तात्पर्यम्
स्वाभाविकधर्माः परधर्माश्च
तात्पर्यम्
‘शौर्यं तेजो धृतिर्दाक्ष्यं दानं च क्षत्रियेऽधिकाः ।
तद्धीना ब्राह्मणे तस्माद् वैश्ये शूद्रे ततोऽल्पकाः ।
अध्यापनं च शुश्रूषा जीवनार्थमृते सदा ।
विप्रादिषु क्रमात् ज्ञेयाः शूद्रस्याध्यापनं विना ।
तस्माच्छूद्रोऽल्पशुश्रूषुः स्वभावाज्जीवनं विना ।
एते नैसर्गिका भावाः स्याद् भावोऽन्योऽपि कुत्रचित् ।
बलाद् विरुद्धभावस्तु हेयः स्वाभाविकोऽपि यः ।
अनिसर्गोऽपि हि शुभो वर्धनीयः प्रयत्नतः ।
याजनैश्वर्यपूर्वास्तु नान्यैः कार्याः शुभा अपि ।
अपलायनं च शूद्राणां ब्रह्मक्षत्रार्थमिष्यते’ इति च ।
प्रकाशिका
जीवनार्थमध्यापनं ब्राह्मणस्य स्वधर्मः ।। सतामध्यापनं (सज्जनार्थम्) विप्रक्षत्रियवैश्यानां क्रमेण धर्मः ।। सज्जनार्थे शुश्रूषा क्रमेण विप्रादिचतुर्वर्णस्येत्याह ।। अध्यापनमिति ।। जीवनार्थत्वमन्तरेण शूद्रोऽल्पशुश्रूषुः सतां भवेदित्यर्थः । युद्धेऽपलायनमैश्वर्यमित्याद्युक्त्वा ते नैसर्गिका इत्युच्यते ।। युद्धे चाप्यपलायनमिति क्षत्रियविहितं कर्म ब्रह्मक्षत्रनिमित्तं शूद्रस्याप्यस्तीत्याह ।। अपलायनमिति ।।
न्यायदीपिका
शमादीनां साधारणत्वेऽपि क्षत्रियस्य शौर्यादयः सर्वेऽपि विशेषधर्माः किं न स्युः ब्राह्मणस्याध्यापनादिमात्रं, शूद्रस्य शुश्रूषामात्रं च स्वधर्मः किं न स्यादित्यतस्तेषां साधारण्यं प्रमाणेन दर्शयति ।। शौर्यमिति ।। एतेन क्षत्रिये शौर्याद्युक्तिराधिक्यविषयेति चोक्तं भवति । सतामध्यापनं च शुश्रूषेति सम्बन्धः । शूद्रस्याध्यापनं विना । किमुक्तं भवतीत्यत आह ।। तस्मादिति ।। शुश्रूषायाः सर्वधर्मत्वादित्यर्थः । सतामिति सम्बध्यते । शौर्यादीनां साधारणत्वे क्षत्रियादीनां के विशेषगुणा इत्यत आह ।। एत इति ।। साधारणतयोक्तेभ्योऽन्ये युद्धेऽपलायनैश्वर्यादय इत्यर्थः । नैसर्गिका असाधारणाः । किमेते पुंसामसाधारणा एव धर्मा नियत्या भवन्तीत्यत आह ।। स्यादिति ।। एतेषामसाधारणत्वादवश्यानुष्ठेयत्वमिति च नाशङ्कनीयमित्याह ।। बलादिति ।। यथा ब्राह्मणस्य जीवनार्थं याजनमित्यादि । एवमसाधारण्येनात्मीयत्वाभावेऽपि त्याज्यत्वं च न मन्तव्यमित्याह ।। अनिसर्ग इति ।। यथा ब्राह्मणस्य जीवनार्थमध्यापनमित्यादि । उक्तस्यापवादमाह ।। याजनेति ।। अस्वाभाविकाः शुभा अपि साधारणा एव वर्धनीयाः । न तु विप्राद्यसाधारणा याजनादय इत्यर्थः । शौर्यादीनामसाधारणत्वोक्तया युद्धेऽपलायनमैश्वर्यं च क्षत्रियस्य विशेषधर्मावित्युक्तम् । तस्यापवादमाह ।। अपलायनमिति ।। विप्रक्षत्रार्थमिति विशेषोक्तया सामान्यतः क्षत्रियस्यैव सिद्ध्यति । ततो नोक्तविरोधः ।
किरणावली
शमादीनामिति ।। विप्रधर्माणामिति शेषः ।। शौर्यादयः सर्वेपीति ।। ईश्वरभावान्ताः सर्वेपि विशेषधर्माः किंनस्युः । किं युद्धेऽपलायितैश्वर्ययोरेव विशेषधर्मत्वग्रहणेनेत्यर्थः ।। ब्राह्मणस्याध्यापनमात्रमिति ।। जीवनार्थत्वाविशेषितमध्यापनमात्रमित्यर्थः ।। शुश्रूषामात्रमिति ।। जीवनार्थत्वाविशेषितं शुश्रूषामात्रमित्यर्थः ।। तेषामिति ।। क्षत्रियगुणेषु सप्तसुमध्ये युद्धेऽपलायनेश्वरभावातिरिक्तानां गुणानामध्यापनमात्रस्य शुश्रूषामात्रस्य चेत्येतेषामित्यर्थः । ननु शौर्यादेरन्यनिष्ठत्वे शौर्यादीनुक्त्वाक्षात्रं कर्मस्वभावजमित्युक्तिः कथमित्यत आह ।। एतेनेति ।। शौर्याद्युक्तिः शौर्यादेः स्वाभाविकत्वोक्तिराधिक्यविवक्षया । तानि शौर्यादीनि क्षत्रियस्य स्वाभाविकानीत्युक्तं भवतीत्यर्थः ।। सतामध्यापनं च शुश्रूषेति सम्बन्ध इति ।। सतामध्यापनं शुश्रूषाचेति सम्बन्ध इति भावः जीवनार्थं जीवनलक्षणसम्बन्धमृते जीवनार्थत्वमृते इति वा सतामध्यापनं शुश्रूषाचविप्रादिषु क्रमाज्ज्ञेयाः । विप्रेऽधिका तस्मात्क्षत्रिये हीना तस्मात् हीना । वैश्ये तस्माद्धीना शूद्र इत्युक्तस्यापवाद उच्यते ।। शूद्रस्याध्यापनं विनेति ।। जीवनार्थमृतेध्यापनं विनेत्यर्थः ।। किमुक्तं भवतीति ।। उत्सर्गसेवापवादविषयातिरिक्तविषयतयापर्यवसानस्य वक्तव्यत्वात् । उत्सर्गशास्त्रार्थतया किमुक्तं भवतीत्यर्थः ।। सतामिति सम्बध्यत इति ।। ततश्च तस्मात् शुश्रूषायाः सर्वधर्मत्वात् शूद्रोजीवनमुपाधिं विना स्वभावादेव सतामल्पशुश्रूषुरिति मूलार्थः । बुहशुश्रूषायां जीवनहेतोरन्यस्या भावाज्जीवनमेव दुर्लभमिति भावः । एते नैसर्गिका भावा इत्यत्रैतच्छब्देऽपलायनमैश्वर्यन्तौ च कृष्यादयो जीवनार्थशुश्रूषायाजनं जीवनार्थं प्रतिग्रहश्चेत्युक्तानां परामर्शो न तु शौर्यादीनामित्याह ।। साधारणतयेति ।। स्याद्भावोन्योपि च क्वचिदिति मूले चोवधारणे । अन्योभावः क्वचित्स्यादेव । यथाब्राह्मणस्य युद्धादिः क्षत्रियस्य कृष्यादिरित्यादि द्रष्टव्यम् । बलादिति मूलस्य प्रयत्नं विधायेत्यर्थः ।। एवमसाधारण्येनात्मीयत्वाभावेपीति ।। एवमध्यापनं च शुश्रूषाजीवनार्थमृते सतां विप्रादिषु क्रमाज्ज्ञेया इत्युक्तरीत्या केषाञ्चिद्गुणानामसाधारण्येनात्मीयत्वाभावेपीत्यर्थः ।। उक्तस्येति ।। अनिसर्गोपिहि शुभ इत्युक्तस्येत्यर्थः । उक्तं च श्रीपद्मनाभतीर्थीये । युद्धे पलायनमैश्वर्यमित्युक्ता एवैते नैसर्गिका इत्युच्यन्त इति । मूले याजनैश्वर्यपूर्वा इति पूर्वपदेन युद्धे पलायनाध्यापनप्रतिग्रहादेर्ग्रहणम् ।। शौर्यादीनामसाधारणत्वोक्तयेति ।। शौर्यन्तेजोधृतिर्दाक्ष्यं दानं च क्षत्रियेऽधिकाः । इत्यादौ शौर्यादीनां पञ्चानां गुणानां साधारणत्वस्यैतत्प्रमाणोपक्रम एवोक्तया परिशेषविधया युद्धेऽपलायन मैश्वर्यं च क्षत्रियस्य विशेषगुणावित्युभयोरपि विशेषधर्मत्वमुक्तं तस्यापवादमित्यर्थः । एतेन मुखत एव युद्धे पलायनमैश्वर्यं च क्षत्रियस्य विशेषगुणावित्युक्तत्वात् । परिशेषानुसरणमयुक्तमिति निरस्तम् । स्ववचनेनोक्तस्य प्रमाणेनापवादयोगेन प्रमाणोक्तेरेवानुसरणीयत्वात् । ननु युद्धेऽपलायनमैश्वर्यं चक्षत्रियस्य विशेषगुणावित्युक्तत्वात् । अपलायनस्य मुखत एवासाधारणस्योक्तत्वेन सामान्यतः प्राप्तिरूपोत्सर्गाभावेनोत्सर्गापवाद न्यायानवकाशेन विरोधानवकाशादित्याशङ्कानिवर्तकतया प्रयुक्तस्य विप्रक्षत्रार्थमित्यस्य तात्पर्यमाह ।। विप्रक्षत्रार्थमितीति ।। शूद्रैरपलायनकरणेविप्रक्षत्रसंरक्षणरूपकारणविशेषोक्तया सामान्यतः कारणविशेषसद्भावाविवक्षया सामान्यतोपलायनं क्षत्रियस्यैवेत्यसाधारण्येन सिद्ध्यति । ततः अपलायनस्य सामान्यत एवासाधारण्येन प्राप्तत्वात्कारणविशेष सद्भावापवादेन साधारण्योक्तौ न विरोध इत्यर्थः ।
भावदीपः
शुश्रूषायाः सर्वधर्मत्वादिति ।। अध्यापनञ्च शुश्रूषेत्युक्तदिशेति भावः ।। इत्यादीति ।। क्षत्रियस्य भीत्या पलायनं वैश्यस्यापि यथान्यायातिक्रमणमित्यादीत्यर्थः ।। इत्यादीति ।। क्षत्रियस्यापि धैर्येणापलायनम् । वैश्यस्य न्यायेन कृष्यादीत्येवं ध्येयमित्यर्थः ।। उक्तस्येति ।। अनिसर्गोऽपीत्युक्तस्येत्यर्थः ।। नोक्तविरोध इति ।। क्षत्रियस्य विशेष इत्युक्तविरोधो नेत्यर्थः ।।
भावप्रकाशः
व्यवहितत्वादन्वयमाह । सतामध्यापनं चेति ।। उक्तस्यापवादमाह ।। अनिसर्गोपिहि शुभोवर्धनीय इत्युक्तस्येत्यर्थः । विप्रक्षत्रार्थमिति विशेषोक्तयेति । शूद्रस्य विप्रक्षत्रार्थमपलायनमपि पदातितयेति गमयितव्यम् ।। यत्र वेदोरथस्तत्र न वेदो यत्र नोरथ इति शूद्रस्य रथाभावस्योन्यत्रोक्तत्वात् । ततो नोक्तविरोध इति । अतो युद्धे पलायनमैश्वर्य चेत्युक्तविरोधोनेत्यर्थः ।।
वाक्यविवेक
भाष्यकारोक्तस्यापलायनं चेति प्रमाणवाक्यं निषेधकमिति भ्रान्तिनिरासायावतारयति ।। शौर्य्यादीनां साधारणत्वोक्तयेति । अपलायनं च शूद्रस्येति वाक्यं मूलकारेणाभिहितस्य अतो युद्धे पलायनमैश्वर्यं च क्षत्रियस्य विशेषगुणौ इत्येतस्य दूषणाय न प्रवृत्तं किं तु प्रमाणे सूचितस्य युद्धेऽपलायनं ऐश्वर्यं च विशेषधर्मावित्यस्यापवादाय प्रवृत्तमिति भावः । ननु यदि अपलायनं शूद्राणामपि धर्मः तर्हि अपलायनं क्षत्रियाणामसाधारणधर्म इत्युक्तं विरुध्येत । अत एव तस्यापावाद माहेत्यनुपपन्नमित्यत आह । विप्रक्षत्रार्थमितीति । विप्रक्षत्रापत्प्राप्तिरूपनिमित्तप्राप्तस्य अपलायनस्य साधारणत्वेऽपि स्वाभाविकस्यापलायनस्यासाधारण्यं न विहन्यते । अतो नोक्तविरोधः तस्यापवादमाहेत्यनुपपन्नमिति भावः ।