गीता
गीता
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ।। ३२ ।।
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ।। ३३ ।।
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ।। ३४ ।।
तात्पर्यम्
शरीरस्थो जीवः । ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’ इति श्रुतेः ।
‘शरीरस्थस्तु संसारी शरीराभिमतेर्मतः ।
विष्णुः शरीरगोऽप्येष न शरीरस्थ उच्यते ।
शरीराभिमतिर्यस्मान्नैवास्यास्ति कदाचन ।
तद्गतानां तु दुःखानां भोगोऽभिमतिरुच्यते ।
तदभावान्नाभिमानी भगवान् पुरुषोत्तमः’ इति च ।
अनादित्वान्निर्गुणत्वाच्च परमात्मा जीवोऽपि न । किमुत जडं न भवतीति ? शरीरोत्पत्तिलक्षणमप्यादिमत्त्वं परमस्य नास्तीति विशेषः । जीवस्य हि तदस्तीति । सत्त्वादिगुणसम्बन्धश्च । सर्वं करोति परमात्मा । तथाऽपि न लिप्यते । वादिसिद्धत्वादेव ‘इष्टापूर्तं मन्यमाना वरिष्ठम्’ इत्यादिवन्निषेधः ।
‘कुर्वाणोऽपि यतः सर्वं पुण्यपापैर्न लिप्यते ।
जन्ममृत्यादिरहितः अत्त्वादिगुणवर्जितः ।
विष्णुस्तद्विपरीतस्तु जीवोऽतस्तौ पृथक् सदा’ इति च ।
‘स एष नेति नेति’ इत्यादि च ।। ३२३४ ।।
प्रकाशिका
अत्र जीवेशयोरभेदः श्रुतितात्पर्यानभिज्ञप्राप्तो निराक्रियते ।। स्वप्नेन शारीरमभिप्रहत्य सुप्तः सुप्तानभिचाकशीति’’ इति ।। ‘‘स एष नेति नेति आत्मेत्यादिश्रुतिबलात् इति । न इति । नेत्यनेन जीवजडप्रकारवैलक्षण्यम् परमात्मनः उच्यते ।। ३२ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां
पद्मनाभतीर्थविरचितायां त्रयोदशोऽध्यायः ।।
न्यायदीपिका
सर्वचेतनाचेतनात्मकत्वात्परमात्मनः कथं भूतानां ततः पृथग्भाव इत्यत उच्यते ।। अनादित्वादिति ।। तत्र परमात्मनोऽकर्तृत्वप्रतीतिं निराकर्तुं शरीरस्थपदं व्याख्याति ।। शरीरस्थ इति ।। शरीरस्थशब्दस्य कुतो जीववाचित्वमित्यतस्तत्प्रयोगं दर्शयति ।। स्वप्नेनेति ।। ननु जीववदीश्वरस्यापि शरीरस्थितेर्जीवस्यैव तत्पदवाच्यत्वं कुत इत्यत आह ।। शरीरस्थ इति ।। विष्णोरपि मयेदं सृष्टं मदधीनमित्यभिमानोऽस्त्येवातः कथं तदनभिमान इत्यत आह ।। तद्गतानामिति ।। शरीरस्थपदं जीववाचकं चेत्कथं योजनेत्यत आह ।। अनादित्वादिति ।। इति वाच्यमिति शेषः । जीवस्याप्यनादित्वात्किं विशिष्येश्वरस्यैव तदुच्यते । येनास्य जीवाभेदनिवारणे हेतुत्वं स्यादित्यत आह ।। शरीरेति ।। एवंभूतादिमत्त्वाभावेऽपि कथं परमात्मनो जीवाद्विशेष इत्यत आह ।। जीवस्येति ।। इतिशब्दो हेतौ । ननु निर्गुणत्वं कथमीश्वरस्य जीवभेदे हेतुर्भवति । जगत्कर्तृत्वादिगुणानामीश्वरे भावेन हेतोरसिद्धेरित्यत आह ।। सत्वेति ।। नात्र गुणपदेन जगत्कर्तृत्वादयो विवक्षिताः । किंतु सत्त्वादय एव । तत्सम्बन्धश्चेश्वरे नास्ति । जीवेऽस्तीति भवति हेतुरिति भावः । करोति न लिप्यत इति जीवेश्वरभेदे हेत्वन्तरं तद्व्याचष्टे ।। सर्वमिति ।। जीवो न करोति लिप्यत एवेति द्रष्टव्यम् । लेपश्च तत्फलेन । नन्वत्र जीवाद्यभेदस्याप्राप्तत्वात्कथं निषेधो युक्त इत्यत आह ।। वादीति ।। यथा शून्यवादिसिद्धत्वाच्छून्यकारणत्वस्य तद्धैक आहुरित्यादिना निषेधः क्रियते तथा सर्वाद्वैतवादिप्राप्तत्वादद्वैतनिषेधो युज्यते । यथा च ज्ञानद्वारा मोक्षार्थं कर्मभिरीश्वर एवाराध्य इति कर्मश्रुत्यभिप्रायापरिज्ञानप्राप्तस्य केवलकर्मणैव स्वर्गादिपुरुषार्थलाभो भवतीत्यस्येष्टापूर्तमित्यादिना निषेधः क्रियते । तथा भगवता सर्वं व्याप्तमिति सर्वं खल्विदं ब्रह्मेत्यादिश्रुत्यभिप्रायापरिज्ञानप्राप्तस्याद्वैतस्य निषेधो युक्त इति भावः । प्रातीतिक एवार्थः किं न स्यादित्यत उक्तार्थे वाक्यान्तरसंमतिमाह ।। कुर्वाण इति ।। मृत्यादिरहित इत्यनेनाव्ययपदं व्याख्यातं भवति । ईश्वरस्य चेतनाचेतनभिन्नत्वे श्रुतिसंमतिं चाह ।। स एष इति ।। ३२३४ ।।
किरणावली
विष्णोरपीति ।। नन्वभिमानो नामास्वकीये स्वकीयत्वबुद्धिरिति शास्त्रे व्यवस्थापितं कथमियं शङ्का । ‘‘ब्रह्मवायुतत्पत्नी’’नामेवंविधाभिमानाभावेन शरीरस्थत्वानुपपत्तेः । तत्संग्रहाय प्रकारान्तरेणाभिमतिशब्दार्थकथनायेयमाशङ्केति चेन्न । परदत्तस्वाम्यबुद्धिलक्षणाभिमानस्य तेषु सद्भावेन शरीरस्थत्वोपपत्तेः । अभिमानशब्दार्थस्य सर्वत्रैकप्रकारस्याभावादनुगत्यर्थमयमारम्भ इति चेन्न । शरीरनिमित्तकदुःखभोगरूपाभिमतेर्ब्रह्मादिष्वभावेनाननुगतितादवस्थ्यात् । तदुक्तम् । ब्रह्मणोऽप्यल्पदुःखं स्यात्तदप्यनभिमानतः । नास्त्यात्मसम्बन्धितया भोगाभावात्कथंचनेति । अत्रोच्यते । अनुगत्यर्थमेवेदं लक्षणान्तरं भोगाभावात्कथं च नेत्यत्र भोगपदेन तत्कृतनीचोच्चतायाः स्वीकारान्नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयत इति वचनात्तद्गतानां तु दुःखानां भोग इति प्रकृतवाक्ये च भोगपदेन शरीरनिमित्तकानां तन्मनोविकाराणां दुःखानामनुभवमात्रमुच्यते । एतच्च शरीरस्थमात्रसाधारणमिति भवत्येवेदमनुगतं लक्षणमत एव दुःखा संपीडितत्वात्तु मध्यमो वायुरुच्यत इत्यत्र स्वमनः परिणतदुःखानुभवमात्रेणेषत्पीडामङ्गीकृत्य तत्कृतनीचताभावादसंपीडितत्वमुक्तमिति बोध्यम् ।। इति वाच्यमिति शेष इति ।। न भवतीत्यत्रेतिशब्दात् परं वाच्यमिति शेष इत्यर्थः ।। इतिशब्द इति ।। नास्तीत्यस्तीतिद्विःपठित इतिशब्द इत्यर्थः । करणे क्रियासम्बन्धोऽवर्ज्यः । अकरणे तदसम्बन्धश्च । तत्कथमलेपः करणे लेपश्चाकरणे इत्यत आह ।। लेपश्चेति ।। जीवस्य स्वातन्त्र्येणाकरणेऽपि क्रियाभिमानवशाल्लेपो बोध्यः । वादिप्रसिद्धत्वादेवेष्टापूर्तं मन्यमाना वरिष्ठमित्यादिवत् । क निषेध इत्ययुक्तम् । स्वर्गकामो यजेतेत्यादिश्रुत्यर्थापरिज्ञानप्राप्तस्य कर्मणैव स्वर्गादिपुरुषार्थो भवतीत्यस्येष्टापूर्तमित्यादिना निषेधाङ्गीकारात् । तदुक्तं विष्णुतत्वनिर्णये । ‘‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढा’’ इत्यादि वच्छति तात्पर्यापरिज्ञानप्राप्तं चेति । तत्कथमेतदित्यतः वादिसिद्धत्वादेवेत्यादिवत् तद्धैक आहुरसदेवेत्यादिवन्निषेध इति सम्बन्धवाक्यं भित्वा व्याचष्टे ।। यथा शून्यवादीति ।। तदुक्तं विष्णुतत्वनिर्णये । तद्धैक आहुरसदेवेदमग्र आसीदित्यादिवद्वादिप्रसिद्धमपि निराक्रियत इति पूर्वोदाहृतविष्णुतत्वनिर्णयवाक्यं मनसि निधाय श्रुतितात्पर्यापरिज्ञानप्राप्तत्वाच्चेष्टापूर्तं मन्यामाना वरिष्ठमित्यादिवन्निषेध इति साध्याहारं वाक्यं भित्वा व्याचष्टे ।। यथा चेत्यादिना ।। इष्टापूर्तमित्यादिना निषेध इति ।। इमं लोकं हीनतरं वा विशन्तीति निन्दार्थवादस्य निषेधतात्पर्यकत्वादिति भावः ।। चेतनाचेतनभिन्नत्व इति ।। अनेन स एष परमात्मा इति न चेतनवन्न । इति नाचेतनवन्नेति श्रुत्यर्थ इत्युक्तं भवति । तदुक्तं श्रीपद्मनाभतीर्थीये । इति न इति । नेत्यनेन जीवजडप्रकारवैलक्षण्यं परमात्मन उच्यत इति ।। ३२३४ ।।
भावप्रकाशः
शारीरं जीवं स्वप्नेन सुषुप्त्या अभिप्रहत्य संयोज्य असुप्तः परमात्मा सुप्तान् जीवान् अभिचाकशीति पश्यतीति श्रुत्यर्थः ।। ननु परमात्मा सर्वं करोति चेत् करणसम्बन्धरूपलेपोऽपि अवर्जनीय इत्यत आह ।। लेपश्च तत्फलेनेति । पुण्यपापैर्न लिप्यत इति वक्ष्यमाणत्वादिति भावः ।। तद्वैक आहुरसदेवेदमग्र आसीदितिवद्वादिप्रसिद्धमपि निराक्रियत इति तत्वनिर्णयवाक्यानुसारेण वादिप्रसिद्धत्वादेव निषेध इति सम्बन्ध्यभिन्नभिन्नवाक्यतया व्याचष्टे । यथा शून्यवादिसिद्धत्वादिति । इष्टापूर्तं मन्यमाना वरिष्टं नान्यच्छ्रेयो वेदयन्ते प्रमूढा इत्यादि वच्छतितात्पर्यापरिज्ञानप्राप्तं चेति वाक्यानुसारेणेष्टापूर्तमित्येतत् वाक्यान्तरमिति भावेन व्याचष्टे । यथा च ज्ञानद्वारेति । इष्टापूर्तमित्यादिनाऽनूद्य नाकपृष्टे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्तीति निषिध्यते निन्दायाः प्रतिषेधे तात्पर्यादिति भावः । चेतनाचेतनभिन्नत्व इति । अनेन स एष परमात्मा इति न चेतनवन्न इति न अचेतनवन्न इति श्रुत्यर्थः सूचितो भवति ।। ३२३४ ।।
भावदीपः
अकर्तृत्वप्रतीतिं चेति ।। न केवलं सर्वात्मकत्वमिति शङ्कामिति चार्थः । जडं न भवतीत्यत्रेति पदानुवादेन शेषमाह ।। इति वाच्यमिति शेष इति ।। अनुरूपं दृष्टान्तं स्वयमाह ।। यथा शून्येति ।। ३२३४ ।।