तात्पर्यम्
तात्पर्यम्
न चाविद्यामानविद्यमानयोरुत्पत्तिनाशनिषेधकोऽयं श्लोकः । प्रत्यक्षविरोधात् । सन्निति व्यवह्नियमाणमेव पदार्थस्वरूपमुत्पत्तेः प्राङ् नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति । न च विपर्यये किञ्चिन्मानम् । इदं तु वाक्यमन्यथासिद्धम् ।
प्रकाशिका
न चास्य श्लोकस्य असदुत्पत्त्यभावादिरूपः प्रातीतिकोऽर्थोऽभ्युपगन्तव्यः प्रत्यक्षविरोधादित्याह ।। न चाविद्यमानेति ।। प्रत्यक्षविरोधं स्पष्टयति ।। सन्नित्यादिना ।। नचेदं प्रत्यक्षं भ्रान्तं विपरीतप्रमाणाभावात् । नचोदाहृतश्लोकोऽस्य बाधकः । अन्यथाघटमानत्वेन बाधकत्वायोगात् ।
न्यायदीपिका
असतः प्रागविद्यमानस्य भाव उत्पत्तिर्नविद्यते । सतो विद्यमानस्याभावो नाशो नविद्यत इत्यपव्याख्यां प्रत्याख्याति ।। नचेति ।। गीतानुसारेणाल्पाच्तरमित्याद्यतिक्रमः । किमेकप्रत्यक्षविरोधोथसर्वप्रत्यक्षविरोधः । नाद्यः । भ्रान्तित्वोपपत्तेः । नद्वितीयः। परबुद्धेरसिद्धेरित्यत आह ।। सन्निति ।। स्थितिकाले सत्त्वेन व्यवह्नियमाणमेवपदार्थम् । उत्पत्तेः प्राङ्नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति । तेन सर्वलोकस्याविद्यमान विद्यमानयोरुत्पत्तिनाश व्यवहारेण तन्मूलं प्रत्यक्षमनुमातुं शक्यमिति भावः । ननु व्यवहारान्यथानुपपत्त्या तन्मूलज्ञानमेव सिद्ध्यति । नतु तस्य प्रत्यक्षतानियम इति चेत् तत्किमिदमनुमानादिज्ञानमुत भ्रमः । नाद्योऽनङ्गीकारात् । लिङ्गाद्यभावेपि भावाच्च । द्वितीयं निराचष्टे ।। नचेति ।। भ्रमत्वे बाधकेन भाव्यम् । नच तदत्रास्ति । अतो नायं भ्रम इति परिशेषात्प्रत्यक्षमेव व्यवहारमूलं सिध्यतीति भावः। नासत इत्येतद्वाक्यमेव विपर्यये मानमित्यत आह ।। इदमिति ।। सिद्धं घटितम् ।।
किरणावली
अपव्याख्यामिति ।। भास्करकृतमपव्याख्यानमित्यर्थः । नन्वल्पाच्तरमिति सूत्रानुसारेणाभ्यर्हितं पूर्वमिति न्यायानुसारेण च विद्यमानपदस्याल्पाचतरत्वात् प्रतियोगिवाचकत्वेनाभ्यर्हितत्वाच्च विद्यमानाविद्यमानयोरिति वक्तव्यमित्यत आह ।। गीतानुसारेणेति ।। यद्यप्यजाद्यदन्तमिति सूत्रानुसारेणेत्यपि वक्तुं शक्यम् । तथाप्यल्पाच्तरमिति सूत्रस्य तदुत्तरसूत्रत्वेन प्रबलत्वाद्गीतानुसारेणेत्येवोक्तम् । सन्नितिव्यवह्रियमाणं चेत्कथं तस्य नास्तीति व्यवहारविषयत्वमित्यत आह ।। स्थितिकाल इति ।। तत्किमनुमानादिज्ञानमिति ।। अनुमानमनुमितिरादिशब्देन शाब्दबोधस्तद्रूपं ज्ञानमित्यर्थः । अनङ्गीकारे हेतुमाह ।। लिङ्गाद्यभावेऽपीति ।। खडित्येव परिज्ञानेन लिङ्गाद्यननुसन्धानेऽपि जायमानत्वादित्यर्थः । सिद्धमित्यस्य जातमित्यन्यथाप्रतीतेरुक्तम् ।। सिद्धं घटितमिति ।। सदसत्कर्मपरत्वेनान्यथायोजितमित्यर्थः ।
भावदीपः
ननु विद्यमानाविद्यमानयोरिति वक्तव्यम् । विद्यमानशब्दस्य ‘अल्पाच्तरं पूर्वम्’ इति सूत्रेण, तथा भावस्याभावापेक्षयाऽभ्यर्हितत्वेन ‘अभ्यर्हितं पूर्वम्’ इति सूत्रेण पूर्वनिपातेन भाव्यत्वादित्यत आह ।। गीतानुसारेणेति ।। उत्पत्तिनाशेति ।। अविद्यमानस्योत्पत्तिव्यवहारेण विद्यमानस्य नाशव्यवहारेणेत्यर्थः ।। किमिदमिति ।। कण्ठव्यवहारमूलभूतं किमनुमानागमार्थापत्तिजं ज्ञानमुत भ्रम इत्यर्थः ।। घटितमिति ।। सदसत्कर्मपरत्वेनान्यथा योजितमित्यर्थः ।।
भावप्रकाशः
नन्वल्पाच्तरमिति सूत्रानुसारेणाभावज्ञानस्य प्रतियोगिज्ञानाधीनत्वेन प्रतियोगिनोऽभ्यर्हितत्वेन च विद्यमानाविद्यमानयोरिति वक्तव्यम् । अविद्यमानविद्यमानयोरिति तु कथमुक्तमित्यत आह गीतानुसारेणाल्पाच्तरमित्याद्यतिक्रम इति । यद्यप्यत्राजाद्यदंदेतमिति सूत्रानुसारेणेति वक्तुं शक्यं तथापि अल्पाच्तरमिति प्रबलसूत्रपरित्यागेन दुर्बलसूत्रानुसरणमनुचितमित्यतो गीतानुसरणेत्युक्तमिति द्रष्टव्यम् ।। उत्पत्तेः प्राङ्नाशोत्तरं च सन्निति व्यवह्रीयमाणमित्यन्वयभ्रमनिरासाय व्याचष्टे । स्थितिकाले सत्वेनेति । व्यवहारानुपपत्तेरन्यथोपपत्तिं शङ्कते नन्विति । तत्किमनुमानादिज्ञानमितीति । तत् व्यवहारकारणं ज्ञानं किमनुमानागमजमुत भ्रम इत्यर्थः । अनङ्गीकारादिति । सत्कार्यवादिना परेणासदुत्पत्तिसद्विनाशविषयक ज्ञानस्यानुमानागम जन्यत्वानङ्गीकारादित्यर्थः । वैय्यात्यादनङ्गीकुर्वाणं प्रत्याह । लिङ्गाद्यभावेऽपीति ।। इति परिशेषादिति ।। इति, विमतं व्यवहारमूलं ज्ञानं प्रत्यक्षजन्यं प्रत्यक्षान्याजन्यत्वे सति जन्यत्वात् । संप्रतिपन्नवत् । विमतं प्रत्यक्षान्यानुमानागमदुष्टेन्द्रियाजन्यं अनुमानागमाननुसन्धानेऽपि जायमानाबाधितज्ञानत्वात् । संप्रतिपन्न वदिति परिशेषानुमानादित्यर्थः ।। सिद्धिरुत्पत्तिर्ज्ञप्तिर्वा प्रकृते न सम्भवति अतो व्याचष्टे । सिद्धं घटितमिति । अर्थान्तरघटनोपेतमित्यर्थः ।।
वाक्यविवेकः
नन्वल्पाच्तरं पूर्वमित्युक्तत्वात् अभ्यर्हितं पूर्वमित्युक्तत्वाच्च विद्यमानशब्दस्याल्पाच्तरत्वात् भाववाचित्वेनाभ्यर्हितत्वाच्च पूर्वनिपातेन भाव्यं तत्कुतो वचनद्वयातिक्रम इत्यत आह । गीतानुसारेणेति । अनङ्गीकारादिति । असदुत्पत्तिसद्विनाशविषयकज्ञानयोरनुमानागमज्यन्यत्वाङ्गीकारे असदुत्पतिसद्विनाशयोर्निराकरणायोगात् । असदुत्पत्तिविनाशविषयज्ञानयोः अनुमानागमजन्यत्वं नाङ्गीकृतमिति भावः ।। घटितमिति । योजितमित्यर्थः ।