गीता

गीता

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

बहवो ज्ञानतपसा पूता मद्भावमागताः ।। १० ।।

तात्पर्यम्

मयं प्रधानमुद्दिष्टं प्राधान्यं यैर्हरेर्मतम् ।

भगवन्मयास्ते विज्ञेयास्ते मुच्यन्ते न चापर’ इति च ।

मयि भावो मद्भावः ।। १० ।।

प्रकाशिका

‘‘वीतरागे’’त्यत्र ‘‘मन्मया’’ ‘‘मद्भाव’’मित्येतत्पदद्वयं व्याचष्टे ।। मयमित्यादिना ।। १० ।।

न्यायदीपिका

एतज्ज्ञानस्य मोक्षसाधनत्वं कुत इत्यत उच्यते ।। वीतेति ।। तत्र मन्मया मद्भावमागता इत्येतदन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे ।। मयमिति ।। यद्यपि भगवान्प्रधानो येषां ते भगवन्मया इति साक्षादर्थः । तथापि सर्वेषां भगवान् प्रधानो भवति । ज्ञानिनां को विशेष इत्यतः प्राधान्यं यैर्हरेर्मतमित्युक्तम् । मद्भावमागता इत्यस्यार्थस्ते मुच्यन्त इति । मद्भावपदं कथं मोक्षवाचकमित्यत आह ।। मयीति ।। मयि भावः सायुज्यादिः ।। १० ।।

भावप्रकाशः

अन्यथाप्रतीतीति । मदभिन्ना मदभेदं प्राप्ता इत्यन्यथाप्रतीतिनिरासायेत्यर्थः । मम वर्त्मेति श्लोकं योजयति ।। १० ।।

वाक्यविवेकः

एतज्ज्ञानस्येति । एतज्ज्ञानेन मोक्षस्यादर्शनात् एतज्ज्ञानस्य मोक्षहेतुत्त्वं कुतः न कुतोऽपीत्यत उच्यत इत्यर्थः । ननु प्रमाणवाक्ये भगवन्मयशब्दार्थकथनाय भगवत्प्रधानकत्त्वं वाच्यं प्राधान्यज्ञानं किमर्थमुक्तं इत्याशङ्क्य समाधत्ते । यद्यपीत्यादिना । गीतायां मन्मया इत्यस्य अहं प्रधानं इति ज्ञानं येषां ते मन्मया इति विग्रहो बोध्यः ।। १० ।।