गीता
गीता
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ।। २१ ।।
तात्पर्यम्
‘स्वदेहेन्द्रियहेतुत्वं यज्जीवस्य स्वकर्मभिः ।
आवृत्य विष्णुतत्त्वं तद्धेतुश्चित्प्रकृतिर्मता ।
जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा ।
परमः पुरुषो विष्णुः सर्वकर्ताऽपि सन् सदा ।
विशेषकर्ता केषाञ्चिदुक्तो यद्वद् विकुण्ठपः ।
उच्यते सर्वपालोऽपि विशेषेण स कर्मणा’ इति च ।
परमेश्वरस्यैव सर्वकर्तृत्वेऽपि भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरिति दर्शयितुं ‘उच्यते’ इति स्थानद्वयेऽप्युक्तम् । कर्तृत्वेऽपि स एव मुख्यहेतुः । तथाऽपि भोक्तृत्वापेक्षया तस्या अधिकप्रवृत्तिरिति ‘कर्तृत्वे हेतुः प्रकृतिरुच्यते’ इति, सर्वहेतुत्वेऽपि विष्णोः प्रकृतेर्जीवं प्रति भोक्तृत्वदानेऽल्पप्रवृत्तिरिति ‘पुरुषो भोक्तृत्वे हेतुरुच्यते’ इति विशेषहेतोरेवमुच्यत एव । मुख्यतस्तु सर्वहेतुत्वं विष्णोरेवेति भावः ।। २१ ।।
प्रकाशिका
‘‘कार्यकारणकर्तृत्वे हेतुःप्रकृतिरुच्यते ।।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यत’’
इत्यस्यार्थमाह ।। स्वदेहेत्यादिना ।। स्थानद्वयेपीत्यस्य श्लोकस्यार्थद्वयेपीत्यर्थः ।। २१ ।।
न्यायदीपिका
कार्यकारणकर्तृत्व इति (श्लोकस्य न केवलमचेतनप्रकृतिजीवविषयत्वं किं तु चित्प्रकृतीश्वरविषयत्वमपीति पूर्वार्धं चेतनप्रकृतिविषयतया प्रमाणेनैव व्याचष्टे) श्लोकमचेतनप्रकृतिजीवविषयत्वप्रतीतिनिरासाय चेतनप्रकृतीश्वरविषयतया प्रमाणेनैव व्याचष्टे ।। स्वदेहेति ।। विष्णुतत्वमावृत्त्येति ।। विष्णोर्यथास्थितिमज्ञापयित्वेत्यर्थः । विष्णुतत्वाज्ञस्यैव बन्धककर्मसम्भवेन देहेन्द्रियहेतुत्वादज्ञानहेतुचित्प्रकृतेर्जीवस्य शरीरेन्द्रियहेतुत्वम् । ईश्वरपरतयोत्तरार्धं व्याचष्टे ।। जीवस्येति ।। सर्वकर्तृत्वादीश्वरस्य भोगशक्तिकर्तृत्वं किं विशिष्योच्यत इत्यत आह ।। सर्वेति ।। यथा सर्वपालोऽपि विकुण्ठपो विशिष्योच्यते । स्थानान्तरस्येव विकुण्ठस्य पालकान्तररहितत्वात् तथा सर्वकर्ताऽपि हरिः केषाञ्चिद्भोक्तृत्वादीनां कर्ता विशिष्योच्यते । कार्यान्तर इव भोक्तृत्वादावन्येषां प्रवृत्त्यभावादित्यर्थः । विशेषेण स्वकर्मणा केवलेन स्वकर्मणा । एतेन भगवतः कार्यकारणकर्तृत्वहेतुत्वेऽपि चित्प्रकृतेर्भोक्तृत्वप्रदाने स्वप्रवृत्तिमपेक्ष्य कार्यकारणकर्तृत्वेऽधिकप्रवृत्तिरिति कार्यकारणकर्तृत्वे हेतुत्वोक्तिरिति सूचितं भवति ।
एतदुभयं(च)गीतायामेव सूचितमित्याह ।। परमेश्वरस्येति ।। परमेश्वरस्यैव कार्यकारणकर्तृत्वे हेतुत्वेऽपि चित्प्रकृतेस्तदुक्तिर्युक्ता । भोक्तृत्वदाने तस्या अल्पप्रवृत्तित्वेन तदपेक्षया कर्तृत्वेऽधिकप्रवृत्तिमत्त्वात् । तथा परमेश्वरस्य सर्वकर्तृत्वेऽपि विशिष्य भोक्तृत्वदानोक्तिर्युक्ता । भोक्तृत्वदाने चित्प्रकृत्यादीनामन्यत्र प्रवृत्तिमपेक्ष्याल्पप्रवृत्तित्वेन भगवत एवाधिकप्रवृत्तित्वादित्येतत्सूचयितुमस्य श्लोकस्य पूर्वोत्तरार्धयोरुच्यत इत्युक्तमित्यर्थः । कथमनेनैतत्सूचितमित्यत आह ।। कर्तृत्वेऽपीति ।। भोक्तृत्वापेक्षयेति ।। स्वस्या भोक्तृत्वदाने प्रवृत्त्यपेक्षयेत्यर्थः । अधिकप्रवृत्तिः कार्यकारणकर्तृत्व इति शेषः । भोक्तृत्वे हेतुरुच्यते । विशेषेणेति शेषः ।
पुरुषः प्रकृतिस्थो हीत्यत्रेश्वर उच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। पुरुष इति ।। ईश्वरस्य पुरुषः सुखदुःखानामिति पुरुषशब्देन प्रकृतत्वात्कथमत्र जीवे पुरुषशब्द इत्यत आह ।। उभयोरिति ।। यद्यप्यत्र पुरुषशब्देनेश्वरः प्रकृतस्तथाऽप्यत्र पुरुषशब्दस्य जीवविषयत्वग्रहणं युक्तम् । प्रकृतिं पुरुषं चैवेत्यत्र पुरुषशब्देनेश्वरः प्रकृतस्तथाऽप्यत्र पुरुषशब्दस्य जीवविषयत्वग्रहणं युक्तम् । प्रकृतिं पुरुषं चैवेत्यत्र पुरुषशब्देनेश्वरवज्जीवस्यापि प्रकृतत्वात् । अन्यथोभावित्यस्य वैयर्थ्यादिति भावः । अस्तु जीवः प्रकृतस्तथापि समीपप्रकृतं परित्यज्य दूरप्रकृतग्रहणं नोपपन्नमित्यत आह ।। यथेति ।। समीपप्रकृतत्वेऽपीश्वरस्य तत्परित्यागेन दूरप्रकृतजीवग्रहणमुपपद्यते । अस्य पुरुषस्य प्रकृतिजगुणभोक्तृत्वप्रतीतेरीश्वरस्य तदयोगाज्जीवस्य(च) तद्योग्यत्वात् । यथायोग्यमेवार्थग्रहणस्योपपन्नत्वादिति भावः । उभयोः प्रकृतत्वे जीवमात्रग्रहणं कथमित्यतो वाऽऽह ।। यथेति ।। २१ ।।
किरणावली
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यत इति गीतायाः कार्यं शरीरम् । ‘‘शरीरं कार्यमुच्यत’’ इति अभिधानात् । कारणानि ज्ञानकर्मकरणानीन्द्रियाणि । तानि प्रतिजीवस्य कर्तृत्वे प्रकृतिश्चित्प्रकृतिर्हेतुरित्यर्थः । तदुपपादनाय सदेहेन्द्रियहेतुत्वं कथमित्यत उक्तम् ।। स्वकर्मभिरिति ।। पूर्वं स्वार्जितैः बन्धककर्मभिः सदेहेन्द्रियहेतुत्वमिति भावः । भवत्वेवं जीवस्यादृष्टद्वारा स्वदेहादिकर्तृत्वं चित्प्रकृतेस्तद्धेतुत्वं कथमित्यत आह ।। विष्णुतत्वाज्ञस्यैवेति ।। अज्ञानपूर्वकं कृतस्यैव कर्मणो बन्धकत्वाद्विष्णुतत्वाज्ञस्यैव बन्धककर्मसम्भवेनादृष्टद्वारा जीवस्य स्वदेहेन्द्रियहेतुत्ववदज्ञानहेतुचित्प्रकृतेः सकाशाज्जीवस्य शरीरेन्द्रियहेतुत्वम् । तथा च जीवस्य कार्यकारणे प्रति हेतुत्वे प्रकृतेः प्रयोजकत्वमिति भावः । भोक्तृत्वे हेतुरुच्यत इत्यत्र भोक्तुर्भावो भोक्तृत्वम् । भोक्तुर्भावश्च भोग इव भोगशक्तिरपि भवतीति भावेन भोग शक्तीत्युक्तम् ।। केषाञ्चिद्भोक्तृत्वादीनामिति ।। अत्रादिपदेन त्रिवृत्करणमन्यत्र कर्तृकर्मभावघटनं अनंशस्य जीवस्यांशविभाग करणमित्यादिकं गृह्यते । विशेषकर्तोक्त इत्यस्यार्थमाह ।। कर्ता विशिष्योच्यत इति ।। तत्र हेतुमाह ।। कार्यान्तर इवेति ।। महालक्ष्म्या यथा कार्यान्तरे कार्यकारणशक्तिप्रदानेऽधिकप्रवृत्तिस्तथा भोगशक्तिप्रदानेऽधिकप्रवृत्त्यभावादित्यर्थः । तथाऽन्येषां ब्रह्मादीनां सुखदुःखेच्छात्मना मनःपरिणामादिकार्यान्तर इव सुखदुःखभोगशक्तिप्रदाने सर्वथा प्रवृत्त्यभावादित्यर्थः । तदुक्तं तृतीयस्कन्धतात्पर्ये सप्तविंशेऽध्याये ।
कर्तृत्वं सुखदुःखानामन्येषां च तदाज्ञया ।
भोक्तृत्वं सुखदुःखानां करोत्येको हरिः स्वयम् ।
भोक्तृत्वमात्रहेतुत्वं जीवे नान्यत्र कुत्र चित्’’ ।। इति ।
अत्र जीव इत्युक्तया रमायामीषदङ्गीकृतम् । विशेषेण स्वकर्मणेत्यस्याधिकेन स्वकर्मणेत्यर्थः प्रतीयते । तदयुक्तम् । दृष्टान्ते वैकुण्ठपालनादौ दार्ष्टान्तिके च भोगशक्तिप्रदानादावन्येषां ब्रह्मादीनां सर्वथाप्रवृत्त्यभावादित्यतोऽनूद्य व्याचष्टे ।। विशेषेणेति ।।
ननु रमाया जीवेभ्यः कार्यकारणकर्तृताशक्तिप्रदाने हेतुत्ववत् भगवतोऽपि हेतुत्वात् ‘‘कार्यकारणकर्तृत्वे प्रकृतिर्हेतुरि’’ति किं विशिष्योच्यत इत्यत आह ।। एतेनेति ।। भोक्तृत्वदानेऽल्पप्रवृत्तिवचनेनेत्यर्थः । भगवतः कार्यकारणकर्तृत्वे हेतुत्वेऽपि चित्प्रकृतेः स्वसमानाधिकरणयोः भोक्तृत्वकर्तृत्वप्रदानप्रवृत्त्योर्मध्ये भोक्तृत्वदानप्रवृत्तिमपेक्ष्य कर्तृत्वप्रदाने कर्तृत्वेऽधिकप्रवृत्तिरिति भावः ।। एतदुभयमिति ।। एतदुभयं गीतायामेव पूर्वोत्तरार्धयोरुच्यत इति वचनेन सूचितमित्याहेत्यर्थः । किं तदुभयं यत्परमेश्वरस्यैवेति वाक्येन गीतायां सूचितमित्युच्यत इत्यतः एतेनेत्यवधानेनोक्तं प्रमेयं परमेश्वरस्यैवेति वाक्येन गीतायां सूचितमित्युच्यते । मूलारूढं कुर्वन्व्याचष्टे ।। परमेश्वरस्यैवेति ।। सर्वकर्तृत्वेऽपीत्यस्य प्रतिपदं कार्यकारणेति । अध्याहरति ।। चित्प्रकृतेरिति ।। कथं युज्यत इत्यतस्तदुपपादकत्वेन भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरितीत्यंशं व्याचष्टे ।। भोक्तृत्वदाने तस्या अल्पप्रवृत्तित्वेनेति ।। अल्पप्रवृत्तिमत्त्वेऽपि देव्याः कथं कार्यकारणकर्तृत्वे हेतुः प्रकृतिरिति विशिष्योक्तिरित्यत आह ।। तदपेक्षयेति ।। स्वसमानाधिकरणभोक्तृत्वदानप्रवृत्त्यपेक्षयेत्यर्थः । अधिकप्रवृत्तिमत्त्वादित्ये तत्सूचयितुमित्युत्तरेण सम्बन्धः । सर्वकर्तापि सन्सदा । विशेषकर्ता केषाञ्चित् विशेषेण स्वकर्मणेति व्यवधानेन साक्षादुक्तं प्रमेयं परमेश्वरस्यैवेति मूलारूढं कुर्वन्व्याचष्टे ।। तथेति ।। सर्वकर्तृत्वेऽपीत्यतः परमध्याहरति ।। विशिष्येति ।। कथं युक्तेत्यतः तदुपपादकत्वेन भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरितीत्यंशं व्याचष्टे ।। भोक्तृत्वदाने चित्प्रकृत्यादीनामिति ।। चित्प्रकृत्यादीनां मध्ये चित्प्रकृतेरन्यत्र प्रवृत्तिमपेक्ष्य भोक्तृत्वदाने अल्पप्रवृत्तिमत्त्वेन भगवत एवाधिकप्रवृत्तिमत्त्वादादिपदोक्तानां जीवानां स्वल्पप्रवृत्तेरप्यभावेन भगवत एव प्रवृत्तिमत्त्वादित्येतत्सूचयितुमस्य श्लोकस्य पूर्वोत्तरार्धयोरुच्यत इत्युक्तमित्यर्थ इत्यर्थः । एतेनेति शब्दस्य हेत्वर्थकत्वं तत्प्रकारार्थकत्वं चेत्युक्तं भवति । रमायाः सुखदुःखभोक्तृत्वाभावाद्व्याचष्टे ।। स्वस्या इति ।। ततश्च कर्तृत्वेऽपीत्यादेः सर्वहेतुत्वेऽपीत्यतः प्राक्तनस्य मूलस्यायमर्थः । यद्यपि कार्यकारणकर्तृत्वेऽपीश्वर एव मुख्यहेतुस्तथापि तस्याश्चित्प्रकृतेस्तस्या भोक्तृत्वदाने प्रवृत्त्यपेक्षया कार्यकारणकर्तृत्वप्रदानेऽधिकप्रवृत्तिरिति । विशेषहेतोर्हेतुविशेषात्पूर्वार्धे कर्तृत्वे हेतुः प्रकृतिरुच्यत इत्येवमुच्यते । स्वसमानाधिकरणप्रवृत्त्योर्मध्ये कर्तृत्वमात्रेऽधिकप्रवृत्तेरसाधारण्येन व्यपदेशा भवन्तीति न्यायादिति ।। सर्वहेतुत्वेऽपीत्यादि मूलस्य विष्णोः सर्वहेतुत्वेऽपि प्रकृतेर्जीवं प्रति भोक्तृत्वदानेऽल्पवृत्तिरीश्वरस्य तु संपूर्णप्रवृत्तिरिति । संपूर्णप्रवृत्तेरीश्वरमात्रनिष्ठत्वमिति विशेषहेतोरसाधारण्येन व्यपदेशा भवन्तीति न्यायेन पुरुषस्य भोक्तृत्वे हेतुत्वं जगज्जन्मादिहेतुत्वं चेति । सर्वहेतुत्वमित्यर्थः ।
यद्यप्यत्रेति ।। पुरुषः सुखदुःखानामित्यत्रेत्यर्थः ।। तथाप्यत्रेति ।। पुरुषः प्रकृतिस्थो हि इत्यत्रेत्यर्थः ।। तथापि समीपप्रकृतं परित्यज्येति ।। पुरुषः सुखदुःखानामिति समीपप्रकृतमीश्वरं परित्यज्य ‘‘प्रकृतिं पुरुषं चे’’ति दूरप्रकृतजीवग्रहणमित्यर्थः । ननु यथा पुरुषं प्रकृतिं चेत्यत्र पुरुषपदेन जीवेश्वरौ विवक्षितौ तथा ‘‘पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यत’’ इत्यत्रापि पुरुषपदेन जीवेश्वरौ विवक्षितौ नत्वीश्वर एव । तथा चोक्तं भाष्ये । पुरुषः सुखदुःखानामिति जीव उक्त इति । तथा चोभयोरपि समीपप्रकृतत्वात् दूरप्रकृतत्वमयुक्तमिति चेत् । ‘‘पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते’’ इत्यत्र भोक्तुर्भावो भोगानुभवः भोगशक्तिश्च । तत्रानुभवविवक्षया पुरुषो जीवः सुखदुःखानां भोक्तृत्वेऽनुभवे हेतुः । कर्तेत्यर्थविवक्षया भाष्ये जीवमात्रपरत्वमुक्तं भोगशक्तिविवक्षयात्र पुरुष ईश्वरः सुखदुःखानां भोक्तृत्वे जीवस्य भोगशक्तिप्रदाने हेतुरित्येतद्ग्रन्थानुसारेणेश्वरस्यैव विवक्षितत्वात् भोक्तृत्व शब्दस्य शक्तिपरत्वे जीवस्यावकाशाभावात् । दूरप्रकृतत्वमुच्यत इत्यदोषः । तथा च प्रमेयदीपे । ‘‘सुखदुःखानां भोक्तृत्वे भोगे हेतुः कर्ते’’ति व्याख्यानमाश्रित्येदमुक्तम् । व्याख्यानान्तरे तु भगवानेवात्र पुरुष इति ।। २१ ।।
भावदीपः
शङ्कते ।। अज्ञानहेतुचित्प्रकृतेरित्यादि ।। हेतुत्वं किं विशिष्योच्यत इत्यन्वयः । अस्योत्तरं एतेन भगवत इत्यादिनाग्रे व्यक्तम् ।। स्वकर्मणेति ।। खव्यापारेणेत्यर्थः ।। इत्यतो वाह यथेतीति ।। तदर्थः प्राग्वदेवेति भावः ।। २१ ।।
भावप्रकाशः
अन्येषां प्रवृत्यभावादिति । कार्यान्तर इव बहुलप्रवृत्यभावादित्यर्थः ।। यद्यप्यत्रेति । पुरुषः सुखदुःखानामित्यत्रेत्यर्थः ।। तथाप्यत्रेति । पुरुषः प्रकृतिस्थोहीत्यत्रेत्यर्थः ।।२१।।
वाक्यविवेक
इतः परं टीकाभेदेन वाक्यानि भिद्यन्ते तथाहि । कार्यकारणकत्तृत्व इति श्लोकं अचेतनप्रकृतिजीवविषयत्वप्रतीतिनिरासाय चेतनप्रकृतीश्वरविषयतया प्रमाणेनैव व्याचष्टे । स्वदेहेतीत्येकः टीकापाठः । तस्यार्थः– कार्यकारणकर्तृत्वहेतुः प्रकृतिरुच्यत इति पूर्वार्धो चेतनप्रकृतिमात्रपरः। उत्तरार्धस्तु जीवमात्रपर इति भ्रान्तिनिरासाय चेतनप्रकृतीश्वरविषयतया प्रमाणेन व्याचष्ट इति ।
टीकान्तरेतु कार्यकारणकर्तृत्व इति श्लोकस्य न केवलमचेतनप्रकृतिजीवविषयत्वं किं तु चित्प्रकृतीश्वरविषयत्वमपीति पूर्वार्धं चेतनप्रकृतिविषयतया प्रमाणेन व्याचष्टे । स्वदेहेतीति पाठः अस्यार्थः सुलभः ।। अन्येषां प्रवृत्यभावादिति । महालक्ष्म्या ईषत्प्रवृत्तिसद्भावेऽपि कार्यान्तर इव प्रवृत्यभावादन्येषां प्रवृत्यभावादित्युपपन्नम् । अन्यथा उभावित्यस्य वैय्यर्थ्यादिति । प्रकृतिं पुरुषचैवेत्यत्र पुरुषशब्देन जीवेश्वरयोः प्रकृतत्वाभावे प्रकृतिं पुरुषं चैत्युभयोर्ग्रहणेनैव द्वित्वलाभादुभाविति पदं व्यर्थं स्यादिति भावः ।।
समीपप्रकृतत्वेऽपीति ।। यद्यपि पुरुषः सुखदुःखानामिति जीव उक्त इति गीताभाष्योक्तरित्या पुरुषः सुखदुःखानामिति पुरुषशब्देनेश्वरवज्जीवस्यापि प्रकृतत्वात् उभायोरपि समीपप्रकृतत्वम् । तथापि ईश्वरवसुमीपलाभष्ठानतुजीव(?) इति पूर्वपक्ष्युक्तमङ्गीकृत्य समीपप्रकृतत्वेऽपीश्वरस्येत्युक्तमिति द्रष्टव्यम् ।। २१ ।।