गीता
प्राकृतदीर्घसूत्रीस्वरूपम्
गीता
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ।। २८ ।।
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं ृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ।। २९ ।।
तात्पर्यम्
‘भगवद्भक्तिसामर्थ्यात् प्रकृष्टो न कृतो हि यः ।
स प्राकृतो दीर्घसूत्री कुर्यां पश्चादिति स्मरन्’ इति शब्दतत्त्वे ।
प्राप्तकालस्य कर्मणो दीर्घकालेनैव कृतिं सूचयन् दीर्घसूत्रीत्यर्थः ।
‘अलसो दीर्घसूत्री च सत्त्वयुक् तामसो मतः ।
अयुक्तो राजसः स्तब्धः प्राकृतो नैकृतिः शठः ।
एकैकेनैव दोषेण प्रोक्तस्तामसतामसः ।
दुर्नरत्वं च तिर्यक्त्वं तमश्चैतत्फलं क्रमात्’ इति च ।। २८२९ ।।
प्रकाशिका
‘‘अयुक्तः प्राकृतः स्तब्धश्शठो नैष्कृतिकोऽलसः ।।
विषादी दीर्घसूत्री च कर्ता तामस उच्यत’’
इत्यत्र प्राकृत–दीर्घसूत्रीशब्दौ व्याचष्टे ।। भगवद्भक्तीत्यादिना ।। अत्रालसदौर्घसूत्रिणौ तामससात्विकौ ।। ‘‘अयुस्ता मसराजसः अन्ये तामसतामसाः ।। तत्र तामससात्विकस्य दुर्नरत्वं फलम् ।। तामसराजसस्य तिर्यक्त्वं फलम् । तामसतामस्यान्धतमः फलमित्याह ।। अलस इत्यादिना ।। २८२९ ।।
न्यायदीपिका
ननु सात्विकस्यापि प्राकृतत्वदीर्घसूत्रित्वयोः सद्भावात्कथं तत्तामसस्यैवोच्यत इत्यतः तत्पदद्वयस्यार्थं स्मृत्यैव दर्शयति ।। भगवदिति ।। स्मरन्निति ।। चिन्तयन्नित्यर्थः । पश्चात्कुर्यामिति चिन्तनं सात्विकेपि सममित्यत आह ।। प्राप्तेति ।। यस्य कर्मणो यः कालो विहितः तस्मिन्काले प्राप्तेऽपि पश्चात्कुर्यामिति चिन्तयन् दीर्घसूत्रीत्यर्थः । अनेनालसादप्यस्य वैलक्षण्यं सूचितम् । सः प्राप्तकालं कर्म उदास्त एवेति । नन्वेवं चेद्दीर्घसूत्रितः स्तब्धादीनां उत्कृष्टत्वात्कथं तामसतया गणनमित्यतः प्रमाणवाक्येनैव तामसेष्वेव तान्विभज्याह ।। अलस इति ।। अयुक्तो भगवदर्पणादियोगरहितः । स्तब्धो नामात्मसम्भावनया क्वाप्यनतः । नैकृतिको नीचकर्मा । शठो गूढद्वेषी । त्रिविधतामसानां फलमाह ।। दुर्नरत्वमिति ।। २८,२९ ।।
किरणावली
प्राकृतत्वदीर्घसूत्रित्वयोरिति ।। संसारित्वादेव प्रकृतिबद्धत्वस्य कदाचिद्दीर्घयज्ञोपवीतित्वस्य चेत्यर्थः । सा गङ्गेत्याद्यतीतकालोल्लेखि ज्ञानस्यैव स्मरणत्वात्पश्चात्कुर्यामित्यस्य कथं स्मरणत्वमित्यत आह ।। स्मरन्नितीति ।। अनेनालसादपीति ।। न केवलं सात्विकादित्यर्थः ।। उदास्त एवेति ।। नतु पश्चात्कुर्यामिति चिन्तयतीत्यर्थः । अयुक्तो राजस इति मूलस्य तामसराजस इत्यर्थः । तमश्चैतत्फलं क्रमादिति । यद्यपि त्रयाणामपि तम एव फलं तथाप्यवस्थाविशेषमादाय फलत्वोक्तिस्तृतीयावस्थायामेव तमोन्यदा दुर्नरत्वादिरिति भावः । नन्वेकैकेनापि दोषेणेत्ययुक्तम् । विनयराहित्यं स्तब्धत्वम् । निकृतिः पापी तत्सम्बन्धी नैकृतिकः शठो मूर्खः कथमेषां तमःप्राप्तिरित्यत आह ।। स्तब्धो नामेति ।। अहमेवेश्वर इत्यात्मसम्भावनया पौण्ड्रकवासुदेवादिवत्क्वाप्यनत इत्यर्थः ।। नैकृतिको नीचकर्मेति ।। निकृष्टा कृतिः कर्म निकृतिः तद्वान्नैकृतिकः । द्रौपदीकामनतद्वस्त्रापहरणाद्यान्तरबाह्यादिनीचकर्मेत्यर्थः ।। गूढद्वेषीति ।। योग्यतारूपेण गूढद्वेषवानित्यर्थः ।। २९ ।।
भावप्रकाशः
उदास्त एवेति । न तु पश्चात्कुर्यामिति चिन्तयतीत्येवशब्दार्थः । त्रिविधतामसानां फलमिति । अत्र दुर्नरत्वं तिर्यक्त्वं चोभयोरवान्तरफलं तृतीयस्य प्रागुक्तं भूतादित्वमवान्तरफलं तमस्तु त्रयाणामपि मुख्यं फलमिति विवेको द्रष्टव्यः ।। २८२९ ।।