गीता
गीता
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ।। २० ।।
अर्जुन उवाच—
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ।। २१ ।।
श्रीभगवानुवाच—
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ।। २२ ।।
तात्पर्यम्
‘लोकस्थितान् प्रकाशादीन् प्रायो न द्वेष्टि नेच्छति ।
स्वयम्प्रकाशी मोहोज्खस्तथाऽपि पुनरिच्छति ।
विष्णौ प्रकाशं तं चैव नित्यभक्तयाऽभिसेवते ।
सुखदुःखादिभावेऽपि विष्णुभक्तौ समः सदा ।
अर्थार्थं वा प्रियार्थं वा निन्दादीनां भयादपि ।
न विष्णुभक्तिह्रासोऽस्य किन्तु साम्यमथोन्नतिः ।
अवैष्णवारम्भवर्जी विष्णुं याति न संशयः’ इति च ।। २०२२ ।।
प्रकाशिका
‘‘प्रकाशं च प्रवृत्तिं च मोहमेवच पाण्डव ।।
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति’’
इत्यस्यार्थमाह ।। लोकस्थितानीत्यादिना ।। लोकस्थितानीति पुरुषान्तरस्थितानि इत्यर्थः
।। २२ ।।
न्यायदीपिका
गुणात्ययोपायादिप्रश्नस्य परिहार उच्यते ।। प्रकाशमिति ।। तत्र स्वस्मिन् प्रकाशं नेच्छति । स्वगतमोहं न द्वेष्टि । दुःखादिसाम्यंच स्पृहाद्यभावमात्रम् । सर्वारम्भपरित्यागश्च सर्वत्रोदासीनत्वमित्यन्यथाप्रतीतिनिरासाय प्रमाणान्तरेण तद्व्याचष्टे ।। लोकेति ।। पुरुषान्तरे स्थितं प्रकाशादि साधु न द्वेष्टि । तत्र मोहाद्यसाधु नेच्छतीत्यर्थः । स्वस्य प्राप्तप्रकाशत्वान्मोहोज्खितत्वात्स्वस्मिन्नेव तदिच्छाद्यभावः किं न स्यादित्यत आह ।। स्वयमिति ।। मोहं द्वेष्टि चेति द्रष्टव्यम् । तं चापीत्यनेन मां चेत्युक्तार्थं भवति ।। सुखदुःखादीत्यस्य विष्णुभक्तिपरित्यागे सुखस्यान्यथा दुःखस्य भावेऽपीत्यर्थः । अर्थार्थमित्यादिना समलोष्ठेत्याद्युक्तार्थं भवति । अवैष्णवेत्यनेन सर्वारम्भेत्युक्तार्थं भवति ।। २०२२ ।।
किरणावली
गुणात्ययोपायादिप्रश्नस्येति ।। लक्षणाचारावादिशब्देन गृह्येते । ननु प्रकाशं च प्रवृत्तिं चेत्यत्र गुणातीतस्य सत्त्वादिगुणकार्येषु प्रकाशप्रवृत्तिमोहेषु प्रवृत्तेषु न द्वेषः । निवृत्तेषु न काङ्क्षेति स्पष्टप्रतीतेः लोकस्थितानीत्यादिना प्रमाणेन व्याख्यानं व्यर्थमित्यतो व्याख्यानबीजभूतामन्यथाप्रतीतिं दर्शयति ।। अत्र स्वस्मिन्निति ।। अत्र मोहमेव च पाण्डव । न द्वेष्टीति पाण्डवशब्दसन्निधानात्स्वस्मिंत्सं प्रवृत्तं स्वगतं मोहं न द्वेष्टि । स्वस्मिन्निवृत्तं प्रकाशं ज्ञानं पुनः स्वस्मिन्नकाङ्क्षतीति प्रतीयत इत्यर्थः । समदुःखसुख इत्यादेरन्यथाप्रतीतिप्रकारमाह ।। दुःखादिसाम्यमिति ।। यथादुःखे स्पृहाभावस्तथासुखेऽपि स्पृहाभावः । समदुःखसुखत्वमित्यादिरूपेण स्पृहाभावमात्रम् । न तु गीताचार्याभिमतं दुःखादिभावेऽपि विष्णुभक्तिसाम्यमित्यन्यथाप्रतीतिरिति भावः । सर्वारम्भपरित्यागीत्यस्यान्यथाप्रतीतिप्रकारमाह ।। सर्वारम्भेति ।। सर्वत्रौदासीन्यमिति विष्णुपूजादावप्यौदासीन्यमित्यर्थः । लोकस्थितान्प्रकाशादीन्प्रायो न द्वेष्टि नेच्छतीत्येतद्विभज्य योजयति ।। पुरुषान्तरे स्थितमिति । प्रकाशादीत्यादिपदेना प्रवृत्तिर्गृह्यते । प्रकाशादेरसाधोर्द्वेष्यत्वात्साध्वित्युक्तम् । तत्र पुरुषान्तरस्थितं मोहादिमोह प्रवृत्तिप्रकाशाख्यमसाधु नेच्छति । तत्र साध्वोः प्रवृत्तिप्रकाशयोरिच्छाविषयत्वादसाध्वित्युक्तम् । इदमुक्तं भवति । सत्त्वादयो गुणा द्विविधाः स्थूलाः सूक्ष्माश्च । तत्र स्थूलेभ्यो लोकविषयाः प्रकाशप्रवृत्तिमोहा जायन्ते । सूक्ष्मेभ्यस्तु परमेश्वरविषयाः । तत्र गुणातीतः पुरुषान्तरे स्थितं सूक्ष्मसत्वरजो जन्यम् । प्रकाशादिसाधु प्रायो न द्वेष्टि प्रारब्धकर्मवशात्कदाचित्तद्द्वेषसम्भवात् । पुरुषान्तरे स्थितान् लोकविषयप्रकाश प्रवृत्तिमोहान् स्थूलसत्वादिगुणजन्यानसाधून्सूक्ष्मतमोगुणजन्यमसाधुतरं भगवद्विषयं मोहं च प्रायो नेच्छति । प्रारब्धकर्मवशात्कदाचित्तदिच्छासम्भवादिति । उक्तरूपसाध्वसाधुविवेकश्च प्रमेयदीपे स्पष्टः । एतेन गीतायाः स्वतो निवृत्तानि लोके प्रवृत्तानि प्रकाशं च प्रवृत्तिं च मोहं चेत्येतानि सत्त्वादिगुणकार्याणि । गुणातीत उक्तरीत्या साधून्यसाधूनि च प्रायो न काङ्क्षतीत्यर्थ उक्तो भवति ।। स्वस्य प्राप्तप्रकाशत्वादिति ।। गुणातीतस्य भगवद्विषये सूक्ष्मसत्वरजोगुणजन्य प्रकाशप्रवृत्त्योः प्राप्तत्वात्स्वस्मिन्न काङ्क्षति । प्राप्तज्ञानत्वादेव साधुप्रकाशमोहोज्खितत्वाद्विद्यमान एव द्वेषसम्भवान्निवृत्तानि मोहादीनि न द्वेष्टीत्यर्थः किं न स्यात् । किमिति न व्याख्यायत इत्यर्थः । स्वयं प्रकाशीत्यतः पूर्वं यद्यपीत्युपस्कार्यम् । यद्यपि गुणातीतः स्वस्मिन्सूक्ष्मसत्वगुणजन्यभगवद्विषयप्रकाशवान् सूक्ष्मस्थूलतमो गुणजन्यपरमात्मलोकविषयमोहोज्खश्च तथापि पुनरिच्छति विष्णोः प्रकाशमित्यर्थः । अत्र मोहोज्ख इत्यनुसारेणाध्याहरति ।। मोहमिति ।। पुनर्मोहानुदयायमोहं द्वेष्टि चेत्यर्थः ।। तं चापीत्यनेनेति ।। यद्यपि गीताक्रमेण समदुःखसुख इत्येतद्व्याख्यानानन्तरं मां च यो व्यभिचारेण भक्तियोगे न सेवत इत्येतद्व्याख्येयम् । तथापि समदुःखसुखत्वादावव्यभिचरितभक्तियोगत्वं कारणमिति भावेन पूर्वं तद्व्याख्यानमिति हृदि निधाय समदुःखसुख इत्येतद्व्याख्यानपरं सुखदुःखादिभावेऽपीत्येतद्व्याचष्टे ।। सुखदुःखादीत्यस्येति ।। सुखदुःखादीत्यादिपदेन विष्णुभक्तिपरित्यागे कांचनस्य तदनुष्ठाने दारिद्य्रस्य भावेऽपीत्याद्यर्थः । मूले अर्थार्थमित्यादिकमादिशब्दविवरणपरम् । यद्वा सुखदुःखादीत्यादिपदेन तत्साधनं गृह्यते ।। अर्थार्थमित्यादिनेति ।। विष्णुभक्तिपरित्यागे कांचनादेरर्थस्य दारादेः प्रियस्यायं महानिति स्तुतेः मानस्य मित्रकृतस्नेहस्य च लाभे तदनुष्ठाने अर्थहानेः प्रियनाशस्य निन्दावमानादिकृतभयानां प्राप्तावप्यस्य गुणातीतस्य न विष्णुभक्तिह्रासः । किंतु विष्णुभक्तेः साम्यमेकप्रकारत्वमेवाथ तस्मात्सुखदुःखादिभावेऽपि विष्णुभक्तौ साम्यात्पुनरपि भक्तेरुन्नतिर्भवतीत्यर्थः ।। २०२२ ।।
भावदीपः
गुणात्ययोपायादीति ।। लक्षणाचारावादिपदार्थः ।। साध्विति ।। समीचीनधर्ममित्यर्थः ।। इत्याद्युक्तार्थमिति ।। विष्णुभक्तिम् ऋतौ(ते)लौकिकपुमर्थहानिप्राप्तौ तत्त्यागे पुमर्थप्राप्तावपि विष्णुभक्तिरनुष्ठेयैवेत्यादिरूपेणोक्तार्थमित्यर्थः ।। २२ ।।
भावप्रकाशः
अज्ञानमिति व्याख्यातमिति । अज्ञानं तमसः फलमित्यत्राज्ञानपदं तज्जन्यदुःखस्योपलक्षकमिति व्याख्यातं भवतीत्यर्थः ।। एवं व्याख्यानेनैव रजसस्तु फलं दुःखमित्यस्य केवलदुःखार्थत्वाङ्गीकारे बाधकं च सिद्धमित्याह ।। तेन केवलदुःखस्येति ।। मोहोख्ख इत्यनुसारेणाह । मोहं द्वेष्टि चेतीति ।। २०२२ ।।
वाक्यविवेक
प्रमाणान्तरेणेति । अत्र ग्रन्थनान्मः अनुक्तात्वात्कर्मणो राजसस्योक्तमिति वाक्यवत् लोकस्थितान्प्रकाशादीनिति वाक्यं स्कन्दपुराणेऽस्तीति भ्रान्तिः स्यात् । तन्निरासार्थं प्रमाणान्तरेणेत्युक्तम् । तेनाव्याख्यातत्वात् प्रमाणान्तरेण तद्व्याचष्ट इत्यनुपपन्नमिति दूषणं परिहृतम् ।। सुखदुःखादीत्यस्येति ।। कश्चन विष्णुद्वेषी विष्णुभक्तिपरित्यागे भाग्यं प्रयच्छति ।। अनुष्ठाने दुःखिनं करोति इत्येवं विष्णुभक्तिपरित्यागकरणाभ्यां सुखदुःखयोर्भावेपीत्यर्थः ।। २०२२ ।।