गीता
भगवति कर्मसर्पणेन अनिष्टसर्वकर्मनाशः
गीता
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ।। ४९ ।।
तात्पर्यम्
‘नैष्कर्म्यसिद्धिम्’ अनिष्टसर्वकर्मनाशाख्यसिद्धिम् ।। ४९ ।।
प्रकाशिका
‘‘नैष्कर्म्यासिद्धिं परमां संन्यासेनाधिगच्छति ।।
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे’’
इत्यस्यार्थमाह ।। नैष्कर्म्यमित्यादिना ।। ४९ ।।
न्यायदीपिका
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभत इत्युक्तस्यैवेत्थंभावान्तरमुच्यते ।। असक्तेति ।। तत्र नैष्कर्म्यसिद्धिपदस्य मोक्षार्थत्वप्रतीतिनिरासायार्थमाह ।। नैष्कर्मेति ।। सर्वपदमप्रारब्धविषयम् ।। ४९ ।।
किरणावली
स्वेस्वेकर्मण्यभिरतः संसिद्धिं लभत इत्युक्तस्यैवेति ।। स्वे स्वे कर्मण्य(व्य)वधानेनोक्ते वर्णाश्रमविहिते कर्मण्यभिरतः संसिद्धिं लभत इति पूर्वोक्तकर्मणां फलमुक्तवाकर्मकरणामात्रं संसिद्धौ न प्रयोजकं किंतु सेति कर्तव्यमेव कर्मफलप्रदमिति भावेन स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृण्वित्यत्र येन प्रकारेण यदिति कर्तव्यतानुष्ठानपूर्वकं स्वकर्मनिरतः सिद्धिं विन्दति तच्छृण्विति प्रतिज्ञाय स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव इति संसिद्धिसाधनतयोक्तस्य स्वकर्मणो भगवत्पूजात्वेनानुसन्धीयमानत्वाख्य मितिर्कतव्यमुक्तम् । तस्यैव स्वकर्म इति कर्तव्यान्तरमुच्यत इत्यर्थः । असक्तबुद्धिरित्यत्र सर्वत्र कर्मफलेऽसक्तबुद्धिः । संगशब्दितगुणसंप्रीतिरहितबुद्धिमाञ्जितात्माजितमनाः विगतस्पृहः कर्मफलेच्छारहितः संन्यासेनोक्तविविधसंगत्यागादिरूपसंन्यासेन नैष्कर्म्यसिद्धिमधिगच्छतीति नैष्कर्म्यसिद्धिहेतोः स्वकर्मणः संन्याससाहित्य लक्षणेतिकर्तव्योक्तेरिति भावः ।। मोक्षार्थत्वप्रतीतिनिरासायेति ।। लिङ्गभङ्गेन ब्रह्मप्राप्तिरूपमोक्षार्थत्व प्रतीति निरासायेत्यर्थः । नैष्कर्म्यसिद्धिं मोक्षमिति कैश्चिद्व्याख्यातत्वात् । तस्य च तदनन्तरं मां विशत इति वाक्यशेषेण विरुद्धत्वादिति भावः । नचाप्रारब्धानामभोगेन नाशः प्रारब्धानां भोगोपमर्दाभ्यां नाश इति नाशस्य सार्वत्रिकत्वात्सर्वपदमसंकुचितमेव किं नस्यादिति वाच्यम् । ज्ञानोत्तरक्षण एव कर्मनाशाख्यं फलमिहाभिप्रेतम् । तच्चाप्रारब्धस्वीकार एवोपपद्यत इति विवक्षितत्वात् ।। ४९ ।।
भावप्रकाशः
इत्थंभावान्तरमिति । इति कर्त्तव्यतान्तरमित्यर्थः ।। ननु भोगेन त्वितरे क्षपयित्वाथ संपत्स्यत इत्यत्र आरब्धपुण्यपापे भोगेन क्षपयित्वा ब्रह्म संपत्स्यत इत्यारब्धयोर्भोगेनक्षयस्योक्तत्वात्कथं सर्वकर्मनाश उच्यत इत्यत आह ।। सर्वपदमप्रारब्धविशषयमिति । एवमेव पापपदमप्रारब्धानिष्टाकर्मपरमित्युत्तरत्रापि व्याख्यानबीजं द्रष्टव्यम् ।। ४९ ।।