गीता

गीता

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

नचैनं क्लेदयन्त्यापो न शोषयति मारुतः ।। २३ ।।

तात्पर्यम्

कारणतोऽपि नेश्वरस्यान्यथात्वमित्याह । नैनं छिन्दन्तीति ।। २३ ।।

न्यायदीपिका

अस्त्वीश्वरस्य स्वतो नाशाभावः । तथापि युद्धगतशस्त्रादिकारणविशेषेच्छेदादिप्राप्तेः शोक इत्याशङ्कापरिहारत्वेन श्लोकमवतारयति ।। कारणतोपीति ।। अन्यथात्वं छेदादि

।। २३ ।।

भावप्रकाशः

नैनं छिन्दन्तीति श्लोकानुसारेणान्यथात्वमित्येतद्व्याचष्टे । च्छेदादीति ।। २३ ।।

Load More