तात्पर्यम्

तात्पर्यम्

अविद्यमानमेवेश्वरं सृष्ट्यादिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात् ? अनुवादोऽपि ‘यदिदं वदन्ति तन्न युज्यत’ इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः । अतिप्रसङ्गश्चान्यथा । अभेदानुवादेन भेदोपदेशः किमिति न स्यात् ?

प्रकाशिका

न हि शुक्तितत्त्वज्ञानेन तदध्यस्तरजतज्ञानं भवति । अतः मिथ्यात्वं त्वितोऽपि न युज्यते इत्याह ।। अविद्यमानमिति ।।

न्यायदीपिका

भवेदयमैतदात्म्यपरामर्शो भवतामनुगुणो यद्यैतदात्म्यपदेन तत्संबंध्युच्यते । न च तन्निश्चितम् । सर्वोपीशेशितव्यादिप्रपञ्चःपरमात्मात्मक इत्यप्यर्थसम्भवादिति चेत् तत्किमत्रेशेशितव्यादिप्रपञ्चस्य साक्षात्परमात्माभेदोऽभिधीयत इति ते मतमुत ईशेशितव्यादिप्रपञ्च एव परमात्मातिरिक्तो नास्तीति स्वरूपतो निषिध्यते । नाद्यः । मिथ्यासत्ययोरभेदायोगात् । द्वितीयं दूषयति । अविद्यमानमिति ।। यद्येषा श्रुतिरीशेशितव्यादिप्रपञ्चं परमात्मातिरेकेण प्रतिषेधति तदोन्मत्तवाक्यवदप्रमाणं स्यात् । अविद्यमानस्यैवेशेशितव्यादिप्रपञ्चस्य स्वयमेव तदैक्षतेत्यादौ परमात्मातिरेकेण विहितत्वात् । न च वाच्यमत्र निषेद्धुं तदैक्षतेत्यादावीशेशितव्यादि प्रपञ्चोऽनूद्यत एव अतो न दोष इति । ईशेशितव्यादिप्रपञ्चस्य श्रुतिं विनात्मनो भिन्नत्वेनाप्राप्ततयानुवादा योगादिति भावः । इतोपि निषेधाय तदैक्षतेत्यादौ प्रपञ्चोऽनूद्यत इति न युज्यते । यदिदं वदन्ति तन्नयुज्यत इति वाक्येन निषेधे विशेषयुक्त्याच हीनत्वात्तद्विनानुवादस्य क्वाप्यदृष्टत्वादित्याह ।। अनुवादोपीति ।। तादृशवाक्याद्यभावेप्यैतदात्म्यमित्यादौ निषेद्धुं तदैक्षतेत्यादिना परमात्मातिरिक्ततया प्रपञ्चोऽनूद्यत इति कल्प्यते तर्हि तदैक्षतेत्यादौ प्रपञ्चस्य परमात्मातिरेकेणाभावं निषिध्यातिरिक्ततया प्रपञ्चोनूद्यत इति कल्प्यते तर्हि तदैक्षतेत्यादौ प्रपञ्चस्य परमात्मातिरेकेणाभावं निषिध्यातिरिक्तत्वेन भावं विधातुमैतदात्म्यमित्यादिना प्रपञ्चस्य परमात्मातिरेकेणाभावोऽनूद्यत इत्यपि स्यादविशेषादित्यर्थः ।

किरणावली

साक्षादिति ।। मुख्यवृत्त्येत्यर्थः ।। स्वरूपत इति ।। तदभेदो नामतद्व्यतिरेकेणाभावः तस्मिन्नारोपितत्वादित्यभिमतमिति भावः ।।

यद्येषेति ।। ऐतदात्म्यमिदं सर्वमिति श्रुतिरित्यर्थः ।। परमात्मातिरेकेणेति ।। निर्गुणब्रह्मातिरेकेणेत्यर्थः । तदैक्षते तीक्षणकर्तृत्वेन तत्पूर्वकस्रष्टृत्वेन जीवजडानां सृज्यत्वेनोक्तत्वादिति भावः । मूले सृष्ट्यादिकमित्यस्य सर्जनेक्षणादिक्रियाश्चेत्यर्थः ।। भेदस्यैवेति ।। नासंवत्सरवासिन इत्यैतरेये गुरुशिष्यभावस्य अहं विश्वमिति तैत्तिरीयोपनिषदि चतुर्मुखेन स्वस्य सर्वजगच्छ्रैष्ठ्यस्य अनन्ते स्वर्गे लोक इति तलवकारे स्वरूपभूतरमणज्ञानरूपे भगवति तिष्ठतीत्याधाराधेयभावस्य ब्रह्मविदोविदुरिति ज्ञातृज्ञेयभावस्य नमो विष्णव इत्यत्र नंतृनम्यभावस्य पश्यंत्यात्मन्यवस्थितमित्यत्र द्रष्टृदृश्यभावस्य चोक्तेरिति भावः ।

भावप्रकाशः

एतादृशवाक्याद्यभाव इत्यादिपदेन निषेधादिविशेषयुक्तिर्ग्राह्या ।

वाक्यविवेकः

एतेन परेणेशेशितव्यादिप्रपञ्चः परमात्मभिन्नतया श्रुत्या अनूद्यत इत्यङ्गीकारेऽपि इश्वरः स्वभिन्नतया श्रुत्या अनूद्यत इत्यनङ्गीकारात् अविद्यमानमेवेश्वरमित्यनुपपन्नमिति दूषणं परास्तम् । इश्वरशब्देन शबलब्रह्मसंज्ञकईशप्रपञ्चस्यग्रहणात् । तेनेति वाक्ये तच्छब्देन कस्य परामर्श इत्यतः सामान्येनाह ।। यदिदं वदन्तीति । अनुवादकत्वाभिमतेन वाक्ये नेदमनूद्यमिति यदिदं वदन्ति तस्य परामर्श इति भावः । एतेन तेनेति वाक्येन विनेत्येवं वक्तव्यं यदिदं वदन्तीत्यधिकम् । लोके अनुवादानन्तरं तन्नेत्येव दर्शनात् यदिदं वदन्तीत्यस्यादर्शनात् इति परास्तम् । तन्नेत्यत्रत्यशब्दपरामर्शप्रदर्शनार्थमेव यदिदं वदन्तीत्यस्योक्तत्वात् ।