तात्पर्यम्
हंसपरमहंसानां लक्षणम्
तात्पर्यम्
तत्रस्थशुद्धसत्त्वास्तु परहंसाः प्रकीर्तिताः ।
हंसो बहूदः कुटिको वनस्थो नैष्ठिको गृही ।
क्रमाद् रजोधिका बाह्यं कर्मैषामधिकं यतः ।
धर्माः परमहंसानां ब्राह्मा एव शमादिकाः ।
देवादेः कर्मबाहुल्यं न लिङ्गं रजसः क्वचित् ।
नहि विष्णोश्चलेत् तेषां मनः कर्मकृतावपि ।
अन्येषां चलचित्तत्वात् प्रायः स्यात् कर्म राजसम् ।
यदि तत् स्मारकं विष्णोर्विद्यात् सात्त्विकमेव तत् ।
धर्मार्थहिंसनाऽग्निश्च विशेषो ब्रह्मचारिण; ।
पैतृकं चापि यतितो दारास्तु गृहिणस्ततः ।
असर्गो ग्राम्यसन्त्यागः पश्वहिंसा गृहस्थतः ।
वनस्थस्य विशेषोऽयं सर्वेषामितरत् समम्’ इति च ।
प्रकाशिका
परमहंसा एकदण्डिनः यज्ञोपवीतवानेकदण्डी शिखारहितो हंसः ।। बहूदः ।। दण्डी यावज्जीवं पुत्रदत्तान्नादः त्रिदण्डी कुटीचकः । बाह्यकर्मापि त्रयादधिकमिति ज्ञातव्यम् ।। ब्राह्मा ब्रह्मकर्मस्वभावजमित्युक्ताः धर्मार्थाहिंसना समिदादिच्छेदनम् ।। दारास्तु गृहिणः ततो ब्रह्मचारिविशेष इत्यर्थः ।। अपत्यानुत्पादनम् सर्गः ।। इतरत् स्वोचितं यज्ञादिकम् ।।
न्यायदीपिका
राजससात्विकसात्विकेषु विप्रेष्वप्याश्रमभेदेनानेकविधतामाह ।। तत्रस्थेति ।। राजससात्विकसात्विकेषु शुद्धसात्विका इत्यर्थः । परमहंसाः शिखायज्ञोपवीतहीनाः एकदण्डिनः । यज्ञोपवीतवानेकदण्डी शिखारहितो हंसः । त्रिदण्डी शिखायज्ञोपवीतवान् ग्रामैकरात्रिर्बहूदः । त्रिदण्डी शिखायज्ञोपवीतवान् यावज्जीवं पुत्रदत्तान्नादः कुटीचकः । अधिकं क्रमादिति सम्बध्यते । तत्परमहंसानामपि समं किमित्यत आह ।। धर्मा इति ।। शमोदम इत्यादौ ब्राह्मकर्मतयोक्ता इत्यर्थः । कर्मबाहुल्याद्धंसादीनां राजसत्वे देवादीनामपि तद्भावाद्राजसत्वं स्यादित्यत आह ।। देवादेरिति ।। कुतो नेत्यत आह ।। नहीति ।। कर्मणि मनश्चलतु मा वा, तथाऽप्यस्ति तावद्बहुलं कर्मातो हंसादिवद्राजसत्वमेव देवादेरित्यत आह ।। अन्येषामिति ।। न हंसादिष्वपि कर्मस्वरूपत एव रजोऽनुमापकम् । किंतु चित्तचलनहेतुत्वेनैव । देवादिकर्मणस्तु तदभावान्न राजसत्वे लिङ्गत्वमिति भावः । कर्मणः स्वरूपत एव रजोऽनुमापकत्वं किं न स्यादित्यत आह ।। यदीति ।। भगवत्स्मरणहेतुकर्मणः सत्त्वानुमापकत्वदर्शनान्न कर्मस्वरूपत एव राजसत्वानुमापकमिति भावः । अत एव प्रायः स्यादित्युक्तम् ।
परमहंसादर्वाग्गृहस्थान्तानां यत्क्रमेण कर्मबाहुल्यमुक्तं तल्लेशतो विभज्य दर्शयति ।। धर्मेति ।। हंसादिषु कर्मबाहुल्यक्रमोऽन्यतो द्रष्टव्यः । चतुर्विधयतितो ब्रह्मचारिणः समिदादिछेदनमग्निपूजा श्राद्धकरणमिति विशेषः । ब्रह्मचारितो गृहस्थस्य दारसंग्रहो विशेषः । अपत्यानुत्पादनं, ग्रामभववस्तुसेवाभावः, पश्वहिंसेति गृहस्थाद्वनस्थस्य विशेष इत्यर्थः । ग्राम्यसंत्यागोक्तया वनस्थस्य ब्रह्मचारितोऽपि कर्माल्पत्वमुक्तं भवति । इतरत्स्वोचितं यज्ञादि ।
किरणावली
तत्रस्थशुद्धसत्त्वा इत्यस्य तत्र राजससात्विकसात्विकेषु विप्रेषु स्थिता ये शुद्धसत्वा इत्यर्थमभिप्रेत्याह ।। राजससात्विकेति ।। ननु हंसादीनां यदि बाह्यकर्मैकप्रकारेणाधिकं कथं तर्हि क्रमाद्रजोधिकत्वसाधनमित्यत आह ।। अधिकं क्रमादिति सम्बध्यत इति ।। क्रमाद्रजोधिका इत्यत्र क्रमादिति पदमधिकमित्यनेनापि सम्बध्यत इत्यर्थः ।। तत्परमहंसानामपि समं किमित्यत इति ।। तद्बाह्यं कर्म परमहंसानामपि समं किं तथात्वे तेषामपि राजसत्वं स्यादित्यत आहेत्यर्थः । मूले शमादिका एवेत्यर्थः । किं तेषां ब्राह्मत्वमित्यत आह ।। शमोदम इत्यादाविति ।। न हंसादिष्वपि कर्मेति ।। हंसादयो राजसाः कर्मवत्त्वादिति कर्मस्वरूपत एव येन केनचिदविशिष्टमेव नरजोनुमापकम् । किंतु चित्तचलनहेतुत्वेन विशेषितमेव । देवादिकर्मणस्तदभावात् । चित्तचलनहेतुत्वाभावान्नराजसत्वे लिङ्गत्वमित्यर्थः । एतेनान्येषामिति मूलस्यान्येषां चलचित्तत्वात्कर्म प्रायो राजसं रजोनुमापकमित्यर्थ उक्तो भवति ।। परमहंसादर्वाक्गृहस्थांतानामिति ।। परमहंसाद्धंसस्य तस्माद्बहूदस्येति क्रमेण यत्कर्मबाहुल्यमुक्तमित्यर्थः । ननु परमहंसाद्धंसस्य तस्माद्बहूदस्य तस्मात्कुटीचकस्यात्र नकर्मबाहुल्यमुक्तमित्यतो लेशत इत्युक्तम् । तर्हि तत्कथं ज्ञेयमित्यत आह ।। हंसादिष्विति ।। यतित इत्यस्य प्राक् कुटिजो वनस्थो नैष्ठिक इत्युक्तत्वात्कुटिजादित्यर्थः प्रतीयतेऽतो व्याचष्टे ।। चतुर्विधयतित इति ।। ब्रह्मचारिणः नैष्ठिक ब्रह्मचारिण इत्यर्थः । विवाहयोग्यस्य ब्रह्मचारिणो गृहस्थादवरत्वात् ।। समिदादिच्छेदनमिति ।। समिद्दर्भच्छेदनातिरिक्त पश्वालम्भनाद्यभावादिति भावः ।। अपत्यानुत्पादनमिति ।। धर्मज्ञानोत्पादनस्य सत्त्वादसर्गपदेनैतदेव विवक्षितमिति भावः । ननु ग्राम्यसंत्याग इत्यनेनैवासर्गो लभ्यते स्त्रीसम्भोगस्यैव ग्राम्यकर्मपदार्थत्वादित्यतो व्याचष्टे ।। ग्रामभववस्तुसेवाभाव इति ।। इतरत्स्वोचितमिति ।। सर्वेषामितरत्सममिति मूलस्य सर्वेषां परमहंसादीनामितरत्स्वोचितं यज्ञादि । यज्ञो दानं तपश्च सममित्यर्थः ।।
भावदीपः
कर्मैषामधिकं यत इत्यत्र स्थायिकपदमनूद्य काङ्क्षितं पूरयति ।। अधिकं क्रमादिति सम्बध्यत इति ।। तदिति ।। कर्माधिक्यमित्यर्थः ।। इत्यादाविति ।। अत्रैवोत्तरश्लोक इत्यर्थः ।। गृहस्थान्तानामिति ।। नैष्ठिको गृहीत्युक्तगृहस्थान्तानामित्यर्थः । असर्ग इत्यादेरर्थः अपत्यानुत्पादनमित्यादि ।।
भावप्रकाशः
एकप्रकारेण कर्माधिकत्वेन क्रमाद्रजोधिकत्वसाधनमनुपपन्नमित्यत आह । अधिकं क्रमादिति ।। संबध्यत इति । क्रमादित्येतदधिकमित्यनेनापि सम्बध्यत इत्यर्थः । शमादीनां बाह्यत्वं कुत इत्यत आह ।। शमोदम इत्यादौ ब्राह्मतयोक्ता इति । ब्राह्मणधर्मतयोक्ता इत्यर्थः ।। रजोनुमापकमिति । हंसादयः परमहंसादधिकरजोयुक्ताः तदपेक्षयाधिककर्मवत्वादिति नानुमापकमित्यर्थः ।। चित्तचलनहेतुत्वेनेति । तदपेक्षया चित्तविक्षेपहेतुभूताधिककर्मवत्वादितीत्यर्थः । क्रमेण कर्मबाहुल्यमिति । बाह्यं कर्मैषामधिकं यत इत्यनेनेत्यर्थः ।। ब्रह्मचारिप्रभृतीनां चतुर्विधं यतितः कर्मबाहुल्यमेवोत्रोच्यते । हंसादीनां परमहंसात्कर्मबाहुल्यं कथमित्यत आह । हंसादिषु कर्मबाहुल्यक्रम इति । ब्रह्मचारिणः पश्वालम्भनाभावादाह । समिदादिच्छेदनमिति । असर्गपदेनागतार्थतया ग्राम्यसंत्यागपदं व्याचष्टे । ग्रामभववस्तुसेवाभाव इति ।
वाक्यविवेक
राजससात्विकेष्विति । राजससात्विकविप्रेषु परमहंसाः गृहस्थाद्यपेक्षयाधिकसत्वोपेतत्वात् शुद्धसात्विका इत्यर्थः ।।