तात्पर्यम्

तात्पर्यम्

यथा पक्षी च सूत्रं च नानावृक्षरसा अपि ।

यथा नद्यः समुद्रश्च यथा वृक्षपरावपि ।

यथा धानाः परश्चैव यथैव लवणोदके ।

यथा पुरुषदेशौ च यथाऽज्ञज्ञानदावपि ।

यथा स्तेनापहार्यौ च तथा त्वं च परस्तथा ।

भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित् ।

एवं भेदोऽखिलस्यापि स्वतन्त्रात्परमेश्वरात् ।

परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात् ।

स जीवनामा भगवान्प्राणधारणहेतुतः ।

उपचारेण जीवाख्या संसारिणि निगद्यते ।

तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः ।

पञ्चभेदसत्यत्वमाह प्रपञ्चो यदीति श्रुतिः

जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।

जीवभेदो मिथश्चैव जडजीवभिदा तथा ।

जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः ।

विष्णोः प्रज्ञामितं यस्माद्द्वैतं न भ्रान्तिकल्पितम् ।

औतः परमार्थोऽसौ भगवान्विष्णुरव्ययः ।

परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च ।

सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता ।

इत्यादयो गुणा विष्णोर्नैवान्यस्य कथञ्चन ।

अभावः परमद्वैते सन्त्येव ह्यपराणि तु ।

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।

औतं ज्ञानिनां पक्षे न तस्माद्विद्यते क्वचिद्

इत्यादिश्रुतिभ्योऽर्थान्तरस्यैवावगतत्वात् ।

प्रकाशिका

अत्र ‘स यथा शकुनिः सूत्रेण प्रबुद्धः’ इत्यादिना जीवेशभेदे ये दृष्टान्ता उक्ताः तानाह ।। यथा पक्षीत्यादिना ।। अत्र यत्श्रूयते ‘सेयं देवतैक्षताऽहमिमास्तिस्त्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ इति तत्र जीवशब्देनान्तर्याम्युच्यते । न तु संसारिणः परेशात्मकत्वम् इत्याह ।। सजीवेति ।। ‘‘प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः’’ इत्येतां श्रुतिं तत्त्वमस्यहं ब्रह्मास्मि इत्यादिशब्दगृहीतां व्याचष्टे ।। जीवेश्वरेत्यादिना ।।

न्यायदीपिका

जीवेश्वरभेदे स यथा शकुनिरित्यादिनोक्तदृष्टान्तवाक्यानि व्याचष्टे ।। यथेति ।। यदपि जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । स एष जीवेनात्मनानु प्रभूत इति । यज्जीवेशाभेदाभिधायकवत्प्रतीयमानं वाक्यद्वयं तदित्यादिश्रुतिविरोध इत्यादिपदगृहीतं व्याख्यायते ।। स इति ।। जीवापेतं वाव किलेदं म्रियते । नजीवो म्रियत इत्यस्यार्थस्तदधीनमिति ।

प्रपञ्चो यदि विद्येत निवर्तेत न संशय इत्यादिश्रुतिर्भेदमिथ्यात्वाभिधायकवत्प्रतीयमाना प्रागादिपदगृहीता व्याख्यायते ।। जीवेति ।। विद उत्पत्ताविति धातुमाश्रित्य यदि विद्यतेत्येतदुत्पाद्यश्चेदिति व्याख्यातम् । भ्रान्तिकल्पितत्वाद्भेदस्य कथमनादिनित्यतेत्याशङ्कानिवर्तकस्य मायामात्रमिदं द्वैतमित्यस्यार्थो विष्णोरिति । भेदस्यसत्यत्वे कथमद्वैतं स्थानान्तरे कथ्यत इत्यत उक्तं औतं परमार्थत इति । अस्यार्थोऽद्वैत इति । अनेन परमार्थत इति तसिःप्रथमार्थ इत्युक्तं भवति । औतवाक्यं परमार्थो भगवानद्वैत इत्याहेत्यर्थः । किं तत्परमत्वमित्यत आह ।। परमत्वमिति ।। एवं परमत्ववतोऽद्वैतत्वं नाम किमित्यत आह ।। इत्यादय इति ।। सोयं परमद्वैते अभावः तदिदं परमत्ववतोऽद्वैतत्वं तदेवाद्वैतश्रुत्यर्थ इत्यर्थः । सर्वा द्वैतमेवार्थः किं नस्यादित्यत आह ।। संतीति ।। बाधकाभावाच्च न भेदस्य कल्पितत्वमित्यर्थप्रतिपादकं विकल्प इति वाक्यम् । तस्यार्थो विकल्प इति । स आत्मा तत्वमसीत्यादि वाक्यस्य भेदपरत्व सिद्ध्यर्थं यथासोम्येत्यदिवाक्यस्य स्वोक्तमर्थमनङ्गीकृत्यार्थान्तरताकल्पनायां उदाहृतश्रुतिविरोधो बाधकः ।

किरणावली

वृक्षपरावित्यत्र परशब्देन जीवशब्दवाच्यः धानाःपरश्चेत्यत्राप्यणिमशब्दोक्तः ज्ञानदशब्देन प्राणादिनियामकः परमात्मोच्यते । नानयोर्न युवयोः ।। भेदमिथ्यात्वाभिधायकवदिति ।। भेदादिप्रपञ्चो यद्यपि विद्यत इव प्रतीयते तथापि निवर्तते बाध्यत इति परैः व्याख्यातत्वादिति भावः । जीवेश्वरभिदेत्यादावाद्य एवकारो भेदाभेदनिवृत्त्यर्थः । शुद्धभिदेत्यर्थः । अभेदसहितस्य पराङ्गीकृतस्याप्रामाणिकत्वेन सत्यत्वादिविचाराक्षमत्वात् । द्वितीयतृतीयौ मिथ एव जीवभेदः मिथ एव जडभेदः नत्वेकस्यैव स्वस्मादित्यर्थकौ । इति यो भेदपञ्चकः प्रपञ्चःप्रपञ्चपदोक्तः स नित्य इति योज्यम् । अत्रोत्पत्तिशून्यत्वं साध्यं नित्यत्वं हेतुः अप्रयोजकतापरिहाराय हेतूच्छित्तिरूपं बाधकं तर्कं प्रतिपादयितुं प्रवृत्तस्य प्रपञ्चो यदीत्यस्य विवरणमुत्पाद्यश्चेदिति । विपर्यये पर्यवसानप्रदर्शनं तस्मादिति । न च नश्यतीत्यादावुपस्कार्यम् । आदिरस्यास्तीत्यादिमान् स न भवतीत्यनादिमान् । मोक्षसाधनज्ञानविषयत्वात्प्रकृष्टः । विष्णोः प्रज्ञेति मायाशब्दस्य विष्णुप्रज्ञायामेव निपातितत्वादिति भावः । मितं ज्ञातं निर्मितं च ।। औतं स्थानान्तर इति ।। प्रपञ्चोपशमं शिवमद्वैतमित्यादावित्यर्थः । एतेनाद्वैतं परमार्थत इत्यस्य कोऽर्थो लब्ध इत्यतः औतमित्यावर्तते । एकं वाक्यपरमपरं लिङ्गव्यत्ययेनाद्वैत इत्यर्थकम् । इत्याहेति शेष इत्यभिप्रेत्याह ।। औतवाक्यमिति ।। मूले सर्वशक्तित्वमेवेत्येवकारस्य न तु परोक्तमबाधितत्वमित्यर्थः । परमत्ववतोऽद्वैतत्वं नाम किमित्यतः सोयमिति पदाध्याहारेणानूद्य प्रकृतसङ्गततया व्याचष्टे ।। सोयमिति ।। परमद्वैते अभाव इत्यस्य परमत्ववति द्वितीये प्रतियोगिनि सति अभाव इत्यर्थः । परमत्ववद्द्वितीयप्रतियोगिकोऽभाव इति यावत् । ततश्च किमित्यत आह ।। तदिदमिति ।। परमत्ववद्द्वितीयाभाव इतीदमेव परमत्ववतोद्वैतत्वमित्यर्थः ।। तदेवेति ।। परमत्ववद्द्वितीयाभाव एवेत्यर्थः । तस्यार्थो विकल्प इतीति ।

विकल्पो भेदो यदि केनाचिदज्ञानादिना कल्पितः स्यात्तर्हि निवर्तेत बाध्येत नच बाध्यते तस्मान्नकल्पितस्तस्मादेव । ज्ञाते कर्तरि क्तः । ज्ञानिपक्षे औतं न विद्यते । कथमस्य ज्ञानिपक्षत्वमयमेव सतां वाद उपदेशात् । श्रुत्युपदिष्टत्वादिति मूलार्थ इति भावः । मूले अर्थान्तरस्यैवावगतत्वादित्यस्य न च इत्यादि श्रुतिविरोध इति पूर्वेण सम्बन्धः ।

भावप्रकाशः

वृक्षपराविति मूले परशब्देन जीवशब्दवाच्यः परमात्मोच्यते । ज्ञानशब्देन प्राणादिनियामकः परमात्मा । भेदमिथ्यात्वाभिधायकवत्प्रतीयमानेति ।। पूर्ववाक्ये अनादिमायया सुप्तो यदा जीवः प्रबुध्यते, इत्येकस्यैव जीवस्य प्रपञ्चकल्पकाज्ञानाश्रयतया प्रतीयमानत्वादित्यर्थः । प्रागादिपदगृहीतेति । इत्यादिश्रुतिविरोध इत्यादिपदग्रहीतेत्यर्थः । ननु प्रपञ्चो घटादिरुत्पद्यमानो विनाशवांश्च प्रमाणासिद्धः । अतो नेदमनिष्टापादनं नापि विपर्यये पर्यवसानमित्यतो मूले प्रपञ्चो भेदपञ्चक इत्युक्तम् । नात्र प्रपञ्चो विश्वविस्तारः किन्तु जातीयरोऽर्थे पञ्चन् शब्दाड्डप्रत्ययः । ततश्च पञ्चविधः पञ्चः स च प्रकृष्टत्वात्प्रपञ्चः । प्रकृष्टत्वञ्च मोक्षाङ्गज्ञानत्वात् । तत्र विशेषाकाक्षायां प्रकरणप्राप्तमुक्तं भेद इति । तथाहि

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।।

अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ।

इति । पूर्वश्लोकेऽनादिमायया परमेश्वरेच्छया प्रकृत्यादिना जीवजातस्य ज्ञानावरणलक्षणं सुप्तत्वं तयैव तत्वज्ञानलक्षणप्रबोधश्च उक्तः । तेन जीवेश्वरयोर्जडेश्वरयोर्जीवजडयोश्च भेदाः संतीति लब्धम् । प्रभोरिच्छया निगडादिना बद्धे मुक्तेच भेदप्रत्ययदर्शनात् । प्राक् प्रभवः सर्वभावानामिति भावशब्दोक्तानां जीवानां मिथोऽपि भेद उपलब्धः । तत एवावरनां जडानामपि मिथो भेदोऽर्थाल्लभ्यते च तेषां पञ्चानामपि भेदानामनादिमायया अजमनिद्रेत्यादिविशेषसामर्थ्यात् अनादित्वमपि लब्धम् । तदिदं पञ्चानामनादित्वं सत्यत्वं चोपपादयितुं इदं श्लोकद्वयम् । तत्र तावदनादित्वं विपक्षे बाधकप्रसङ्गेनोपपादयितुं अयं श्लोक इति भावः ।। विदोत्पत्ताविति धातुमिति । धातूनामनेकार्थत्वादिति भावः । उत्पत्तेश्च प्रायो निवृत्तिव्याप्तियुगिति द्रष्टव्यम् ।। इत्यस्यार्थो विष्णोरितीति । अनेन मायाशब्देन भगवत्प्रज्ञोमुच्यते । माङ्माने त्रैङ्पालने इत्याभ्यां मूलविभुजादित्वात् कः । घञर्थे कविधानमिति वा ।। आदेश उपदेशेशितीत्यात्वम् । आतोलोप इटि चेत्याकारलोपः । ततो मायाशब्दस्य बहुव्रीहिरिति सूचयति ।। मूले मितमित्युपलक्षणं त्रातमित्यपि द्रष्टव्यम् । स्थानान्तरे कथ्यते इति ।। एकमेवाद्वितीयमित्यादावित्यर्थः ।। अभावः परमद्वैते इत्यस्यान्वितत्वात्सोऽयमिति पदाध्याहारेणानूद्य एवं परमात्मवतोऽद्वैतत्वनाम किमिति प्राप्ते प्रश्नानुसारेण व्याचष्टे । सोयं परमद्वैतेऽभाव इति । तदिदमिति । स्वतन्त्रत्वादिगुणानामन्यत्रासत्वमित्यर्थः ।। बाधकाभावाच्चेति । न केवलं मायामात्रत्वरूपसाधकसत्वादिति भावः ।। विकल्प इति वाक्यमिति ।

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ।

इति मन्त्रस्यार्थः – विकल्पो भेदो यदि केनचित् पुरुषेणाज्ञानादिना कल्पितः स्यात् । तर्हि निवर्तेत बाध्येत । न च निवर्तते तस्मात्सत्य इत्यर्थः ।। अयमेव सतां वादः श्रुत्यादिषु उपदिष्टत्वात् । पूर्वार्धस्य स्पष्टत्वात्तद्व्याख्यानरूपप्रमाणे तदनुवाद एव कृतः । औतं ज्ञानिनां पक्ष इत्यनेन ज्ञाते ज्ञानिनां पक्षे द्वैतं न विद्यत इति चतुर्थपादो व्याख्यातो भवति । उदाहृतश्रुतिविरोधत इति । श्वेतकेतुरहंकारादिति उदाहृताश्रुतिविरोध इत्यर्थः ।।

वाक्यविवेकः

तदित्यादिश्रुतिविरोध इतीति ।। तद्वाक्यद्वयं तत्वमसि अहं ब्रह्मास्मीत्यादि श्रुतिविरोध इत्यादिशब्देन प्राक्संगृहीतमिति कृत्वा तद्वाक्यद्वयं व्याख्यातं इत्यर्थः । प्रागादिपदगृहीतेति । प्राक् तत्वमसि अहं ब्रह्मास्मीत्यादि श्रुतिविरोध इत्यादिशब्देन गृहीतेत्यर्थः । विदोत्पत्ताविति धातुमाश्रित्येति । उत्पत्तिरूपं धात्वर्थमाश्रित्येत्यर्थः ।। मूले नशेदिति व्यत्ययेनश्यविकरणे नश्येदिति रूपमिति भावः । इत्याशङ्कानिवर्तकस्येति । पूर्वोत्तरविचारचतुराशङ्कानिवर्त्तकस्येत्यर्थः । अनेनेति । परमार्थत इत्यस्य परमार्थ इति व्याख्यानेनेत्यर्थः । औतत्वं नाम किमितीति । परमस्याप्यन्यप्रतियोगिकभेदवत्वात् भेदप्रतियोगिशून्यत्वं वा भेदशून्यत्वं वा नार्थ इति अर्थान्तरं वाच्यं तत्किमित्यर्थः। सोऽयं परमद्वैतेऽभाव इति । परमे स्वतन्त्रत्वादिगुणविशिष्टत्वेन सर्वोत्तमे अत एवाद्वेते सर्वप्रतियोगिकभेदवति यो अभावः भेदाभाव उक्तः स अयं अन्यत्र स्वातन्त्र्यादिगुणाभाव इत्यर्थः ।। यद्यपीश्वरे जीवादिप्रतियोगिको भेदोस्ति । तथापि स्वतन्त्रत्वाद्यवच्छिन्नस्यान्यस्याभावात् स्वातन्त्र्याद्यवच्छिन्नप्रतियोगिको भेदो नास्तीति भावः । तस्यार्थो विवृत इति । अनेन उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते इत्युत्तरार्धस्य अयंवादः भेदः सत्य अनादिरित्ययं वादः उपदेशात् सद्गुरूपदेशात् प्राप्तः द्वैतं न विद्यत इति वादस्तु अज्ञाते सद्गुरूपदेशजन्यज्ञानाभावे, श्रुत्यर्थापरिज्ञानप्रत्युक्तोऽयं वाद इति यावत् इत्यर्थ उक्त इति ज्ञेयम् ।