदुपायप्रदर्शने च तात्पर्येऽर्थभेदादध्यायस्यैकवाक्यता न स्यात् । किञ्च द्वितीयषट्कान्तर्भूतद्वादशाध्याये भगवन्महिमा वर्णनीयः । यदभाषत ‘उत्तरैरध्यायै-र्भगवन्माहात्म्यमाह’ इति । न हि भगवदुपासनोपायप्रदर्शनं भगवन्महिमा भवतीति, न षट्कान्तर्भावोऽस्य इत्यत आह– तदुपायप्रदर्शनं चेति ।। अव्यक्तोपासनाधिकोपासन-विषयत्वमेव भगवतो महिमा, तत्समर्थनार्थं प्रवृत्तं भगवदुपासनोपायप्रदर्शनं तच्छेष इति शेषिणः प्रधानस्यैकत्वादध्यायस्यैकवाक्यता, द्वितीयषट्कान्तर्भावलक्षणसङ्गतिश्चास्याध्यायस्य युक्तेत्यर्थः । अस्याध्यायस्य पूर्वाध्यायानन्तर्यलक्षणाऽपि सङ्गतिर्भाषितेत्याह– अर्जुनप्रश्नप्रदर्शनेनेति ।। ‘एवंशब्देन दृष्टश्रुतरूपं ‘‘मत्कर्मकृत््’’ इत्यादि प्रकारश्च परामृश्यते’ इति भाषणेन एवंभूतं त्वामेवंप्रकारेण उपेता उपासते इत्येवं शब्दार्थस्य विभावना । तस्य च पूर्वपरामर्शकत्वात् पूर्वाध्यायोक्तविश्वरूपभगवदुपासने इतराधिक्यस्यात्र उच्यमानत्वात् पूर्वाध्यायानन्तरभावोऽ-स्याध्यायस्य ज्ञायत इत्यर्थः ।
तत्साधकाधिक्यविषय इति ।। मोक्षसाधकानां भगवदुपासकानाम् अव्यक्तोपासकानां च मध्ये भगवदुपासकाः श्रेष्ठाः, आहोस्विद् अव्यक्तेापसकास्तथा इत्येवमाधिक्यविषयः संशयः साधकबाधकप्रमाणाभावेन स्यादित्यर्थः । तदेव अव्यक्तोपासनस्य मोक्षसाधनत्वमेव । कुतः प्रमाणात् । मास्तु संशयः, अस्तु च प्रश्नः इत्यत आह– तथा चेति ।। प्रश्नस्य हि संशयो मूलम् । तदभावे स एवानुपपन्नः । कारणं विना कार्योदयस्यायोगादिति भावः । ननू-पासनयोर्भिन्नफलकत्वेऽपि तत्साधनाधिक्यविषयकः संशयः किमिति न स्यात् इत्यत आह– नहीति ।। भिन्नयोः फलयोः ये साधने क्लृप्ते तत्साधकानां तन्निष्पादयतां पुंसाम् । निर्धारणार्थ इति । प्रश्नो हि निर्धारणार्थः । निर्धारणं च जातिगुणक्रियादिभिः सजातीयसमुदायाद् एकदेशस्य विवेचनम् । नच भिन्नफलकत्वे द्वयोः साधनयोः साजात्यमिति, कुतः तत्साधकानां सजातीय-त्वम् । अतो न युक्तः प्रश्न इत्यर्थः । किन्निर्धारणार्थः प्रश्नः इति पृच्छति– किन्त्विति ।। परिहरति– साध्येति ।। साध्यं फलम् ।
नन्वेवं प्रकृते साध्यनिर्धारणार्थ एव साधकाधिकविषयप्रश्नोऽस्तु इत्याशङ्क्य निराह– न चेति ।। भगवदुपासकानां फलम् उत्तमम् उत अव्यक्तोपासकानाम् इति साध्यनिर्धारणार्थः प्रश्नो न युज्यते । कुतः,
‘यावानर्थ उपादाने सर्वतः सम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ।।
इति द्वितीयाध्याये ज्ञानफलं महासमुद्रोदकमिव महत्, ज्ञानेतरसाधनसाध्यं फलं तु कूपोदकमिवात्यल्पम् इति भगवज्ज्ञानसाध्यमोक्षेतरफलस्य अव्यक्तोपासनादिरूपसाधनसाध्यस्य मोक्षाद् अवमत्वनिर्धारणेन आधिक्यगोचरसंशयस्यैव निरस्तत्वेन, तन्मूलप्रश्नस्य कारणा-भावादित्यर्थः ।
‘श्रियं वसाना’ इत्यत्र श्रीदेव्युपासनस्य मोक्षसाधनत्वरूपप्रकृतार्थप्रत्यायकत्वसिद्धयेऽ-ध्याहरति– प्रतीति ।। ‘वस निवासे’ इत्यस्य आत्मनेपदं छान्दसमिति भावेनोक्तम्– वसन्त इति ।। प्रतिपदाध्याहारे ‘वसानाः’ इत्यनन्वितम् इत्यत उक्तम्– वसन्त इतीत्यपि केचित् । अध्याहारव्यत्ययाश्रयणानुशयादाह– तामाच्छाद्येति ।। ‘वस आच्छादने’ इत्यस्येदं रूपमिति भावः । व्याख्यानद्वयेऽपि तात्पर्योक्तिः– उपासीना इति यावदिति ।। तथा च प्रकृत-सिद्धिरिति भावः । ‘समीण’ इत्युणादौ संशब्द उपपदे इणो धातोः थक्प्रत्यये ‘समेति, समीयते वाऽसौ’ इति समिथः अग्निः संभ्रमो वेति वैयाकरणैरुक्तत्वात् समिथशब्दः संभ्रमार्थः । संभ्रम-शब्दश्च समीहितार्थ इति भावेन समिथशब्दात् परस्य जसश्छन्दसि आकारादेशमुपेत्य, तमनूद्य व्याचष्टे– समिथा समीहितानीति ।। सम्पूर्वस्य ‘ईह चेष्टायाम्’ इत्यस्य पृषोदरादिभावेन समिथा समीहितानीत्युक्तमित्यपि आहुः । सत्यशब्दाज्जस आकारे छन्दसि ‘सत्या’ इति रूपमिति भावेनाह– सत्या सत्यानीति ।। ‘हरिमितयोर्द्रुवः’ इत्युणादौ ‘मितशब्दोपपदाद् द्रवतेः कुप्रत्ययः, डिच्च’ इत्युक्त्वा ‘मितद्रुः समुद्रः’ इत्यभिधानेन मितशब्दोपपदस्य ‘द्रु गतौ’ इत्यस्य ‘मितद्रुः’ इति रूपम् । ‘मितं द्रवति’ इति योगार्थस्य च वृद्धिह्रासराहित्येन गमनवति समुद्र एव सम्भवमभिप्रेत्याह– मितद्रौ समुद्र इति ।। समुद्रमात्रे ‘अमृतत्वमायाति’ इति श्रुतमोक्षप्राप्त्यनुपपत्तेरुक्तम्– क्षीराब्धाविति ।।
प्रस्थानान्तरे तु ‘यः पुरुषः श्रीसमाराधनार्थे जातोऽसौ तदर्थमेव गृहान्निर्गतो भवति । स श्रियम् उपदेष्टृभ्यः गुरुभ्य एव स्वस्य वयो धत्ते’ इति श्रुतिशेषार्थमुक्त्वा ‘मितद्रौ’ इत्यस्य गुरुशिष्याख्यमिथुने इत्यर्थ उक्तः । भावप्रदीपिकायां च श्रीसमाराधनार्थं गुरुसेवायै निरियाय । स च श्रियम् । श्रियः, जरितृभ्यः स्तोतृभ्यो वयः शुश्रूषया दधातीति श्रुतिशेषो व्याख्यातः ।
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे । क्रियते द्वादशाध्याय-टीका भावप्रदीपिका
।।
।। श्रीरिति ।। तथा च नाव्यक्तं जडप्रकृतिरिति भावः । ननु भगवदुपासनाधिक्य-तदुपायप्रदर्शनरूपार्थद्वयप्रतिपादकत्वेन एतदध्यायस्यैकवाक्यता न स्यात् । भगवन्माहात्म्या-प्रतिपादकत्वेन षट्कान्तर्भावश्च न स्यात्? इत्यत आह– तदुपायेति ।। तथा च प्रधान-प्रमेयस्यैकत्वेनैकवाक्यतेति भावः । षट्केति ।। भगवदुपासनाधिक्यप्रदर्शनस्यापि सर्वाधिको-पासनाविषयत्वरूपभगवन्महिमप्रदर्शनरूपत्वात् षट्कान्तर्भावसिद्धिरित्याशयः । पूर्वेण सङ्गतिः कस्मान्न प्रदर्शिता इत्यत आह– अर्जुनेति ।। गीतायाम् एवंशब्देन पूर्वाध्यायोक्तप्रकारवाचकेन आनन्तर्यलणाऽपि सङ्गितिर्दर्शितेत्यर्थः । न केवलमन्तर्भावलक्षणा सङ्गतिरिति अपिशब्दः ।
प्रश्नस्य संशयमूलकत्वात्, प्रकृते च संशयायोगात्, नार्जुनप्रश्नो युक्तः इत्याशयेन शङ्कते– नन्विति ।। तत्साधकाधिक्यविषय इति ।। मोक्षसाधनसाधकाधिक्यविषयकः । तदेव मोक्ष-साधनत्वेन प्रमितत्वमेव । नन्वव्यक्तोपासनस्य मोक्षसाधनत्वेन प्रमित्यभावेऽपि तत्साधकोत्तमत्व निर्धारणार्थः प्रश्नः किं न स्यात् ? इत्यत आह– नहीति ।। निर्धारणार्थः उत्तमत्व-निर्धाणार्थः । भिन्नानि फलानि येषां तानि भिन्नफलानि, एवम्भूतानि यानि साधनानि, तत्साधकानामित्यर्थः ।
तर्हि कथं प्रश्नः कर्तव्यः? इति पृच्छति– किन्त्विति ।। उत्तरमाह– साध्येति ।। अव्यक्तोपासना भगवदुपासनाभ्यां साध्ये ये फले, तयोर्मध्ये किं फलमुत्तमम् इति साध्य-स्योत्तमत्वनिर्णयार्थ एव प्रश्नो युज्यत इत्यर्थः । न तर्हि त्वदुपासकानां वा फलमुत्तमम् उताव्यक्तोपासकानां फलमुुत्तममिति साध्यस्योत्तमत्वनिर्धारणार्थ एव प्रश्नोऽस्तु इत्यत आह– न च तथा प्रकृत इति ।। तथात्वे ‘के वोत्तमफलकाः’ इत्येव भवेत्, नतु ‘के योगवित्तमाः’ इति । अतो गीतायां प्रश्नस्य साध्यस्योत्तमत्वनिर्धाणार्थत्वं न प्रतीयत इति भावः ।
किञ्च साध्यस्योत्तमत्वनिर्धारणार्थः प्रश्न एव न सम्भवति, मोक्षेतरस्य स्वर्गादेः सर्वस्यापि फलस्य मोक्षाद् अवरतायाः द्वितीयाध्याये प्रतिपादितत्वेन तत्प्रश्नस्य सिद्धार्थत्वात्, इत्याशये-नाह– यावानर्थ इत्यादिनेति ।। आहेति ।। अव्यक्तोपासनस्यापि मोक्षसाधनत्वेन श्रुत्यादौ प्रतीतत्वेन, भगवदुपासनाव्यक्तोपासनयोरेकफलकत्वेन एकफलसाधनसाधकोत्तमत्वविषये संशय-प्राप्त्या, तन्मूलक स्तेषां ‘के योगवित्तमाः’ इति प्रश्नो युक्त इत्याशयेनाहेत्यर्थः । निवासार्थकस्य वसतेः परस्मैपदित्वनियमेन शानचः प्राप्त्यभावेन ‘वसानाः’ इत्ययुक्तमित्यत आह– वसन्त इति ।। तामाच्छाद्येति ।। हृदये तामाच्छाय स्थिताः । आच्छादनार्थस्य वसतेरात्मनेपदित्वेन युक्तः शानजिति भावः । व्याख्यानद्वयेऽपि फलितमाह– उपासीना इति ।। मितं द्रवति वेलामतिक्रम्य न गच्छतीति मितद्रुः इति पदाथर्ं हृदि निधाय तदर्थमाह– मितद्रौ समुद्र इति ।।
भावप्रकाशः
।। एकार्थतेति ।। प्रधानार्थैक्यादिति भावः ।। षट्कान्तर्भाव इति ।। अधिकोपासनाविषयत्वरूपमहिम्नो वर्णनादिति भावः ।। नन्वन्तरसङ्गतिः कुतो नोक्तेत्यत आह– अर्जुनप्रश्नेति ।। एवंशब्देन दृष्टश्रुतरूपं मत्कर्मकृत् इत्यादिप्रकारश्च परामृश्यत इत्यने-नेत्यर्थः ।। तथाच पूर्वाध्यायोक्तविश्वरूपोपासने इहाधिक्यस्योच्यमानत्वाद् अनन्तरसङ्गतिरिति भावः ।। ननूपासनयोर्भिन्नफलत्वेपि तत्साधकाधिक्यविषयः संशयः किं नस्यादित्यत आह– नहीति ।। निर्धारणार्थ इति हेतुगर्भविशेषणम् । प्रश्नो हि निर्धारणार्थः । निर्धारणं नाम गुणक्रियादिभिः सजातीयसमुदायादेकदेशस्य पृथक्करणम् । नच भिन्नफलत्वे द्वयोः साधनयोः साजात्यम् । तत्कुतः तत्साधकानां साजात्यम् । अतो न प्रश्नो युक्त इति ।।
ननु तर्हि स्वर्गमोक्षरूपभिन्नफलसाधनसाधकाधिक्यप्रश्नोयं किं न स्यादित्याशयेन पृच्छति– किं त्विति ।। उत्तरमाह– साध्येति ।। नन्वेवं प्रकृतेऽपि साध्यनिर्धारणार्थ एव साधकाधिक्य-प्रश्नोऽस्त्वित्यत आह– न चेति ।। यावनर्थ इत्यादिनेति ।। तत्र सर्वस्यापि मोक्षातिरिक्त-फलस्य मोक्षावरत्वोक्तेः । साध्यस्य निर्धारितत्वेन तदर्थप्रश्नो न युक्तः । सिद्धार्थतापातादिति भावः । ननु वासस्याकर्मकत्वात् वसन्त इति व्याख्यानपक्षे श्रियमिति कर्मणि द्वितीयाऽ-युक्तेत्यतः कर्मप्रवचनीययोगे द्वितीयेयमिति भावेनाह– श्रियं प्रतीति ।। ननु ‘वसाना’ इति न ‘वस निवासे’ इत्यस्य रूपम् । तस्य नित्यपरस्मैपदित्वेन वसाना इति शानजाख्यात्मनेपद-विरोधात् । प्रतिशब्दाध्याहारापाताच्चेत्यरुचेराह– तामाच्छाद्येति ।। वस आच्छादन इति धातोरिति भावः । ननु पक्षद्वयेऽपि अव्यक्तोपासनस्य मोक्षसाधनत्वालाभ इत्यत आह– उपासीना इति यावदिति ।। यद्यपि ‘समीण’ इत्युणादिसूत्रेण सम्पूर्वादिणः थक्प्रत्यये निष्पन्नः समिथशब्दो युद्धवाचीति वेदभाष्यादावुक्तम् । तथाऽपि तद्ग्रहणे माहात्म्याति-शयालाभादभीष्टमात्रपरत्वमिभावेनाह– समीहितानीति ।। मितशब्दोपपदाद् द्रु गतावित्यस्मात् ‘हरिमितयोः द्रुवः’ इत्युप्रत्ययो डिच्च । ततश्च मितं द्रवतीति योगार्थस्य वृद्धिह्रासविवर्जिते समुद्र एव सम्भवादाह– समुद्र इति ।। समुद्रमात्रे अमृतत्वमायन् इत्याद्युक्तमोक्षादिप्राप्तिः कथमित्यत आह –क्षीराव्धाविति ।। अन्यत्रापि वृत्तेरिति ।। ‘ताश्चेन्द्रधर्मनासत्यसंश्रयात् श्रिय ईरिताः’ इति वचनाच्छचीशामलादिष्वपि प्रवृत्तेरित्यर्थः ।।