गीता

गीता

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ।। ५० ।।

कर्मजं बुद्धियुक्ता हि फलं त्यत्त्का मनीषिणः ।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ।। ५१ ।।

तात्पर्यम्

यथावद्विष्णुं ज्ञात्वा तदर्थत्वेन कर्मकरणमित्येतत्कर्मकौशलमेव योगः । भगवज्ज्ञानमेव बुद्धिः ।। ५०,५१ ।।

न्यायदीपिका

नन्वस्तु ज्ञानस्याधिक्यं ततश्च किमित्यतस्तस्मादिति ।। ज्ञानसाधनमापाद्यमित्युक्तम् । अत्रास्तु ज्ञानसाधनापादनं किं फलस्नेहरहितकर्मणेत्याशङ्कायां फलस्नेहरहितकर्मैव ज्ञानसाधनमिति वक्तव्यम् । किमर्थमत्र कर्मकौशलस्य ज्ञानसाधनत्वमुच्यत इत्यतः फलस्नेहराहित्यादियुक्तकर्मैव कर्मकौशलपदेनोच्यत इति भावेनाह ।। यथावदिति ।। योगस्थ इत्यत्र भगवज्ज्ञानस्या परिगृहीतत्वादत्रापि न तदभिप्रेतमित्यत आह ।। भगवदिति ।। एतच्छ्लोकार्थ विवरणात्मकोत्तरश्लोके बुद्धि युक्त इति भगवज्ज्ञानस्यापरोक्षज्ञानसाधनत्वेन गृहीतत्वादत्र पूर्वत्रापि तदभिमतमिति भावः ।। ५०,५१ ।।

किरणावली

ततश्च किमित्यतस्तस्मादितीति ।। तस्माद्योगाय युज्यस्वेत्यनेन तस्माज्ज्ञानस्योत्तमत्वाज्ज्ञानसाधनमापाद्यमित्युक्तमित्यर्थः ।। किं फलस्नेहरहितकर्मणेति ।। सङ्गं त्यक्त्वा कर्माणि कुर्वित्युक्तेनेत्यर्थः ।। ज्ञानसाधनत्वमिति ।। कर्मसु कौशलं योगो ज्ञानोपाय इत्यर्थाङ्गीकारादिति भावः

।। ५०,५१ ।।

भावदीपः

भाष्यमवतारयितुं बुद्धियुक्त इति श्लोके तस्मादित्युत्तरार्धमवतारयति ।। नन्विति ।। योगाय युज्यस्वेत्यस्यार्थो ज्ञानमापाद्यमिति ।। राहित्यादीत्यादिपदेन भगवज्ज्ञानादिग्रहः । इत्यत्रेति ।। श्लोके त्यागसमत्वयोरेव योगशब्दार्थत्वेनोक्त्या भगवज्ज्ञानस्य योगशब्दार्थत्वेनापरिग्रहादित्यर्थः ।। अत्रापि ।। बुद्धियुक्त इति श्लोकेऽपीत्यर्थः ।। अपरोक्षेति ।। मनीषिपदोक्तापरोक्षेत्यर्थः ।। पूर्वत्रेति ।।

भावप्रकाशः

तस्मादितीति ।। तस्माद्योगाय युज्यस्वेत्यनेनेत्यर्थः ।। किं फलस्नेहरहितकर्मणेति । योगस्थः कुरुकर्माणि सङ्गं त्यक्त्वेत्यनेनोक्तेनेत्यर्थः ।। अपरोक्षज्ञानसाधनत्वेनेति । अनेन फलं त्यक्त्वा अकामनया ईश्वरार्पणबुध्या युक्ताः सम्यक् भगवज्ज्ञानिनो मनीषिणो अपरोक्षज्ञानिनो भूत्वेति योजनां सूचयति ।। ५०५१ ।।

वाक्यविवेकः

पूर्वत्रापीति । योगस्थः कुरु कर्माणीत्यत्रापीत्यर्थः ।। ५०५१ ।।

Load More