तात्पर्यम्

तात्पर्यम्

एकपिण्डनामधेयेति शब्दानां वैयर्थ्यं चान्यथा । न चैकविज्ञानेन सर्वविज्ञानं तत्पक्षे । न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः । नवकृत्वोऽपि भेद एव दृष्टान्तोक्तेश्च । तस्मादतत्त्वमसीत्येवोच्यते । ऐतदात्म्यमित्येतदात्मसम्बन्धि । तत्स्वामिकम् । त्वमपि तदैतदात्म्यमेवासि न सोऽसीति वा । तदिति लिङ्गसाम्यं चात्र ।

प्रकाशिका

एकपिण्डेत्यादेरयमर्थः ।। येनाश्रुतमित्यादेरुक्तमर्थमनङ्गीकृत्य मृद्विज्ञानेन मृण्मयविज्ञानवत् ब्रह्मज्ञानेन जगद्ज्ञानमित्यर्थाङ्गीकारे एकेन मृत्पिण्डेनेत्यत्र एकशब्दमृत्पिण्डशब्दौ व्यर्थौ स्याताम् । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमि’त्यत्र कारणमात्र सत्यत्वं विवक्षितं चेत् ‘वाचारम्भणं विकारो मृत्तिकैव सत्ये’त्येव वाक्यं स्यात् । नामधेय इति शब्दयोर्वैय्यर्थ्यं स्यात् ।। नामधेयस्यापि विकारत्वेन पृथङ्निर्देशासम्भवात् । नामरूपात्मकप्रपञ्चमिथ्यात्वे ब्रह्मतत्त्वज्ञानेन सर्वज्ञानं च न स्यात् ।।

न्यायदीपिका

बाधकान्तरं चाह ।। एकेति ।। यथैकमृत्पिण्डविज्ञानेन सर्वं मृण्मयं विज्ञातं स्यात् । यतो नामरूपात्मकं मृण्मयं वागालंबनमात्रं नतु पारमार्थिकं मृत्तिकैव सत्या । तथा परमात्मज्ञाने सति जगज्ज्ञानं भवति ततोऽतिरेकेणाभावादित्यन्यथाव्याख्यानं न युज्यते । मृदा ज्ञातया सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो मृत्तिकैव सत्येत्येतावता पूर्णत्वेन एकादिशब्दानां वैयर्थ्यात् । सर्वमृण्मयानामेकमृत्पिण्डातिरेकेणाभावाभावात् । नामधेयस्यापि विकारत्वादिति भावः ।

किञ्च वाचारम्भणवाक्ये यदीशेशितव्यादिप्रपंचस्य परमात्मन्यारोपिततया ततोतिरेकेणाभावो विवक्षितस्तर्हि प्रतिज्ञातं परमात्मज्ञानेन जगज्ज्ञानं नस्यात् । सत्यज्ञानेन मिथ्याज्ञानस्यानुपपत्तेः । विरोधात्तयोर्ज्ञानयोरित्याह ।। नचेति ।। ननु परमात्मज्ञानेन जगन्मिथ्येति ज्ञायत एवातः कथमुच्यते ब्रह्मण्यारोपितत्वे जगतःतज्ज्ञानेन जगज्ज्ञानानुपपत्तिरित्यत आह ।। नहीति ।। एवं चेत्परमात्मज्ञानेन प्रपञ्चाभावज्ञानं भवतीति वक्तव्यम् । न तु प्रपञ्चज्ञानं ब्रह्मज्ञानेन भवतीति । तथा लोके व्यवहाराभावादिति भावः । इतोपि नात्र प्रपञ्चस्य परमात्मातिरेकेणाभावो विवक्षित इत्याह ।। नवकृत्व इति ।। किमतो यद्येवं वाचारम्भणश्रुतिर्भेदपक्षे युक्तेत्यत आह ।। तस्मादिति ।। तस्मात्पूर्ववाक्यानां भेदपरत्वादित्यर्थः ।

अतत्वमसीति भेदपरतया योजनायामैतदात्म्यमिदं सर्वमिति पूर्ववाक्य विरोधः स्यादित्यतस्तस्य श्रुत्योक्तमर्थं स्मारयति ।। ऐतदात्म्यमिति ।। अस्त्वेवमात्मसम्बन्धीति योजना । सम्बन्धश्च तादात्म्यमित्यतः स्वस्वामिभावसम्बन्ध एवेति भावेनाह ।। तदिति ।। तत्वमसीति पदविभाग मभ्युपेत्यापि पूर्वोत्तरवाक्यानां भेदपरत्वाद्भेदपरतया श्रुतिसिद्धमर्थान्तरं चाह ।। त्वमपीति ।। न सोऽसीति व्यावृत्तिकथनमात्रम् । इतोप्यैतदात्म्यपरामर्शोयमित्याह ।। तदिति ।। ऐतदात्म्यपरामर्शे तदिति पदस्यैकलिङ्गत्वं गुणः स्यात् । ततश्चैतदात्म्यपरामर्शोऽयमित्यर्थः । प्राचीनपक्षेपितस्मादन्यदतदिति न लिंगवैषम्यम् ।

किरणावली

मूले वैयर्थ्यं चान्यथेत्युक्तमपव्याख्यानं दर्शयति ।। यथेत्यादिना ।। विकार इत्यस्यार्थमाह ।। नामरूपात्मकं मृण्मयमिति ।। नामधेयमित्यस्य प्रतिपदं नामेति । घटशरावादिनामात्मकं जगत् । विकार इत्यस्यार्थो रूपात्मकमिति । विशेषमाह ।। मृण्मयमिति ।। वैयर्थ्यादिति ।। विगतप्रयोजनत्वादित्यर्थः । तदुपपादयति ।। सर्वेति ।। कथंनामधेयपदस्य वैयर्थ्यमित्यत आह ।। नामधेयस्येति ।। ईशेशितव्यादिप्रपञ्चस्येति ।। ईशःसगुणः ईशितव्यं जीवेश्वराभ्यां जडम् । आदिपदेन जीवः । तद्रूपप्रपञ्चस्येत्यर्थः ।। सत्यज्ञानेन मिथ्याज्ञानस्येति ।। तदारोपितमिथ्याज्ञानस्येत्यर्थः ।। परमात्मज्ञानेनेति ।। परमात्मनोऽधिष्ठानस्य याथात्म्य ज्ञानेनेत्यर्थः ।। श्रुत्योक्तमर्थमिति ।। तदीयमखिलं जगदिति श्रुत्योक्तमित्यर्थः ।। श्रुतिसिद्धमिति ।। तस्मात्तदीयस्त्वमसीति श्रुतिसिद्धमित्यर्थः ।। व्यावृत्तिकथनमात्रमिति ।। ऐतदात्म्यमेवेत्येवशब्दव्यावृत्तिकथनमात्रं नत्वतत्वमसीति पदं विभज्यार्थान्तरकथनपरं तथात्वे तस्मादतत्वमसीत्येवोच्यत इत्यनेन पौनरुक्तयापत्तेरिति भावः । नन्वकारप्रश्लेषपक्षे त्वमसीति वक्तव्यं कथमतत्वमसीतिलिङ्गव्यत्यय इत्यत आह ।। प्राचीनपक्षेपीति ।। तस्मादन्यदित्यनन्तरं वस्त्विति पूरणीयम् । तेनोद्देश्यविधेयभावेन नपुंसकत्वोपपत्तिरिति भावः ।।

भावप्रकाशः

एकपिण्डादिशब्दानां वैय्यर्थ्यं दर्शयितुमन्यथाव्याख्यानं दर्शयति ।। यथैकमृत्पिण्डेति । नामधेयस्यापि विकारित्वादिति ।। यथा च वाचारम्भणं विकार इत्यनेन चरितार्थत्वात् विकार इति वैय्यर्थ्यं स्यादिति भावः ।। ईशितव्यादीति ।। अत्रेशितव्यपदेन जडं ग्रहीत्वाऽदि पदेन जीवो ग्राह्यः ।। तर्हि प्रतिज्ञातमिति ।। येनाश्रुतमित्यनेनेत्यर्थः ।। श्रुत्योक्तमर्थमिति ।। तदीयमखिलं जगदिति श्रुत्योक्तमित्यर्थः ।। श्रुतिसिद्धमिति ।। तस्मात्त्वदीयस्त्वमपीति श्रुतिसिद्धमित्यर्थः ।। नैव सोऽसि कथञ्चनेत्यस्य यथाऽतत्वमसीति पदविछेदेन श्रुत्यर्थकथनरूपत्वं तथा न सोऽसीत्यस्य श्रुत्यर्थकथनरूपत्वे तस्मादतत्वमसीत्येवोच्यत इत्यनेन पौनरुक्तयं स्यादतः प्रकारान्तरेण व्याचष्टे ।।

न सोऽसीति व्यावृत्तिकथनमात्रमिति ।। प्राचीनपक्षेऽपीति ।। अतत्वमसीति पदविच्छेदपक्षेऽपीत्यर्थः ।। अत्र तस्मादन्यदित्यनन्तरं वस्त्विति शेषः पूरणीयः । तेन नपुंसकलिङ्गत्वोपपत्तिः इति द्रष्टव्यम् ।।

वाक्यविवेकः

नामधेयस्यापीति ।। विकारशब्देन रूपधेयवत् नामधेयास्यापि लाभात् नामधेयशब्दो व्यर्थ इति भावः । सत्यज्ञानेनेति । अधिष्टानयाथात्म्यज्ञानेनारोपानुपपत्तेरित्यर्थः । ननु परमात्मज्ञानेनेति । जगन्मिथ्येति हेतोः परमात्मज्ञाने सति जगत् जायत एव । अधिष्टानज्ञानस्यारोपहेतुत्त्वात् इत्यर्थः ।। एवं चेदिति । ब्रह्मणि जगतोऽध्यासश्चेत् ब्रह्मज्ञानेन प्रपञ्चाभावज्ञानं भवतीति वक्तव्यम् । अधिष्टानयथात्म्यज्ञानस्य भ्रमविरोधित्वात् । इह च ब्रह्मत्वकारकविशेषज्ञानस्य विवक्षितत्वात् एतेन विज्ञातेन सर्वं ज्ञातं स्थात् इति विशब्दप्रयोगादिति भावः । किमतो यद्येवमिति । वाचारम्भणश्रुतिः एवं उक्तप्रकारेण भेदपक्षे एव युक्ता अतः किमित्यत आहेत्यर्थः । स्मारयतीति । वाक्येन वाक्यर्थानुभावे जाते पूर्वानुभूतस्वार्थस्मृतिर्भवतीति भावः । एतेन वाक्यस्यानुभावकत्वात् स्मारकत्वोक्तिरनुपपन्नेति परास्तम् ।। व्यावृत्तिकथनमात्रमिति । एतदात्म्यमेवेत्यवधारणलब्धव्यावृत्तिकथनमात्रमित्यर्थः । एकलिङ्गत्वं गुण इति । नपुंसकशब्देन प्रकृतस्य नपुंसकशब्देन परामर्शो गुणः स्यादित्यर्थः । नन्वतत्वमसीति प्राचीनपक्षे अतदित्यत्र न तदतदिति विग्रहः कार्यः । तथा च नपुंसकतच्छब्देन प्रागुक्तात्मपरामर्शः कार्यः । ततश्च पुल्लिङ्गेन प्रकृतस्यात्मनः नपुंसकतच्छब्देन परामर्शः स्यादित्यत आह । तस्मादन्यदिति । तस्मादित्यस्य पुल्लिङ्गत्वसम्भवान्न लिङ्गवैषम्यमिति भावः । मूले अविद्यमानमेवेश्वरशब्देन परमात्मोच्यत इति ज्ञेयम् ।