विष्णुः जगद्भिन्नत्वेन ज्ञेयः
विष्णुः जगद्भिन्नत्वेन ज्ञेयः
गीता
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूल
मसङ्गशस्रेण दृढेन छित्त्वा ।। ३ ।।
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ।। ४ ।।
तात्पर्यम्
जगद्वृक्षोऽयमश्वत्थो ह्यश्ववच्चञ्चलात्मकः ।
अव्ययोऽयं प्रवाहेण स्वसक्तज्ञानहेतिना ।
विष्णोः सम्यक् पृथग्दृष्टिनामच्छेदनभाक् सदा ।
अव्यक्तादिसमस्तं तु नेति नेत्यादिवाक्यतः ।
बोधेनैव पृथग् विष्णोः कृत्वा मृग्यः स केशवः ।
तमेवाऽद्यं प्रपद्येत यदंशाभासको ह्ययम् ।
जीवराशिः समस्तोऽपि ब्रह्मरुद्रेन्द्रपूर्वकः ।। ३,४ ।।
प्रकाशिका
कारणेष्वित्यनेनाधश्चोर्ध्वञ्चेत्यस्यार्थ उच्यते ।।
‘‘अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्वा ।।
ततः परं तत्परिमार्गितव्यमित्यस्यार्थः स्पष्ट्यते ।।’’
स्वसक्तेत्यादिना ।।
‘‘तमेव चाद्यं पुरुषं प्रपद्य’’ इत्यत्र पुरुषव्यत्ययेन प्रपद्यतेति ज्ञातव्यम् ।। ३,४ ।।
न्यायदीपिका
वृक्षमात्रसाम्यस्योक्तत्वादश्वत्थं प्राहुरित्यादावश्वत्थत्वोक्तिः कथमित्यत आह ।। जगदिति ।। अश्ववत्स्थितोऽश्वत्थ इत्यर्थः । चञ्चलश्चेत्किं सर्वात्मनोच्छिद्यत इत्यत आह ।। अव्यय इति ।। किं मतो यद्येवं जगद्वृक्ष इत्यत आह ।। स्वसक्तीति ।। संगराहित्यसहितज्ञानासिनेत्यर्थः । अस्य विष्णोः पृथक्त्वमेव कुतः तज्ज्ञानेन च किमित्यत उक्तं विवृण्वन्नाह ।। अव्यक्तादीति ।। नेति नेतीत्यादेः पृथक्त्वज्ञानेन च भगवन्मार्गणं भवति । जगतो भगवद्वैलक्षण्ये ज्ञाते हि तत्स्वरूपं ज्ञातुं शक्यत इति भावः । अनेनाश्वत्थमेनमित्युक्तार्थं भवति । को जगद्वृक्षच्छेदनोपाय इत्यत आह ।। तमेवेति ।। अनेन तमेवेति विवृतं भवति । वृक्षच्छेदार्थमिति शेषः । ननु जगद्वृक्षच्छेदो ब्रह्मादिप्रतिपत्त्याऽपि भवत्यतस्तमेवेति किमवधार्यत इत्यत आह ।। यदिति ।। ब्रह्मादीनां भगवदंशाभासत्वेनासमर्थत्वाज्जगद्वृक्षच्छेदाय भगवंतमेव प्रपद्येतेत्याशयः ।। ३४ ।।
किरणावली
वृक्षमात्रसाम्यस्येति ।। शाखामूलपर्णादिभावेनाविशेषितवृक्षसाम्यस्योपपादितत्वात् । अश्वत्थं प्राहुरव्ययमश्वत्थमेनमित्यत्राश्वत्थत्वोक्तिः कथमित्यर्थः ।। किमत इति ।। यद्येवं भूतोऽतः किंकार्यमित्यर्थः । असक्तिर्विषयेषु विरागस्तत्सहितं ज्ञानमसक्तिज्ञानं सु अतिदृढं च तदसक्तिज्ञानं च स्वसक्तिज्ञानं तदेव हेतिस्तेनातिसुदृढवैराग्यसहितेनात एवातिदृढेन ज्ञानाख्येन हेतिनासिता । प्रकृतोऽयं जगद्वृक्षः विष्णोः सकाशात्सम्यक् पृथग्दृष्टिनामकं यच्छेदनं तद्भागित्यर्थः । वैराग्यसहितेन शास्त्रावमर्शजन्यज्ञानाख्यशस्त्रेण विष्णोरत्यन्तभिन्नं जगदिति फलभूतज्ञानमुदेति तदेव च्छेदनं तद्विषयो भवति जगद्वृक्ष इति भावः ।। पृथक्त्वमेव कुत इति ।। प्रमाणादिति शेषः ।। तज्ज्ञानेन च किमिति ।। साध्यमिति शेषः । अव्यक्तादिसमस्तं त्विति मूलस्य स एष नेति नेत्यात्मेति वाक्यत एव जातेन बोधेनाव्यक्तादिकं समस्तं तु विशेषेणात्यन्तम् । विष्णोः पृथगिति कृत्वा निर्धार्यस्थितेन स केशवो मृग्य इत्यर्थं मनसि निधाय तात्पर्यमाह ।। नेति नेतीत्यादेरिति ।। तदेवोपपादयति ।। जगत इति ।। हिशब्दोऽवधारणे । हिर्हेताववधारण इत्यभिधानात् । जगतो भगवद्वैलक्षण्ये ज्ञाते हि ज्ञात एव तत्स्वरूपं भगवत्स्वरूपं सम्यक् ज्ञातुं शक्यते । अन्यथा सङ्कीर्णतया ज्ञानप्रसङ्गादिति भावः ।। अनेन तमेवेति विवृतं भवतीति ।। प्रपद्ये इत्यस्य प्रपद्येतेत्यर्थोक्तया विवृतमित्यर्थः ।। भगवदंशाभासत्वेनेति ।। भगवदंशामत्स्याद्याः ब्रह्मादयस्त्वंशाभासा इति भावः ।। ३४ ।।
भावदीपः
अश्ववत्स्थितोऽश्वत्थ इति ।। सुपि स्थ इति कप्रत्ययः ।। कुत इति ।। कस्मात्प्रमाणादित्यर्थः ।। भगवन्मार्गणमिति ।। श्रवणादिरूपमित्यर्थः ।। ३ ।।
भावप्रकाशः
शङ्काद्वयपरिहाराय पृथगित्यस्यावृत्या व्याचष्टे । नेति नेतीत्यादेरिति ।। ३ ।।