गीता

वैदिकावैदिकसाङ्ख्यानि

गीता

पञ्चैतानि महाबाहो कारणानि निबोध मे ।

सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ।। १३ ।।

तात्पर्यम्

कथितं परमं साङ्ख्यं कपिलाख्येन विष्णुना ।

सेश्वरं वैदिकं साक्षाज्ज्ञेयमन्यदवैदिकम्’ इति च ।। १३ ।।

प्रकाशिका

‘‘साङ्ख्ये कृतान्ते प्रोक्तानी’’त्यत्रोक्तं साङ्ख्यं दर्शयति ।। कथितमिति ।। १३ ।।

न्यायदीपिका

कर्मण्यभिमानत्यागोऽपि संन्यास इति भावेन कर्मकारणान्युच्यन्ते ।। पञ्चेति ।। तत्र साङ्ख्यकृतान्तपदेन परमसांख्यसिद्धान्त एवोच्यते । न तु प्रसिद्धसाङ्ख्यमेव । अत्र दैवशब्देनेश्वरस्य गृहीतत्वात्परमसाङ्ख्यस्य च सेश्वरत्वात्प्रसिद्धसाङ्ख्यस्य निरीश्वरत्वात्तथा परमसाङ्ख्यस्य वैदिकत्वेनात्रोपादानसम्भवादन्यस्यावैदिकत्वेन तदसम्भवादिति भावेन तयोः सेश्वरत्वादौ प्रमाणमाह ।। कथितमिति ।। १३ ।।

किरणावली

कर्मण्यभिमानत्यागोऽपीति ।। न केवलं कर्मन्यासः संन्यासः किंतु स्वातन्त्र्येण कर्तृत्वाभिमानत्यागोऽपीत्यर्थः ।। कर्मकारणानीति ।। जीवस्य स्वातन्त्र्येणाकर्तृत्वे तादृशकर्तुरन्यस्याभावात् । क्रियानिष्पत्त्याद्यभावप्रसङ्गः । जीवकर्तृत्वस्य प्रत्यक्षादिसिद्धत्वात्तद्विरोधश्चेत्यतः स्वतन्त्रास्वतन्त्रकर्मकारणान्युच्यन्त इत्यर्थः ।। अत्र दैवशब्देनेति ।। अत्र गीतायामित्यर्थः । न च भाष्यविरोधः । तत्र कर्तृशब्देनेश्वरस्य दैवशब्देनादृष्टस्य ग्रहणेऽप्यत्र कर्तृपदेन जीवं गृहीत्वा दैवशब्देनेश्वरस्य गृहीतत्वात् । अविरोधसम्भवात् । न च जीवस्यात्र कर्तृशब्देन ग्रहणे आत्मव्यतिरिक्तान्येव कर्मकारणान्यनेनोच्यन्त इति प्रमेयदीपेवतारिकाप्रदानम् । कर्ता विष्णुः सहि सर्वकर्तेत्युक्तम् । जीवस्याकर्तृत्वे प्रमाणमुक्तमिति भाष्यवाक्यं च विरुध्यत इति वाच्यम् । अपराधीनकर्तृत्वाभिप्रायेणेदं निराकरणं पराधीनकर्तृत्वमङ्गीकृत्यान्यत्र जीवो व्याख्यात इत्यविरोध इति प्रमेयदीपिकायामेव विरोधस्यापाकृतत्वात्

।। १३ ।।

भावदीपः

कर्मण्यभिमानत्यागोऽपीति ।। न केवलं काम्यकर्मन्यासमात्रं संन्यास इत्यपिशब्दार्थः ।। १३ ।।

भावप्रकाशः

कर्मण्यभिमानत्यागोऽपि संन्यास इति भावेनेति ।। न केवलं काम्यानां कर्मणां न्यासः संन्यासः किंतु कर्त्तृत्वाभिमानत्यागश्चेत्यभिप्रेत्यात्मनो कर्त्तृत्वे क्रियानिष्पत्तिप्रसङ्गादङ्गीकार्ये कर्त्तृत्वे कथं तदभिमानत्यागो युक्त इत्याशङ्कापरिहारार्थमात्मव्यतिरिक्तान्येव कर्मकरणान्युच्यन्त इत्यर्थः ।। अत्र दैवशब्देनेश्वरस्येति । दैवपदोदितेश्वरस्यैव मुख्यकर्त्तृत्वादिति वक्ष्यमाणत्वादिति भावः ।। ननु कर्त्ता विष्णुरिति भाष्ये कर्त्तृशब्देनेश्वरग्रहणादत्र दैवशब्देनापीश्वरग्रहणे पुनरुक्तिः स्यादिति चेत् । न भाष्ये कर्त्तृशब्देनेश्वरग्रहणेप्यत्र कर्त्तृशब्देन जीवस्यैव ग्रहणेन पुनरुक्तयभावात् । नचैवंसति जीवस्य कर्त्तृशब्दार्थत्वनिराकरणपरेण जीवस्याकर्त्तृत्वे प्रमाणमुक्तमिति भाष्येण विरोध इति वाच्यम् । तत्रापराधीनकर्त्तृत्वाभिप्रायेण निराकरणेप्यत्र पराधीनकर्त्तृत्वमङ्गीकृत्य जीवपरत्वेन व्याख्यानेन विरोधाभावात् । यथोक्तं भाष्यटीकायाम् ।। अपराधीनत्वाभिप्रायेणेदं निराकरणम् । पराधीनकर्त्तृत्वमङ्गीकृत्य जीवोन्यत्र व्याख्यात इत्यविरोध इति ।। १३ ।।