गीता
विष्णुस्मरणपूर्वकं भक्तया कृतं सत, अन्यदसत्
गीता
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ।। २३ ।।
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ।। २४ ।।
तदित्यनभिसंधाय फलं यज्ञतपः क्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ।। २५ ।।
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ।। २६ ।।
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ।। २७ ।।
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ।। २८ ।।
तात्पर्यम्
ओंतत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् ।
सवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते ।
‘‘अनोङ्कृतमासुरं कर्म’’ इति श्रुतेरनोङ्कृतस्यासुरत्वप्रसिद्धेः ।
अनर्थज्ञोदितो मन्त्रो निरर्थस्त्रातिमानतः ।
यन्मन्त्रस्तेन कथितो मन्त्रार्थो ज्ञेय एव तत् ।।
इति पैङ्गिश्रुतेश्च । तदर्थत्वेन फलानभिसन्धिपूर्वककर्मण एव सात्विकत्वाच्च । तद्भक्तया तत्स्मरणपूर्वकमेव कर्म सदन्यदसदेवेति भावः । राजसस्याप्यसदन्तर्भाव एव । विष्णुश्रद्धारहितत्वात् ।
‘सात्त्विकं मोक्षदं कर्म राजसं सृतिदुःखदम् ।
तामसं पातदं ज्ञेयं तत् कुर्यात् कर्म वैष्णवम्’ इत्याग्नेये ।। २३२८ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये सप्तदशोऽध्यायः
प्रकाशिका
ॐ तत्सदित्यादेरर्थं विवेचन् अध्ययार्थमुपसंहरति ।। तत्सम्बन्धित्वादिना
।। २३२८ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां
पद्मनाभतीर्थविरचितायां सप्तदशोऽध्यायः ।।
न्यायदीपिका
ओं तत्सदिति निर्देश इत्येतद्वाक्यान्तरेण व्याख्यातम् । तद्वाक्यविवरणेनैतद्वाक्यं विवृणोति ।। सदिति ।। ततश्च किमित्यत आह ।। ओमिति ।। कर्मादीनां सत्सम्बन्धित्वादेव हि सत्त्वम् । सच्च परंब्रह्मैव । ओन्तत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् । अतो विष्णुसम्बन्ध्येव कर्मादि सदिति भावः । अनेनोंतत्सदिति यद्विष्णोरिति विवृतं भवति । अनोंकृतं ह्यासुरं स्यादित्यनोंकृतस्यासुरत्वप्रसिद्धिस्तदुच्चारणे हेतुतयोक्ता । काऽसावित्यतो वैदिकीत्याह ।। स्रवतीति ।। ओंकृतं त्वपीत्युक्तार्थे श्रुतिं चाह ।। अनर्थज्ञेति ।। निरर्थो निष्प्रयोजनः । कुतः यस्मादर्थज्ञानत एव ज्ञातारं त्राति तेन हि मन्त्रः कथितः । नन्वस्मिन्नध्याये सदसत्कर्मविवेकः कार्यः । तं विहायों तत्सदित्यादिना किमुच्यत इत्यतोऽभिप्रायमाह ।। तदर्थत्वेनेति ।। अत्र ह्योङ्कारार्थस्मरणपूर्वकं तमुच्चार्य भक्तया भगवदर्थत्वेन निष्कामतया कृतमेव कर्म सात्विकमन्यद्राजसादीत्युच्यते । ततश्चैतादृशमेव सत्कर्म अन्यदसत्कर्मेति सदसत्कर्मविविच्योक्तमेवेति भावः । न च वाच्यमत्रैवंविधकर्मणः सत्वमन्यस्यासत्वं स्वयमेवोच्यत इति । अन्यथा प्रसङ्गाननुगुणत्वप्रसङ्गेन सदादिशब्दस्य सात्विकाद्यर्थत्वात् । एतेनाफलाकाङ्क्षिभिरित्यादेरप्येवमेवाध्यायसङ्गतिः सूचिता भवति । ननु कर्म चैव तदर्थीयमिति सात्विकं कर्मोक्त्वा राजसमनभिधायाश्रद्धया हुतमिति तामसमेव किमुच्यत इत्यत आह ।। राजसस्येति ।। नात्र तामसमेवासच्छब्देनोच्यते अपि तु राजसमपीति भावः । तत्कुत इत्यतोऽश्रद्धयेत्युक्तासल्लक्षणस्य राजसेऽपि भावादित्याह ।। विष्ण्विति ।। न च तत्प्रेत्य नो इहेति यद्राजसतामसकर्मणोः फलमुक्तं तद्विविच्य स्मृत्या दर्शयति ।। सात्विकमिति ।। २८ ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां सप्तदशोऽध्यायः ।। १७ ।।
किरणावली
न केवलं तपस्येवेति ।। केवलं तपस्येव नैतदुच्यते किंतु यज्ञदानतपःसु । अपि रभिव्याप्तौ । यज्ञदानतपोलक्षणसाधनत्रयेऽप्येतदनुषंजनीयमित्यर्थः ।। वाक्यान्तरेणेति ।। समाख्यारूपेणोंतत्सदिति यद्विष्णोर्नामत्रयमुदाहृतमिति वाक्यान्तरेणेत्यर्थः ।। तद्वाक्यविवरणेनेति ।। प्रागुक्तस्मृतिवाक्यविवरणेनैवैतद्गीतावाक्यं विवृणोतीत्यर्थः ।। ततश्च किमित्यत आहेति ।। तत्सम्बन्धित्वेन कर्मादेस्सत्वेऽपि विष्णुविषयस्य कर्मादेः सत्त्वे किमायातमित्यर्थः ।। अनेनों तत्सदिति यद्विष्णोरिति विवृतमिति ।। ॐतत्सदित्यारभ्य प्रवर्तन्ते हि वैदिका इत्यन्तमित्यर्थः ।। अनोंकृतस्यासुरत्वप्रसिद्धिस्तदुच्चारणे हेतुतयोक्तेति ।। हिशब्दसूचिता प्रसिद्धिरित्यर्थः । त्राति मानत इत्यादेर्यद्यस्मान्मानत एव ज्ञातारं त्राति तेन कारणेन मन्त्रः कथितः । तत्तस्मान्मन्त्रार्थो ज्ञेय इत्यर्थमभिप्रेत्याह ।। यस्मादर्थज्ञानत एव ज्ञातारं त्राति तेन हि मन्त्रः कथित इति ।। तदर्थत्वेनेत्यारभ्य भाव इत्यन्तमूले आदावत्रेति तत्स्मरणपूर्वकमित्यतः परंतु उच्चार्येति द्वितीयैवकारात्पूर्वमेतादृशमिति शेषः । ततश्चात्रों तत्सदिति गीतायां तत्स्मरणपूर्वकं तमुच्चार्य भक्तया तदर्थत्वेन फलानभिसन्धिपूर्वककर्मण एव सात्विकत्वात्सात्विकत्ववचनाच्च शब्दाद्राजसादित्ववचनाच्चैतादृशमेव सात्विककर्म सत् । अन्यद्राजसाद्यसदेवेति भाव इत्यध्याहारपूर्वकमन्वयमभिप्रेत्य व्याकुर्वन्नों तत्सदित्यादिना सदसत्कर्मणी विविच्यानुक्त्वा किमुच्यत इति शङ्कायाः कः परिहारोऽनेन लब्ध इत्यतोऽभिप्रायमाह ।। अत्र ह्योङ्कारार्थेत्यादिना ।।
ननु सदित्येवाभिधीयते असदित्युच्यते पार्थेत्यनेन कण्ठत एव कर्मणः सत्वासत्वयोरुक्तत्वात्कथमस्याभिप्रेतार्थत्वमुच्यत इत्याशङ्क्य निषेधति ।। नचेति ।। स्वयमेवेति ।। कण्ठत एवेत्यर्थः । कुतो न वाच्यमित्यत आह ।। अन्यथेति ।। कर्म चैव तदर्थीयं सदित्येवाभिधीयते । तपस्तप्तं कृतं च यदसदित्युच्यते पार्थेत्यत्र सच्छब्दस्य सात्विकार्थकत्वादसच्छब्दस्य राजसतामसार्थकत्वात्सदसच्छब्दयोः साध्वसाध्वर्थकत्वाभावात् । मुखतः साधुत्वादेरप्राप्तेस्तद्व्यापकसात्विकत्वादिवचनस्याध्यायसङ्गतिसिद्ध्यर्थं तद्व्याप्यसाधुत्वादितात्पर्यकत्वं वर्णनीयमिति भावः । साध्वसाध्वर्थकत्वमेव किं न स्यादित्यत उक्तम् ।। अन्यथा प्रसङ्गाननुगुणत्वप्रसङ्गेनेति ।। सात्विकत्वाद्यर्थकत्वमनङ्गीकृत्य साध्वाद्यर्थकत्वाङ्गीकारे ओंतत्सदित्यादिपुरावृत्तकथनस्य पूर्वोक्तानानुगुण्यप्रसङ्गात् । तस्य सात्विकयज्ञादीनां पूर्वोक्तेत्थंभावानुवादेनेत्थंभावान्तरविधानाय प्रवृत्तत्वात् । अफलाकाङ्क्षिभिरित्युक्तस्यैव सात्विकस्य तदित्यनभिसन्धायेत्यनेनानुवादात् । श्रद्धाविरहितं यज्ञं तामसमित्युक्तस्यैवाश्रद्धया हुतं दत्तमित्यनुवादादिति भावः । नन्वफलाकाङ्क्षिभिरित्यत्र कर्मणः सात्विकत्वं अभिसन्धायेत्यत्र राजसत्वं विधिहीनमित्यत्र तामसत्वमुच्यते । तन्नाध्यायसङ्गतं तत्र साध्वसाधुशब्दितसदसत्कर्मादिविवेचनादित्यत आह ।। एतेनेति ।। सदित्येवाभिधीयते । असदित्युच्यते पार्थेत्यत्रोक्तरीत्या मुखतः सात्विकत्वाद्युक्तावपि यत्सात्विकं तत्सत् यत्तामसं तदसदिति साध्वसाधुत्वप्रतिपादनतात्पर्यकत्वं वर्णयित्वाऽध्यायसङ्गति व्युत्पादनेनाफलाकाङ्क्षिभिरित्यादेरप्येवमेवाध्यायसङ्गतिः सूचिता भवतीत्यर्थः ।। तामसमेवेदमिति ।। श्रद्धाविरहितं यज्ञं तामसं परिचक्षत इति । श्रद्धारहितस्य प्राक्तामसत्वोक्तेरसदित्यस्य तामसमेवेत्यर्थ इति न ज्ञेयमित्यर्थः । विष्णुश्रद्धारहितत्वादिति मूलस्य विष्ण्वाधिक्ये ससंशयाः स्वरूपमात्रे देवानां श्रद्धायुक्ता इत्युक्तरीत्या देवतास्वरूपमात्रे श्रद्धासद्भावेऽपि विष्ण्वाधिक्यविषये आस्तिक्यनिष्ठारहितत्वादित्यर्थः ।। न च तत्प्रेत्य नो इहेतीति ।। तदसात्विकं तामसं कर्म प्रेत्य मुक्तयनन्तरं न सुखदं प्रत्युतांधन्तमःपातदं तद्राजसं कर्म तेषां मुक्तयभावादिहापि न शुद्धसुखदं प्रत्युत दुःखदमिति यत्फलमुक्तमित्यर्थः । यद्वा तद्राजसं कर्मेह नच नास्ति दुःखप्रदमित्यर्थः । तत्तामसं कर्म प्रेत्यच मुक्तयनन्तरमपि नास्ति तमःपातसंपादनेन दुःखसाधकमित्यर्थः । सद्भाववाचकानां सुखवाचकत्वे भाववाचकानां दुःखवाचकत्वात् । असन्नेव स भवति असद्ब्रह्मेति वेदचेत् । अस्तिब्रह्मेति चेद्वेद सन्तमेनं ततोविदुरित्यत्र सदसच्छब्दयोः सुखदुःखवाचकत्वेन द्वितीयाध्याये व्याख्यातत्वादिति भावः ।। तद्विविच्येति ।। सात्विककर्मफलात्परस्परं च विविच्येत्यर्थः ।। २३२८ ।।
इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां
न्यायदीपकिरणावल्यां सप्तदशोऽध्यायः ।। १७ ।।
भावदीपः
तच्च पदमिति ।। सदिति पदं चेत्यर्थः ।। विवृतं भवतीति ।। ओमादिनामकभगवत्सम्बन्धाद्यज्ञादिकमपि तन्नामकमिति विवृतमित्यर्थः ।। तदुच्चारण इति ।। ॐकारोच्चारण इत्यर्थः ।। तेन हि मन्त्र इति ।। मं ज्ञातारं त्रातीति मन्त्र इत्यर्थः । माङ् मान इत्यतः कर्तरि अण् प्रत्ययेऽप्रत्यये वा म इति रूपम् । त्रैङ् पालन इत्यत आतोऽनुपसर्गे क इति कप्रत्यये डप्रत्यये वा मन्त्र इति रूपसिद्धेः ।। एवमेवाध्यायसङ्गतिः सूचितेति ।। अफलाकाङ्क्षित्वादिना क्रियमाणं कर्म सत्, अन्यदसदिति तात्पर्यादध्यायान्तर्भावसङ्गतिरित्यर्थः ।। २३२८ ।।
इति राघवेन्द्रयतिकृते श्रीमद्गीतातात्पर्यटीकाभावदीपे सप्तदशोऽध्यायः ।। १७ ।।
भावप्रकाशः
ततश्च किमिति । तत्सम्बुद्धित्वेन कर्मादेः सत्वेऽपि विष्णुविषयस्य कर्मादेः सत्वे किमायातमित्यर्थः ।। तदुच्चारण इति ।। ओङ्कारोच्चारण इत्यर्थः ।। नन्वनर्थज्ञोदितस्यापि मन्त्रस्थार्थप्रतिपादकत्वात् कथं निरर्थत्वमित्यत आह निष्प्रयोजन इति । ननु सदित्येवाभिधीयन्ते । असदित्युच्यते पार्थेत्यनेन कण्ठत एव कर्मणः सत्वासत्वयोरुक्तत्वात्कथमस्याभिप्रेतार्थत्वमुच्यत इत्याशङ्क्य निषेधति । न च वाच्यमिति । स्वयमेवेति । कण्ठत एवेत्यर्थः ।। प्रसङ्गाननुगुणत्वप्रसङ्गेनेति । सात्विकी राजसी चैवेत्यादिना पूर्वं सात्विकत्वादेरेव प्रसक्तत्वादिति भावः । अनेनैवशङ्कान्तरं च परास्तमित्याह । एतेनेति । सात्विकं कर्मसदन्यदसदिति कथनेनेत्यर्थः । एवमेवेति ।। सदसत्कर्मविवेकस्यैवास्मिन्नध्याये वक्तव्यत्वात्सात्विकत्वादि कथनमसङ्गतमित्याशङ्क्य सात्विकत्वादिकथनेन सत्वादिकमेव सिद्धमित्येवमित्यर्थः ।। २३२८ ।।
इति श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते
तात्पर्यनिर्णयन्यायदीपिकाभावप्रकाशे सप्तदशोऽध्यायः ।।
वाक्यविवेक
आयुःसत्वेत्याद्युदाहर्त्तव्यमिति । अस्मिन् श्लोके आयुरादिविवर्धनाश्चेत् सात्विका इति सात्विकत्वस्य पाक्षिकत्वेऽस्य लाभादिति भावः ।। ततः किमित्यत आहेति । सत्संवधित्वेन कर्मादेः सत्वे कर्मादेर्भगवत्सम्बन्धित्वे किमायातमित्यत आहेत्यर्थः ।। तदुच्चारणे हेतुतयोक्तेति । यज्ञदानाद्यनुष्ठानसमये ओंकारोच्चारणं कर्तव्यमित्यत्र हेतुतयोक्तेत्यर्थः । स्वयमेवोच्यत इति ।। सदित्येवाभिधीयते । असदित्युच्यते पार्थेति कण्ठत एवोच्यत इत्यर्थः ।। एतेनाफलाकाङ्क्षिभिरित्यादेरिति । अफलाकाङ्क्षिर्यज्ञो विधिदृष्टो य उच्यते । यष्टव्यमेवेति मनः समाधाय स सात्विक इत्यादेः सदसत्कर्मनिरूपणे तात्पर्यसद्भावात् अध्यायान्तर्भाव इति सूचितं भवतीत्यर्थः ।। २३ ।।
इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीसत्यनाथयतिविरचिते
न्यायदीपिकाव्याख्याने वाक्यविवेके सप्तदशोध्यायः ।।