गीता
विष्णुगान्यपि भूतानि अतत्स्थानि
गीता
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।। ४ ।।
न च मत् स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ।। ५ ।।
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ।। ६ ।।
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।। ७ ।।
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ।। ८ ।।
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ।। ९ ।।
तात्पर्यम्
‘विष्णुगान्यप्यतत्स्थानि भूतान्येष ह्यसङ्गतः’ इति च । ममाऽत्मा मम देह एव । तदनन्यत्वात् । देहस्याचेतनत्वाशङ्कानिवृत्तये ‘ममाऽत्मा’ इत्याह ।। ४९ ।।
श्रीपद्मनाभतीर्थविरचिता टीका
प्रकाशिका
एतदध्यायप्रतिपाद्यं दर्शयति ।। सप्तमोक्तमिति ।। मत्स्थानीत्यस्यार्थमाह ।। विष्णुगानीति ।। ‘भूतभृन्न च भूतस्थो भूतात्मा भूतभावन’ इत्यस्यार्थमाह ।। मम देह इति ।। भगवदनन्यत्वाद्देहस्य तल्लक्षणं देहेऽप्यस्ति ।। द्व्यर्थोऽयमात्मशब्दो देहमभिदधाति । तस्य भगवत्स्वरूपत्वेन चेतनत्वं चाभिदधाति इत्यर्थः ।। ५९ ।।
न्यायदीपिका
प्रतिज्ञातं ज्ञानमुच्यते ।। मयेति ।। तत्र मत्स्थानि सर्वभूतानि न च मत्स्थानि भूतानीति व्याहतमित्याशङ्कां स्मृत्यैव परिहरति ।। विष्णुगानीति ।। विष्णोः स्पर्शरहितत्वात्स्पृष्ट्वा तत्रस्थत्वाभावादविरोध इत्यर्थः । ननु मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः इत्युक्तत्वात् भूतभृन्न च भूतस्थो ममात्मा इति पुनरुक्तिरित्यत आह ।। ममेति ।। पूर्वं स्वस्य भूताधारत्वाद्युक्तमिदानीं स्वदेहस्येत्यपौनरुक्तयमिति भावः । ननु भगवल्लक्षणं भूताधारत्वादिकं कथं तद्देहे सम्भवतीत्यत आह ।। तदिति ।। भगवदनन्यत्वाद्देहस्य तत्र भगवल्लक्षणं युक्तमित्यर्थः । नन्वेवं भगवतस्तद्देहस्य चाभेदेन पुनः पुनरुक्तिरापन्नेत्यत आह ।। देहस्येति ।। भगवतस्तद्देहस्य भेदमङ्गीकृत्य देहत्वेन या लोकस्य भगवद्देहेऽप्यचेतनत्वशङ्का जायते तन्निवृत्तयेऽत्र भगवल्लक्षणयुक्ततया तदैक्येन चेतनत्वमुच्यते । अतो न पुनरुक्तिरिति भावः । यद्यत्र देहो विवक्षितस्तर्हि मम देह इति प्रसिद्धशब्दं विहायात्मशब्दप्रयोगे को हेतुरित्यतो वाऽऽह ।। देहस्येति ।। यद्यत्र मम देह इत्येवोच्येत तर्हि कथमचेतनस्य देहस्य भगवल्लक्षणं स्यादित्याशङ्का स्यात् । तत्परिहाराय तस्य चेतनत्वं च पृथग्वक्तव्यं स्यात् । आत्मशब्दप्रयोगे तूभयमुक्तं स्यात् । द्व्यर्थोह्ययमात्म शब्दो देहार्थस्तस्य चेतनत्वार्थश्चातो ममात्मेत्युक्तमिति भावः ।। ४९ ।।
किरणावली
विष्णुगान्यप्यतत्स्थानीति मूलस्य भूतानि जीवजातानि विष्णुगान्यप्यतत्स्थानि कुतः । हि यस्मादेष विष्णुरसङ्गतः । आधेयानां प्राणिनां स्पर्शेन्द्रियेणासङ्गतः । सङ्गतः सम्बद्धो न भवति । तदग्राह्य इति यावत् ।
यद्वा ध्येयप्रपञ्चगतशीतोष्णादिधर्मसङ्क्रान्तिमान्न भवतीति अर्थं हृदि निधायाभिप्रायमाह ।। विष्णोरिति ।। विष्णोराधेयप्राणिस्पर्शनेन्द्रियसम्बन्धरहितत्वात्तदग्राह्यत्वात् । आधेयजगद्धर्मसङ्क्रान्तिरहितत्वाच्च स्पृष्ट्वा स्पर्शेन्द्रियेण गृहीत्वा शीतोष्णादिस्वधर्मं तत्र सङ्क्रामयित्वा तत्रस्थत्वाभावादित्यर्थः। स्पष्टमेतद्भाष्यटीकयोः । मूले ममात्मा मम देह एवेत्येवकारस्य ममात्मेत्यत्र देह एवोच्यते न तु स्वयमतो न पुनरुक्तिरित्यर्थः ।। देहत्वेन या लोकस्येति ।। देहत्वेन हेतुनेत्यर्थः ।। देहस्याचेतनत्वशङ्केत्यत्र कर्तरि षष्ठीति प्रतीतिनिरासायोक्तं देह इति । भगवद्देहविषय इत्यर्थः । कर्मणि षष्ठीति भावः ।। अचेतनत्वशङ्केति ।। आनुमानिकाचेतनत्वप्रसक्तिरित्यर्थः ।। कथमचेतनस्य देहस्येति ।। यत्र देहत्वं तत्राचेतनत्वमिति व्याप्तिरिति भावः ।। द्व्यर्थो ह्ययमिति ।। आत्मा चेतनः ममात्मा देहश्चेति द्व्यर्थ इति भावः ।। ४९ ।।
भावदीपः
ज्ञानमिति ।। ज्ञातव्यं प्रमेयमुच्यत इत्यर्थः ।। स्पर्शरहितत्वादिति ।। स्पर्शस्य शक्त्यात्मकत्वेन रामकृष्णाद्यवतारेष्विवाभिव्यक्त्यभावादित्यर्थः ।। स्पृष्ट्वेति ।। भूतलादौ चैत्रादेरिव स्पर्शनेन्द्रियेण तं ज्ञात्वा शैत्यौष्ण्याद्यन्योन्यधर्मसंक्रान्तिमापाद्यति भावः ।। भूताधारत्वादीत्यादिपदेन भूतस्थत्वाभावग्रहः ।। देहत्वेनेति ।। हेतुनेति योग्यम् । भगवद्देहोऽचेतनो देहत्वाद्देवदत्तदेहवदित्यचेतनत्वशङ्केत्यर्थः ।। उभयमिति ।। देहत्वं भगवल्लक्षणघटकचेतनत्वं चेत्यर्थः । कथमित्यत आह ।। द्व्यर्थो हीति ।। ४९ ।।
भावप्रकाशः
यथा पृथिव्यां स्पृष्ट्वा स्थितानि न तथा मयीति भाष्यं मनसि निधाय विष्णुगानीति वाक्यतात्पर्यमाह ।। विष्णोः स्पर्शरहितत्वादिति । देहस्येति कर्त्तरि षष्टीति प्रतीतिनिरासाय व्याचष्टे । भगवत इति । देहत्वेनेति । भगवद्देहोऽचेतनो देहत्वादन्यदेहवदिति अनुमानेनेत्यर्थः । न पुनरुक्तिरिति । प्रयोजनसद्भावान्न पुनरुक्तिरिति भावः ।। यथोक्तमनुव्याख्याने । मानमेयविशेषेण पुनरुक्तिर्न जायत इति ।। ४९ ।।
वाक्यविवेकः
स्पृष्ट्वा तत्रस्थत्वाभावादिति ।। भूतलादीनां यादृशं घटाद्याधारत्वं तद्विलक्षणमेवेश्वरस्य जगदाधारत्वमित्यर्थः ।। ५९ ।।