गीता
द्वादशोऽध्यायः
मोक्षसाधनं किम्
गीता
अर्जुन उवाच—
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ।। १ ।।
तात्पर्यम्
साधननिर्णयोऽत्र ।
श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ’ ‘उपासिता मुक्तिदा सद्य एव ह्यस्येशाना जगतो विष्णुपत्नी । या श्रीर्लक्ष्मीरौपला चाम्बिकेति ह्रीश्चेत्युक्ता संविदग्रया सुविद्या’ इत्यादिश्रुतिभ्यः ।
‘श्रीः सुतुष्टा हरेस्तोषं गमयेत् क्षिप्रमेव तु ।
अतुष्टा तदतुष्टिं च तस्माद् ध्येयैव सा सदा ।
अव्यक्तं प्रकृतिं प्राहुः कूटस्थं चाक्षरं च ताम् ।
प्रधानमिति च प्राहुर्महापुरुष इत्यपि ।
तां ब्रह्म महदित्याहुः परं जीवं परां चितिम् ।
तस्यास्तु परमो विष्णुर्यो ब्रह्म परमं महत्’
इति ब्रह्माण्डवचनाच्चाव्यक्तोपासनान्मोक्षाशङ्कया पृच्छति । ‘कूटस्थोऽक्षर उच्यते’ इत्युत्तरवचनात् ‘कूटस्थमचलम्’ इत्यत्राप्युक्तेरव्यक्तशब्दश्चित्प्रकृतिवाची । अन्यथा ‘ये त्वां पर्युपासते, ये चाप्यक्षरम्, तेषां के योगवित्तमाः’ इति भेदेन प्रश्नानुपपत्तिः । ‘परं ब्रह्म परं धाम पवित्रं परमं भवान्’ इति तेनैवोक्तत्वात् । ये तु ‘ते मे युक्ततमा मताः’ ‘मय्येव मन आधत्स्व’ इत्यादौ भगवतोक्तेऽप्यव्यक्तोपासकानामाधिक्यं वदन्ति ते त्वपलापकत्वादेवातिसाहसिका इति सुशोच्या एव ।। १ ।।
प्रकाशिका
‘‘एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा’’ इति सन्दिह्य विष्णूपासनमेव मोक्षसाधनमिति’’ निर्णीयतेऽस्मिन्नध्याये इत्याह ।। साधनेति ।। तत्र तावत्सन्देहसिध्यर्थं विष्णूपासानवदव्यक्तदेवतोपासनस्यापि मोक्षसाधनत्वं श्रुत्यादिभिः श्रावयति ।। श्रिये जात इति ।। श्रिये श्रीसमाराधनार्थं यो जातो असौ श्रिये श्रीप्राप्त्यर्थम् आनिरियाय गेहान्निर्गतवान् भवति । श्रियं संपदं वयः आयुः जरितृभ्यः स्तोतृभ्यः श्रीदेवी दधाति ददाति ।। श्रियं देवीं वसानाः उपासीनाः अमृतत्वं मोक्षम् आयन् प्राप्ता भवन्ति सत्या सत्यानि समिथा समीहितानि मितद्रौ मिथुने दम्पत्योः श्रियमुपासीनयोरित्यर्थः ।। ‘‘उपासीना मुक्तिदे’’त्यादि श्रुत्यन्तरेभ्यः । श्रीः सुतुष्टेत्यादिपुराणवचनाच्चाव्यक्तादि शब्दाभिधेयश्रीदेव्युपासनस्यापि मोक्षसाधनत्वप्रतीतेः तेषां के योगवित्तमा इत्यर्जुनप्रश्न इत्यर्थः ।।
‘‘कूटस्थमचलं ध्रुवमि’’त्युक्तस्याक्षरस्याव्यक्तस्य उपरि कूटस्थोऽक्षर उच्यत इत्यत्र लक्ष्मी प्रतिपादके प्रत्यभिज्ञायमानत्वात् अत्राव्यक्तशब्देन चेतनप्रकृतिरुच्यते न तु जडप्रकृतिरित्याह ।। कूटस्थ इति ।। अव्यक्तशब्दस्य विष्णावपि प्रयोगात् सोऽत्राव्यक्तशब्देनोच्यतामित्याशङ्क्य परिहरति ।। अन्यथेति ।। ‘‘परं ब्रह्म परं धाम पवित्रं परमं भवानि’’त्यनेनार्जुनवाक्येन विष्णुरेव ब्रह्मेत्युक्तत्वात् विष्णूपासकानामव्यक्तशब्दवाच्य ब्रह्मोपासकानां मध्ये योगवित्तमा इत्यर्जुनः पृच्छतीत्येतदपि न घटते इत्यर्थः ।। अत्राव्यक्तमिति यत्किञ्चित्परिकल्प्य तदुपासनं प्रधानं विष्णूपासनं तदङ्गभूतमिति ये वदन्ति तान्प्रत्याह ।। ये त्वित्यादिना ।। १ ।।
न्यायदीपिका
एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। साधनेति ।। मोक्षसाधनयोरव्यक्तभगवदुपासनयोर्मध्ये प्रागुक्तभगवदुपासनस्याधिक्यनिर्णयोऽस्मिन्नध्याये क्रियत इत्यर्थः । ननु भगवदुपासनस्येवाव्यक्तोपासनस्यापि यदि मोक्षसाधनत्वं क्वचिदुक्तं स्यात्तदैवं सततयुक्ता इति संदिह्य प्रश्नो युज्यते । न च तदस्तीत्यतः कथं प्रश्न इत्यत आह ।। श्रिय इति ।। यः पुरुषः श्रीसमाराधनार्थं जातोऽसौ तदर्थमेव गृहान्निर्गतो भवति स श्रियं उपदेष्टृभ्यो गुरुभ्य एव स्वस्य वयो धत्ते । एवं श्रियमुपासीनाः पुरुषा अमृतत्वं यान्ति । तस्मिन् गुरुशिष्याख्ये मिथुने समीहितानि सत्यानि भवन्तीत्यर्थः । किं श्रिय उपासनं स्वातन्त्र्येणैव मोक्षसाधनमित्यतः श्रीप्रसादमुत्पाद्य ततो भगवत्प्रसादद्वारेणैवेति भावेन स्मृतिमाह ।। श्रीरिति ।। श्रीप्रसादस्य भगवत्प्रसादोत्पादकत्वं कुत इत्यतः श्रियोऽतिमहिमानमाह ।। अव्यक्तमिति ।। एवंभूता चेच्छ्रीस्तर्हि तत्प्रसादः स्वयमेव पुरुषार्थहेतुः किं न स्यादीश्वरप्रसादसाधनत्वं तस्य किमर्थमुच्यत इत्यत आह ।। तस्या इति ।। श्रियोऽपि विष्णोः परमत्वान्न तत्प्रसादस्य स्वातन्त्र्येण पुरुषार्थसाधनत्वं किंतु विष्णुप्रसादसाधनत्वेनैवेत्यर्थः । विष्णोर्महद्ब्रह्मभूतश्रिय उत्तमत्वे हेतुमाह ।। य इति ।। एवं श्रुतिपुराणवाक्येभ्यो विष्णूपासनस्येवाव्यक्तोपासनस्यापि मोक्षसाधनत्वप्रतीतिजातया भगवदुपासनं वाऽव्यक्तोपासनं वोत्तमं मोक्षसाधनमिति शङ्कयोत्तमसाधनं पृच्छतीत्यर्थः । यदि भगवदुपासनस्येव श्रिय उपासनस्यापि मोक्षसाधनत्वं प्रतीयेत । तर्हि तद्विषय एव प्रश्नः कर्तव्योऽव्यक्तोपासनविषये किमर्थं क्रियत इत्यत आह ।। कूटस्थ इति ।। कूटस्थोऽक्षर उच्यत इत्युपरितनवाक्ये चित्प्रकृतावेव प्रयुक्तकूटस्थाक्षर शब्दयोरत्राप्यव्यक्ते प्रयुक्तत्वेनाव्यक्तं चित्प्रकृतिरेव । अतः चित्प्रकृत्युपासनस्य मोक्षसाधनत्वप्रतीत्याऽव्यक्तोपासनविषये प्रश्नो युक्त एवेति भावः । एतेन इत्यादिश्रुतिभ्योऽव्यक्तोपासनादित्यस्याप्यनवद्यत्वं सिद्ध्यति । नन्वव्यक्तादिशब्दानां परब्रह्मणि मुख्यत्वादत्र तत्किं विवक्षितं न स्यादित्यत आह ।। अन्यथेति ।। यद्यत्राव्यक्तशब्देन परब्रह्मोच्येत तर्हि त्वदुपासकाव्यक्तोपासकानां मध्ये क उत्तम इति भगवतोऽव्यक्तस्य च भेदेनार्जुनप्रश्नोऽनुपपन्नः स्यादित्यर्थः । कुतोऽनुपपन्न इत्यतोऽर्जुनेनैव भगवतः परब्रह्मत्वस्योक्तत्वादित्याह ।। परमिति ।।
अन्ये त्वत्राव्यक्तपदेन यत्किञ्चिच्छून्यापरनामकं निर्गुणं ब्रह्मोच्यत इति मन्वानास्तदुपासकेश्वरोपासकयोः कोऽधिक इति प्रश्नार्थं कल्पयित्वाऽव्यक्तोपासकानामेवाधिक्यं परिहारे कथ्यत इति वदन्ति तान्प्रत्याह ।। येत्विति ।। ते मे युक्ततमा मता इति भगवता स्वोपासकानामुत्तमत्वमुक्त्वा मय्येवेति मदुपासकानामेवोत्तमत्वान्मदुपासक एव भवेति स्फुटमुक्तत्वादव्यक्तोपासकानामाधिक्यं वदतामपलापकत्वमेव । ततश्च साहसिकत्वादहो नष्टा एत इति शोकविषयत्वमेव न तु परिहारं वक्तुं प्रतिवादित्वमित्यर्थः ।। १ ।।
किरणावली
भगवदुपासनस्याधिक्यनिर्णय इति ।। प्रागुक्तेति ।। मत्कर्मकृदित्यादि प्रागुक्तेत्यर्थः । अनेन पूर्वानन्तर्यमप्यस्याध्यायस्य सूचयति । नन्वव्यक्तोपासनाद्भगवदुपासनस्योत्तमत्वं प्रदर्श्य तदुपायं प्रदर्शयत्यस्मिन्नध्याय इति भाष्यविरोध इति चेत्समाहितमेतत्तट्टीकायां तदुपायप्रदर्शनं च भगवदुपासनाधिक्यप्रदर्शनार्थमेवेत्येकार्थतेति । भगवदुपासनस्यातिशयेन मोक्षसाधनत्वप्रतिपादनमपि भगवदुत्कर्षपर्यवसन्नमिति षट्कान्तर्भाव इति ज्ञेयम् । सन्दिह्येत्यतः परं कृत इति योज्यम् । तेन ल्यबन्ततोपपत्तिः । सन्दिह्य कृतः संदेहमूलकः प्रश्न इति यावत् । श्रिये जरितृभ्य इत्यस्यार्थः श्रियं उपदेष्टृभ्य इति । श्रियं प्रति वसाना वसन्तस्तामाच्छाद्य स्थिता वा इति प्रमेयदीपोक्तमर्थं सिद्धवत्कृत्य फलितमाह ।। उपासीना इति ।। आयन्निति लेट्प्रयोगात् भूतकाल एव मोक्षसाधनत्वमिति प्रतीतिनिरासाय लडर्थतया व्याख्याति ।। यान्तीति ।। क्रियासम्बन्धे विहितलेटश्च सार्वकालिकत्वमिति भावः । यद्यपि श्रीमत्पद्मनाभतीर्थीये श्रीसमाराधनार्थं जातोऽसौ श्रिये श्रीप्रीत्यर्थे गेहान्निर्गतो भवति प्रीत्या भवत्प्रयोजनमुच्यते श्रियं संपदं वय आयुश्च जरितृभ्यः स्तोतृभ्यः श्रीर्देवी दधाति ददाति मितद्रौ मिथुने दंपत्योः श्रियमुपासीनयोः समिधा समीहितानि सत्यानि भवन्तीत्यर्थ उक्तः । तथापि गीताभाष्यपद्मनाभतीर्थीयानुसारेणात्रेत्थं व्याख्यातम् । प्रमेयदीपे तु मितद्रौ समुद्रे क्षीराब्धाविति व्याख्यातम् । संविदग्य्रा सुविद्येति मूलस्य संविदग्य्रा ज्ञानेन श्रेष्ठा सुविद्या निर्दोषवेदादिविद्याभिमानिनीत्यर्थः ।। श्रियोऽतिमहिमानमाहेति ।। अव्यक्तप्रकृत्यादिशब्दानां यौगिकत्वेन महामहिमप्रतिपादकत्वादिति भावः ।। विष्णोर्महद्ब्रह्मभूतश्रिय उत्तमत्वे हेतुमिति ।। परममहद्ब्रह्मशब्दवाच्यत्वाख्यं हेतुमित्यर्थः ।
ननु श्रुतिपुराणवचनाद‘‘व्यक्तोपासनान्मोक्षनिश्चयान्मोक्षशङ्कये’’ति कथमुक्तमित्यतो व्याचष्टे ।। एवं श्रुतिपुराणेति ।। इति शङ्कयेति ।। इति शङ्का कस्यचिद्भवत्यतो जानन्नपि सूक्ष्मयुक्तिज्ञानार्थं पृच्छतीति भाष्यानुसारेणास्यार्थो ज्ञेयः । नन्वित्यादिश्रुतिभ्य इत्यस्याव्यक्तोपासनान्मोक्षाशङ्कयेत्यनेनान्वयो वक्तव्यः । स न युक्तः । श्रुतिष्वव्यक्तोपासनानुक्तेरित्यत आह ।। एतेनेति ।। अव्यक्तशब्दस्य श्रीवाचकत्वसमर्थनेनेत्यर्थः ।। भेदेनार्जुनप्रश्न इति ।। उपलक्षणमेतत् । ये चाप्यक्षरमित्यत्र पृथक्प्रश्नादुपासकयोः फलतारतम्यकथनादित्यष्टमाध्याये भगवत्पादैरुक्तत्वात्फलतारतम्यकथनं चानुपपन्नमिति द्रष्टव्यम् । सूक्ष्मत्वादप्रसिद्धत्वादिति मूले सूक्ष्मत्वादव्यक्तौ । तथा च सूत्रं सूक्ष्मं तु तदर्हत्वादिति । अप्रसिद्धत्वाच्छब्देन निर्देष्टुमशक्यौ अप्रसिद्धेरवाच्यं तदित्युक्तत्वात् । गुणबाहुल्यतोऽचिन्त्याविति योज्यम् ।। १ ।।
भावप्रकाशः
अव्यक्तोपासनात् भगवदुपासनस्योत्तमत्वं प्रदर्श्य तदुपायं दर्शयत्यस्मिन्नध्याय इति भाष्यानुसारेण व्याचष्टे । मोक्षसाधनयोरिति । अव्यक्तं श्रीः । एवं शब्देन दृष्टश्रुतरूपं मत्कर्मकृदित्यादिप्रकारश्च परामृश्यत इत्यर्जुनप्रश्नसङ्गतिप्रदर्शकभाष्येण ज्ञापितामानन्तर्यलक्षणसङ्गतिमाह । प्रागुक्तेति । आधिक्यनिर्णय इति । तथा च षट्कान्तर्भावसिद्धिरिति भावः । श्रियं प्रति वसानाः वसन्तस्तामाच्छाद्य स्थितावेव इति पदार्थं मनसि निधाय तात्पर्यमाह । एवं श्रियमुपासीना इति । आयन्निति लङा भूतकाल एव मोक्षसाधनत्वमिति प्रतीतिनिरासाय क्रियाप्रबन्धे विहितेन लटा तत् व्याख्याति । यान्तीति । मितद्रावित्येतत् व्याख्याति । तस्मिन् गुरुशिष्याख्य इति । इति शङ्कयेति । इति शङ्का कस्यचिदविदिततत्वस्य भवति तदनुजिघृक्षया भगवदुपासका एव श्रेष्टा इति जानन्नप्यर्जुन उत्तमसाधानं पृच्छतीत्यर्थः ।। अथवा जानन्नपि तत्र स्वाविदितयुक्तिज्ञानार्थं शङ्कामाहृत्य पृच्छतीत्यर्थः। चित्प्रकृतावेवेति । न तु तत्र विष्णावक्षरशब्दः । अहमक्षरादपि चोत्तम इति विष्णोरक्षरादप्युत्तमत्वकथनादित्येवशब्दार्थः ।। एतेनेति । अव्यक्तशब्दस्य श्रीवाचकत्वसमर्थनेनेत्यर्थः । इत्यादिश्रुतिभ्य इति ।। इत्यादिश्रुतिभ्यः ब्रह्माण्डवचनाच्चाव्यक्तोपासनात् मोक्षाशङ्कयेत्यस्यासङ्गतत्वरूपाद्यविधुरत्वं सिध्यतीत्यर्थः । परब्रह्मणि मुख्यत्वादिति ।। तदधीनत्वादर्थवदित्यधिकरणे प्रधानादिगतपरावरत्वादिधर्माणां भगवदधीनत्वात्तस्मिन्नेवाव्यक्तत्वादिवाचिशब्दजातमर्थवदिति सिद्धान्तितत्वादिति भावः ।। भेदेनार्जुन प्रश्न इति । उपलक्षणमेतत् । ये त्वक्षरमनिर्देश्यं येतु सर्वाणि कर्माणीत्यादिनाऽक्षरोपासकानां भगवदुपासकानां च फलतारतम्यकथनमनुपपन्नमित्यदि ज्ञातव्यम् । यथोक्तमाचार्यैरष्टमे येचाप्यक्षरमव्यक्तमित्यत्र पृथक् प्रश्नादुपासकयोः फलतारतम्यकथनादिति ।। १ ।।
वाक्यविवेक
मोक्षसाधनयोरिति ।। अव्यक्तोपासनं भगवदुपासनं चेति द्वयं मोक्षसाधनं तत्र भगवदुपासनं मोक्षसाधनत्वेन प्रागुक्तं तस्याधिक्यनिर्णयोऽत्राध्याये क्रियत इत्यर्थः ।। मितद्राविति पदं व्याख्याति । गुरुशिष्याख्येतिमिथुन इति । मितद्रुशब्दः मिथुनवाची योग्यताबलाद्गुरुशिष्ययोर्लाभ इति भावः । अव्यक्तश्रीशब्दार्थयोर्भेदं मत्वा शङ्कते । यदि भगवदुपासनस्येवेति ।। कूटस्थोक्षर उच्यत इत्युपरितनवाक्य इति ।। उत्तरवाक्ये कूटस्थाक्षरशब्दाभ्यां चित्प्रकृतेर्ग्रहणात् । येचाप्यक्षरमव्यक्तमिति पूर्ववाक्येऽक्षर शब्दश्रवणात् कूटस्थमचलं ध्रुवमिति मध्यमवाक्ये कूटस्थशब्दश्रावणात् अव्यक्तशब्देन चित्प्रकृतिरेव गृह्यत इति भावः ।। १ ।।