तात्पर्यम्

तात्पर्यम्

‘यस्याऽत्मा शरीरम्’ इत्यादिश्रुतेश्चेतनस्यापि ‘इदं शरीरं कौन्तेय’ इति शरीरत्वोक्तिर्युज्यते ।

सत्त्वं जीवः क्वचित् प्रोक्तः क्वचित् सत्त्वं जनार्दनः ।

सत्त्वं नाम गुणः क्वापि क्वचित् साधुत्वमुच्यते’ इति शब्दनिर्णये ।

तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्’ इति च पैङ्गिश्रुतिः । ‘जनी प्रादुर्भावे’ इति धातोर्जीवस्यापि शरीरे व्यक्तयपेक्षया जनिर्युज्यते ।। २७ ।।

न्यायदीपिका

क्षिणोति नाशयति ।। क्षितिं कृत्वा त्राति स्वनिवासनिमित्तेन रक्षति ।। क्षीणं अधमम् ।। विशेषविकृतिस्थिता इति ।। महदादिभ्योऽतिशयेन विकारितयाऽवस्थिता इत्यर्थः। घटादावप्येतदेवविकारशब्दप्रवृत्तिनिमित्तमित्याह ।। विशेषादिति ।। विगतमित्यादेः अत्रान्तिमकार्ये नाशं विना कार्यान्तरोत्पादकत्वं नास्तीत्यर्थः । अभिमानिनामपीच्छादिशब्दवाच्यत्वात्कथं विकारत्वमित्यत आह ।। तदिति ।। सम्बन्धो नियम्यनियामकभावः ।

यदुक्तं चेतनाचेतनं सर्वं क्षेत्रमिति तदयुक्तम् । चेतनस्येदंशरीरमित्युक्तशरीरत्वानुपपत्तेः । हिंसाहेतुरित्यादिनिर्वचनस्य तत्रासम्भवादित्यत आह ।। यस्येति ।। चेतनस्य क्षेत्रत्वेऽपि न तस्योक्तशरीरत्वासम्भवः । यस्यात्मा शरीरमित्युक्तत्वात् । उक्तनिरुक्तयसम्भवेऽपि भगवत्तंत्रत्वेन शरीरत्वोपपत्तेरिति भावः । यावत्संजायते किञ्चित्सत्त्वमित्यत्र सत्त्वशब्दो जीववाचीति मम योनिरिति वाक्यस्योदाहरणेनैव सूचितम् । तत्र सत्त्वशब्दस्य जीववाचित्वे प्रमाणमाह ।। सत्त्वमिति ।। तयोरन्य इति यदुच्यते सजीव इति वक्तव्ये सत्त्वमिति श्रुत्योच्यते । सत्त्वशब्देन जीवग्रहणे तस्यानादित्वात्संजायत इत्युक्तजननं न युज्यत इत्यत आह ।। जनीप्रादुर्भाव इति ।।२७।।

किरणावली

‘‘एतत्क्षेत्रं समासेन सविकारमुदाहृत’’मित्यत्र सविकारमिच्छादिविकारसहितमेतन्महाभूतादिकं क्षेत्रमुदाहृतमित्यस्य व्याख्यानं चेतनाचेतनमित्यादि । क्षेत्रशब्दनिर्वचनाय क्षितिरित्यादि । क्षितिर्निवासभूमिः । प्रकारान्तरेण क्षेत्रशब्दनिर्वचनं क्षिणोतीत्यादि । तद्व्याचष्टे ।। क्षिणोति नाशयतीति ।। प्रकारान्तरेण व्याख्यानं क्षितिं कृत्वेति । त्राणे हेतुतयोक्तमिति भावेनाह ।। क्षितिं कृत्वात्रातिस्वनिवासनिमित्तेन रक्षतीति ।। प्रकारान्तरेण निर्वचनं एतस्मादिति । क्षीणं नष्टमित्यन्यथाप्रतीतेर्व्याचष्टे ।। क्षीणमधममिति ।। प्रथमव्याख्याने क्षितिर्निवासभूमिरिति क्षेत्रम् । द्वितीये विनश्यति त्रायते चेति क्षेत्रम् । तृतीये क्षीयते निवस्यतेऽत एव त्रायते चानेनेति क्षेत्रम् । चतुर्थे क्षीणं च तस्त्रातं चेति क्षेत्रमिति भेदो द्रष्टव्यः । ननु महाभूतादिवदिच्छादीनां क्षेत्रनामकत्वे विकारनामकत्वोक्तिविरोधः । विकारित्वस्य महदादितुल्यत्वेन तेषु विशिष्यैतेषां तन्नामकत्वोक्तिविरोधश्चेत्यतः प्रवृत्ते इच्छाद्यानामिति मूले विशेषविकृतिस्थिता इत्येतदनूद्य व्याचष्टे ।। विशेषविकृतिस्थिता इतीति ।।

नन्वन्यत्र घटादिकं विकारशब्देनोच्यते । तत्कथमिच्छादीनां तच्छब्द वाच्यत्वमित्यत आह ।। घटादावपीति ।। इच्छादिषु मनोवृत्तिष्विव बाह्येषु घटादावपीत्यर्थः । मूले विशेषादित्यस्य महदादिभ्योऽतिशयेन महदादेरसंसृष्टत्वेन सूक्ष्मरूपस्य नित्यत्वाद्घटादेः संसृष्टत्वेन तदभावादिति भावः । अन्तिमकार्येषु विकारशब्दस्य विगतं करणं कारणत्वमेष्विति प्रकारान्तरेण निर्वचनपरस्य विगतमित्यादेरर्थमाह ।। विगतमित्यादेरिति ।। अन्तिमकार्येत्यावयविनीत्यर्थः ।। कार्यान्तरोत्पादकत्वमिति ।। द्रव्यान्तरोत्पादकत्वमित्यर्थः । तेन श्यामघटे रक्तरूपोत्पादात्कथमेतदिति निरस्तम् । ‘‘एतद्यो वेत्ति तं प्राहुरि’’ति गीतायामुक्तमेतद्वेदनं शास्त्रज्ञयोग्यजनमात्र साधारणमित्यत अर्थ उच्यते एतत्सर्वमिति । एतत्सर्वं चक्षुषा जानातीत्यन्वयः शेषादीनां चाक्षुषज्ञानमेतत् विषयतास्तीत्यत उक्तं सर्वदैवेति । कदाचित्तिरोधानसम्भवादिति भावः । किं च निर्दोषेणैव चक्षुषा जानाति । तेषां कदाचिद्भ्रमसम्भवादिति भावः । ऋजूनां निर्दोषेण चक्षुषा सदैव तदध्यक्षीकरणमस्तीत्यत उक्तं सदैव प्रेरयन्नेव जानातीति । तेषां पदप्राप्तेः पूर्वं प्रेरणाभावादिति भावः । रमायामेतत्सर्वमस्तीत्यत उक्तं निर्दोषेणेति । पारतन्त्र्यदोषेणापि रहितेनेत्यर्थः ।।

हिंसाहेतुरित्यादि निर्वचनस्येति ।। हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यदित्यध्यायोपक्रमोक्तनिर्वचनस्यादिपदेन शीर्यते नित्यमेवास्माद्विष्णोस्तुजगदीदृशम् । रमते च परो ह्यस्मिञ्छरीरं तेन तज्जगदिति सूत्रभाष्योक्तनिर्वचनस्य वात्रासम्भवादिति भावः ।। निरुक्तयसम्भवेऽपीति ।। हिंसाहेतुरित्याद्युक्तनिरुक्तयसम्भवेऽपि पृथिव्याद्यादेवतास्तु देहवद्यद्वशत्वत इति बृहद्भाष्योक्तदिशा भगवत्तंत्रत्वेन गौण्या शरीरशब्दप्रतिपाद्यत्वोपपत्तेरित्यर्थः । ननु सत्त्वशब्दस्य नानार्थकत्वे प्रमाणोदाहरणमयुक्तम् । यावत्संजायते किंचित्सत्त्वमित्यत्र सत्त्वशब्दस्यानेकार्थत्वस्यानुक्तत्वात् । न च तत्र सत्त्वशब्दस्य जीवपरत्वमुक्तम् । तत्रेदं नानार्थकं प्रमाणं पठ्यत इति वाच्यम् । सत्त्वशब्दो जीवपर इत्यनुक्तत्वादित्यत आह ।। यावत्संजायते किञ्चित्सत्त्वमित्यत्रेति ।। यावत्संजायते किञ्चिदिति श्लोके श्रुतस्य क्षेत्रशब्दस्य श्रीवाचकत्वोपपादनाय तच्छ्लोकार्थविवरणपरस्य ‘‘मम योनिर्महद्ब्रह्मे’’ति श्लोकस्य प्रागुदाहरणेन क्षेत्रं श्रीरिति यथा साक्षादुक्तं तथा तदुदाहरणेनैव क्षेत्रज्ञशब्दो भगवद्वाची सत्त्वशब्दश्च सम्भवस्सर्वभूतानामिति वाक्यशेषोक्तजीववाचीति सूचितम् । यदि सत्त्वशब्दस्य जीववाचित्वं स्यात् स्यात्तदा वाक्यशेषे तद्विवक्षा तदेव कुत इत्यतस्तत्र प्रमाणमाहेत्यर्थः ।। २७ ।।

भावदीपः

करणमित्यस्यार्थः कार्यान्तरोत्पादकत्वमिति ।। उक्तनिरुक्तीति ।। हिंसाहेतुश्च जीवस्येत्यादिना प्रागुक्तनिरुक्तयेत्यर्थः । ‘‘पृथिव्याद्या देवतास्तु देहवद्यद्वशत्वत’’ इति काण्वभाष्योक्तदिशाऽर्थमाह ।। भगवत्तन्त्रत्वेनेति ।। २७ ।।

भावप्रकाशः

क्षिणोति त्राति इत्यनेन पौनरुक्तयपरिहारायाह क्षीणमधममिति । यदुक्तं चेतनाचेतनमिति । चेतनाचेतनं त्वेतदित्यनेनेत्यर्थः । हिंसाहेतुरित्यादिनिर्वचनस्येति ।। हिंसाहेतुश्च जीवस्य परेण प्रेर्यतेच यदित्युक्तस्येत्यर्थः ।। निरुक्तयसम्भवेऽपीति । हिंसाहेतुरित्युक्तनिरुक्तयसम्भवेऽपीत्यर्थः । वाक्योदाहरणेनैव सूचितमिति ।। उदाहृतवाक्यशेषे सम्भवः सर्वभूतानामिति भूतपदेन जीवानामुक्तत्वादिति भावः ।। २७ ।।

वाक्यविवेक

मूले क्षितिरेतद्भगवत इति । अनेन क्षिधातोरधिकरणे त्रप्रत्यये क्षेत्रमिति रूपं सूचितम् । क्षिणोति त्राति चेत्यनेन भगवान् प्रधानादिकं नाशयति रक्षतीति क्षेत्रमित्युक्तं भवति ।। चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदमिति त्रातीति परस्मैपदप्रयोगः । अनेन क्षि क्षये त्रैपालन इति धातुभ्यां कर्मणि कप्रत्यये क्षिधातोर्बाहुलिके गुणे धातोरत्वे अकारस्य लोपे च क्षेत्रमिति रूपमिति सूचितम् । क्षितिं कृत्वा त्रातीत्यनेन भगवान् प्रधानादौ वासं कृत्वा रक्षतीति क्षेत्रमित्युक्तं भवति ।। एतस्मादिति । क्षीणमित्येतेन भगवतः क्षीणं अधमं भगवता रक्षितं चेति क्षेत्रशब्दवाच्यमित्युक्तं भवति । हिंसा हेतुरित्यादिनिर्वचनस्येति । हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यदित्यत्र यत्जीवनाशकारणत्वरूपनिर्वचनमुक्तं तस्यासम्भवादित्यर्थः ।। सत्वमिति श्रुत्योच्यत इति । तेन सत्वशब्दो जीववाचीति ज्ञायत इति शेषः ।। २७ ।।