गीता
गीता
न जायते म्रियते वा कदाचि
न्ना(ऽ)यं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ।। २० ।।
तात्पर्यम्
जीवेश्वरयोर्नित्यत्वे मन्त्रवर्णोऽप्यस्तीत्याह । न जायते म्रियत इति । अयं ना परमपुरुषो भूत्वा विद्यमान एव देहसम्बन्धरूपेणापि भविता न । मरणं तु देहवियोग इति प्रसिद्धमेव । न हि घटादीनां मरणव्यवहारः । स्वरूपानाशः कैमुत्येनैव सिद्धः ।
जीवस्य स्वरूपं अस्वातन्त्रादिकं च नित्यम्
अयं जीवोऽप्यजो नित्यश्च । अन्यथा पुनरुक्तेः । शाश्वतश्च । न कदाचिदस्वा तन्त्र्यादिकं जीवस्वरूपं जहाति ।
‘अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता ।
उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।
स्वाभाविकं तयोरेतन्नान्यथा स्यात्कथञ्चन ।
वदन्ति शाश्वतावेतावत एव महाजना’ इति महाविष्णुपुराणे ।
पुराण्यणति गच्छतीति पुराणः ।। २० ।।
प्रकाशिका
जीवेशयोर्नित्यत्वाभावेन जायत इति मन्त्रवर्णविरोधः स्यादित्याह ।। जीवेश्वरयोरिति ।। तस्यायमर्थः ।। अयं ना परमपुरुषः स्वरूपेण न जायते । भूत्वा भविता वा नेति स्वरूपेण विद्यमानो देहरूपेणापि न जायते इत्येतदुच्यते ।। न म्रियत इत्यनेन देहेन न वियुज्यते इत्येतदेवोच्यते । मरणशब्दस्य देहवियोग एव प्रसिद्धिः ।। न तु नाशमात्रे घटादिनाशे मरणशब्दप्रयोगाभावात् यस्य देहवियोगोऽपि नास्ति स नित्य इति किमु वक्तव्यमिति पुरुषस्य स्वरूपानाशः कैमुत्यन्यायेन सिध्यति ।। ‘अजो नित्य’ इत्युत्तरार्धो जीवविषयः ।। पूर्वार्धस्यापि जीवविषयत्वे (न)न जायते न म्रियते इत्यनेन पुनरुक्तिः स्यात् ।। वेदाविनाशिनं नित्यमित्येतदीश्वरविषयम् ।। २० ।।
न्यायदीपिका
ननु जीवनित्यत्वादेः पूर्वमेवोक्तत्वात्किमुत्तरश्लोकेनेत्यत आह ।। जीवेति ।। नेदं भगवद्वाक्यम् । येन पुनरुक्तिः स्यात् । किंतु यदुक्तं स्वयं जीवेश्वरयोरुत्पत्तिविनाशराहित्यमीश्वरस्य शरीरतोप्युत्पत्त्याद्यभावेन स्वातन्त्र्यं जीवस्य स्वरूपतो जन्मादिशून्यस्यापि देहोत्पत्त्यादिनाऽस्वातन्त्र्यं तत्र प्रमाणत्वेन मन्त्रवर्णोय मुदाह्रियत इति भावः ।
अत्रेश्वरप्रतिपादनाप्रतीतेः कथमेतदित्यतो नायं भूत्वेत्यत्र देहतोप्युत्पत्तिराहित्यश्रवणात्तस्य चेश्वरलिङ्गत्वात्पूर्वार्धस्तत्प्रतिपादक इति भावेनाह ।। अयमिति ।। एतेन वाशब्दादेव पूर्वत्र नञोऽनुकर्षसम्भवत्किं तदन्तरेणेति परास्तम् । अपि चात्र नम्रियत इति देहवियोगाभावश्च श्रूयते । मरणशब्दस्य देहवियोग एव प्रसिद्धत्वाद्देहवियोगाभावस्य चेश्वरलिङ्गत्वात्तत्प्रतिपादकः पूर्वार्ध इति भावेनाह ।। मरणमिति ।। देहवियोग इव स्वरूप नाशेपि मरणशब्दस्य प्रसिद्धत्वात्सोऽर्थः किं न स्यादित्यतः स्वरूपनाशे मरणशब्दस्य प्रसिद्धिरेवनास्तीत्याह ।। नहीति ।। यदि मरणशब्दस्य न स्वरूपनाशोर्थस्तर्हि ईश्वरस्वरूपानाशे नायं मन्त्रः प्रमाणं स्यात् । तदभिधायकशब्दान्तराभावात् । तथा च मरणशब्दस्य स्वरूपनाशेर्थे ग्राह्ये नैतद्बलात्पूर्वार्धस्येश्वरपरत्वसिद्धिरित्यत आह ।। स्वरूपेति ।। नात्रेश्वरस्य स्वरूपानाशो वक्तव्यः । येनैतत्पदस्य तत्परत्वं कल्प्यते । यस्य देहनाशोपि नास्ति तस्य स्वरूपानाशः किमु वाच्य इति कैमुत्येनैव सिद्धेरित्यर्थः ।
अत्र जीवस्योत्पत्त्याद्यभावादिकथनं न श्रूयत इत्युत्तरार्धस्तद्विषय इति भावेनाह ।। अयमिति ।। अत्रापीश्वर एव प्रतिपाद्यः किं नस्यादित्यत आह ।। अन्यथेति ।। नजायते अज इति पौनरुक्तयम् । ननु पुनरुक्तिभयेन पूर्वोत्तरार्धयोर्विषयभेदकल्पने शाश्वतोप्यन्य एव प्रसज्यते । नित्यपदेन पुनरुक्तेरित्यत आह ।। शाश्वतश्चेति ।। अयं जीव एवेति सम्बध्यते । तर्हिपुनरुक्तिरित्यत आह ।। नेति ।। न शाश्वतपदेन नित्यत्वमुच्यते । येन पुनरुक्तिः स्यात् । अपि तु जीवोप्यजो नित्यश्चेत्तर्हि ईश्वरवत्स्वातन्त्र्यादिमानपि स्यात् । तथा च न तत्पूजा कार्येति शङ्कानिरासाय तस्यास्वातन्त्र्याद्यहानमेवोच्यत इति भावः ।
जीवस्यास्वातन्त्र्यादिकं स्वरूपं तच्च न जहाति तेन च शाश्वत इत्युच्यत इत्येतत्कुत इत्यत आह ।। अल्पेति ।। तथापि पुराण इति पुनरुक्तिरित्यत आह ।। पुराणेति ।। नानेन पुराणपदेनानादित्वमुच्यते । येन पौनरुक्त्यं स्यात् किं तु जीवस्येश्वरवदजत्वादिसद्भावेपि कुतो न स्वातन्त्र्यादीत्यतो देहोत्पत्त्यादिभावेन तद्वदजत्वाद्यभाव एवोच्यत इति भावः ।। २० ।।
किरणावली
यदुक्तं स्वयमिति ।। नत्वेवाहमित्यत्र यदुक्तं स्वयं कृष्णेनेत्यर्थः । यद्वास्वयं स्वरूपतदुत्पत्तिविनाशराहित्यमित्यन्वयः ।। ईश्वरस्येति ।। अविनाशित्वित्यत्रेति भावः ।। देहोत्पत्त्यादिनेति ।। अन्तवन्त इमे देहा इत्यत्रेति भावः ।। एतेनेति ।। परमपुरुष इति व्याख्यानेन म्रियते वेति वा शब्दादेव पूर्वत्र न जायत इति पूर्वं विद्यमानस्य नञोऽनुकर्षसम्भवात् नायमिति किं तदन्तरेण नञन्तरेणेति दूषणं परास्तम् । नेत्यस्य नृशब्दत्वाङ्गीकारादिति भावः ।। अपिचेति ।। मूले मरणं त्विति तु शब्दश्च शब्दार्थः तेन दूषणान्तरमिति द्योत्यत इति भावः । मूले सिद्धमित्यस्य मरणं देहवियोग एवेति सिद्धं प्रसिद्धमित्यर्थमभिप्रेत्योक्तम् ।। मरणशब्दस्येति ।। कैमुत्येनैव सिद्धेरिति ।। तर्हि स्वरूपोत्पत्त्यभावोपि कैमुत्यप्राप्त इति न जायत इत्यपि न वक्तव्यमिति चेन्न । साक्षादुक्तयभावे अवश्यवक्तव्यत्वे च न्यायानुसरणात् ।। न जायते अज इति पौनरुक्तयमिति ।।
ननु नम्रियतेनित्य इत्यनयोरपि पौनरुक्तयं कस्मान्नोक्तमिति चेन्न । न म्रियत इति देहवियोगा भावस्य नित्य इत्यनेन स्वरूपनाशाभावस्योक्तत्वान्न पौनरुक्तयमिति वक्तुं शक्यत्वादिति भावः । शाश्वतश्चेत्यत्र च अवधारणे अयमित्यनेन सम्बध्यत इति भावेनाह ।। अयं जीव एवेति ।। तथा च जीव एव शाश्वतो नान्य इत्यर्थ इति द्रष्टव्यम् ।। जीवस्यास्वातन्त्र्यादिकमिति ।। जीवस्यास्वातन्त्र्यादिकं रूप्यतेऽनेन स्वेतरसमस्तव्यावृत्ततया निरूप्यत इति रूपं लक्षणमित्येतत्कुतः प्रमाणात् तन्न जहातीति च कुतः तेन तदप्रहाणेन शाश्वत इत्येतच्च कुत इति योज्यम् । मूले अल्पशक्तिरित्यारभ्य जीवत्वमित्यन्तेनाल्पशक्तयादिकं जीवत्वं जीवपदप्रवृत्तिनिमित्तं जीवलक्षणमिति प्रमापितं भवति । स्वाभाविकमित्यादिना स्वाभाविकत्वात्कदाचनापगतं न स्यादित्यनेन न जहातीति प्रमापितम् । अतः शाश्वतौ वदन्तीत्यनेन तेन च शाश्वत इत्येतत्प्रमापितं भवति ।। पुराण इति पुनरुक्तिरिति ।। पुराणोऽनादिरित्यर्थः । तच्चाज इत्यनेन पुनरुक्तमिति भावः । न हन्यते हन्यमानेपि देह इति चतुर्थ चरणं तु पुराण्यणति चेद्देहनाशे स्वरूपनाशः स्यात् । गेहनाशे तदन्तर्गतनाशदर्शनात् । तथाच नित्य इत्ययुक्तमिति शङ्कापरिहारकमिति भावः ।। २० ।।
भावदीपः
एतेनेति ।। ‘ना परमपुरुषः’ इति व्याख्यानेनेत्यर्थः ।। अस्मिन् पक्षे नरान्तरभावादिति भावः ।। २० ।।
भावप्रकाशः
यदुक्तं स्वयमिति ।। स्वेन कृष्णेनेत्यर्थः ।। उत्पत्तिविनाशराहित्यमिति ।। नत्वेवाहं जातुनासमित्यनेनेत्यर्थः ।। स्वातन्त्र्यमिति ।। अविनाशित्वित्यनेनेत्यर्थः ।। अस्वातन्त्र्यमिति ।। अन्तवन्त इत्यनेनेत्यर्थः । ननु म्रियते वेत्यत्र वाशब्देन नजायते इत्यतो नञोऽनुवृत्तिसंभवात् नायं भूत्वेति नञंतरं व्यर्थमित्यत आह । एतेनेति । नायमत्रनेत्यस्य नृशब्दरूपत्वाङ्गीकारेणेत्यर्थः ।। नचैवं सति न भूय इत्यत्रापि नञो वैय्यर्थ्यं स्यात् । वाशब्देन प्राक्तनस्यैव नञोऽनुवृत्तिसम्भवादिति वाच्यम् ।। तत्र व्यवहितत्वेनानुवृत्तेस्संभवादिति भावः ।। अपि चेति ।। मूले तुशब्दश्चशब्दसमानार्थकः सन् दूषणान्तरप्रतिज्ञार्थ इति भावः । मूले सिद्धमेवेत्येव शब्देन देहवियोग इत्यनेन सम्बन्ध्यत इति भावेनाह । देहवियोग एवेति । न जायतेऽज इति पौनरुक्तयमिति । ननु म्रियते नित्य इत्यनयोरपि पौनरुक्तयं कस्मान्नोक्तमिति चेन्न ।। न म्रियत इत्यत्र देहवियोगाभावस्योक्तत्वेन नित्य इत्यत्र स्वरूपनाशाभावस्योक्तत्वेन भिन्नविषयत्वात् । न च न म्रियत इत्यनेन स्वरूपानाशस्याप्यर्थादुक्तत्वेन नित्य इत्यस्य पुनरुक्तिः स्यादिति वाच्यम् । यश्चार्थादर्थो न स चोदनार्थ इत्युक्तत्वेनार्थात्सिद्धस्य पदार्थत्वाभावेन पुनरुक्तयभावादिति भावः ।
अयं जीव एवेति सम्बध्यत इति । अयं जीवोऽपीति पूर्ववाक्यादवधारणार्थकापिशब्देन सहायं जीव इत्येतदत्र संबध्यते इत्यर्थः । स्वातन्त्र्यादिकमानित्यादिशब्देन पूर्णशक्तित्वादिक ग्रहणम् । पुराण इति । पुनरुक्तिरिति । अज इत्यनेनेत्यर्थः ।। २० ।।
वाक्यविवेकः
पूर्वत्र नञोऽनुकर्षेति ।। पूवत्र श्रुतस्य नञः अनुवृत्या सम्बन्धसम्भवादित्यर्थः । भ्रान्तः शङ्कते । देहवियोग इवेति । पुराण इति पुनरुक्तिरिति । अज इत्यनेन पुराण इत्युक्तिः पुनरुक्तिरित्यर्थः ।। २० ।।