गीता
राजसतामसज्ञानानि
गीता
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ।। २१ ।।
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ।। २२ ।।
तात्पर्यम्
‘विष्णोरन्यस्य याथार्थ्यज्ञानं राजसमुच्यते ।
यदि विष्णुं न जानाति यदि वा मिश्रतत्त्ववित् ।
अन्यथाकरणीयत्वात् कार्याख्यं जीवमेव यः ।
अकार्यं ब्रह्म जानाति स एवाखिलमित्यपि ।
एकजीवपरिज्ञानात् कृत्स्नज्ञोऽस्मीति मन्यते ।
युक्तिभिर्ज्ञानराहित्यात् स्वपक्षस्याल्पयुक्तितः ।
अयुक्ततामेव गुणं मन्यते चाल्पदर्शनः ।
अतत्त्वार्थं जगद् ब्रूते तत्त्वार्थज्ञानवर्जनात् ।
स मुख्यतामसज्ञानी ह्येकैकेनापि किं पुनः ।
सर्वैरेतैर्विशेषैश्च युक्तः पापतमाधिकः’ इति पाद्मे ।
प्रकाशिका
पृथक्त्वेनेत्यस्य श्लोकस्याभिप्रेतार्थमाह ।। विष्णोरन्यस्येति ।। ‘‘यत्तुकृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।। अतत्वार्थवदल्पं च तत्तामसमुदाहृत’’मित्यस्यार्थमाह ।। अन्यथेत्यादिना ।।
न्यायदीपिका
विष्णोरित्यनेन पृथक्तवेनेत्युक्ततात्पर्यं भवति । सात्विकज्ञानस्यापि विष्णोरन्यत्र यथार्थत्वेनोक्तत्वात्कथं राजसत्वमस्य स्यादित्यत आह ।। यदीति ।। मिश्रतत्ववित्संदिग्धतया भगवत्स्वरूपं जानन्नित्यर्थः । अन्यथेत्यनेन यत्त्वित्युक्तार्थं भवति । यत्किञ्चिदेकं कृत्स्नं जानातीति चादौ द्रष्टव्यम् । जानातीत्यन्तेन कार्ये कृत्स्नवत्सक्तमित्यस्य तात्पर्यमुक्तं भवति । कृत्स्नमकार्यत्वादिगुणपूर्णं ब्रह्म यथाविषयीकरोति ब्रह्मेति तथेत्यर्थः । स एवेत्यनेन कार्ये कृत्स्नवत्सक्तमित्यस्य कृत्स्नपदमखिलजगद्विषयमङ्गीकृत्यार्थान्तरमुक्तं भवति । एकेत्यनेनैकस्मिन् कार्ये कृत्स्नवत्सक्तमित्युक्ततात्पर्यं भवति । युक्तीत्यनेनाहैतुकमित्यस्य तात्पर्यमुक्तं भवति । स्वस्य युक्तिज्ञानाभावात्तज्ज्ञेयार्थस्य युक्तिराहित्याच्च तथा मन्यत इत्यर्थः । अल्पेत्यनेनाल्पमित्युक्तार्थं भवति । अल्पसम्यग्ज्ञान इत्यर्थः । भ्रान्तस्याप्यधिष्ठानादिविषयसम्यग्ज्ञानवत्त्वात् । अतत्वार्थमित्यनेनातत्वार्थवदित्युक्तार्थं भवति । यथावस्थिताकाराद्विपरीताकारमित्यर्थः । तत्वार्थज्ञानवर्जनादिति ।। यथास्थिताकारज्ञानाभावादित्यर्थः ।
किरणावली
विष्णोरित्यनेनेति ।। विष्णोरन्यत्र जीवेषु जडेषु च विषये याथार्थ्य ज्ञानमिति मध्यमपदलोपी समासः । याथार्थ्ययुक्तं ज्ञानमित्यर्थः । यथावस्थितज्ञेयविषयीकारित्वं याथार्थ्यं प्रामाण्यमिति यावत्तद्युक्तम् । ज्ञानं राजसमित्यनेन पृथक्त्वेन तु यज्ज्ञानमित्याद्युक्ततात्पर्यं भवति । तत्रापि सर्वेषु भूतेषु जीवेषु जडेषु च विषयेयत्पृथक्त्वेन प्रकारेण ज्ञानं पृथक्त्वप्रकारकं ज्ञानं तज्ज्ञानं राजसमिति विष्णोरन्यत्र तद्वति तत्प्रकारकत्वरूपयाथार्थ्योक्तेरित्यर्थः ।। कथंराजसत्वमिति ।। तल्लक्षणवतो ज्ञानस्य कथं राजसत्वमित्यर्थः । यदि विष्णुं न जानातीत्यत्र विष्णुद्वेषरहितः सर्वगतमीश्वरमपृथकत्वेन सर्वोत्तमत्वेन च न जानातीति पूरणीयम् । अज्ञा विष्णौद्वेषहीनाः सर्वे राजसतामसा इति वचनात्संदिग्धतया भगवत्स्वरूपं जानन्निति । अनेन मिश्रं यथा भवति तथा सर्वगतत्वं विन्दति मिश्रत्वं वेदनरूपक्रियाविशेषणमित्युक्तं भवति ।। अन्यथेत्यनेनेति ।। अन्यथेत्यारभ्य पाद्म इत्यन्तेन यत्तु कृत्स्नवदिति पद्यमुक्तार्थमित्यर्थः । स्ववाक्येन विवरणावसरे एकस्य कृत्स्नवज्ज्ञानमेव तामसमित्यादौ व्याख्याय मुक्तत्वादिरूपेणान्यथाकरणीयत्वादित्यादिना कार्ये कृत्स्नवत्सक्तमित्यंशस्य विवरणात्तदनुसारेण स्मृतावादावुपकार्यमित्याह यत्किञ्चिदेकं भवति तत्कृत्स्नवज्जानातीत्यादौ द्रष्टव्यमिति । यत्किञ्चिदेकं कृत्स्नं जानातीत्यादौ द्रष्टव्यमिति पाठान्तरम् । एतेन यस्मिन्कस्मिंश्चित् एकस्मिन्कृत्स्नवत्सक्तमिति गीतायामपि प्रथमं योज्यमिति सूचयति । अन्यथा करणीयत्वादित्यस्यान्यथा मुक्तत्वादि रूपेण करणीयत्वादिति वक्ष्यमाणप्रकारेणार्थो बोध्यः ।। जानातीत्यन्तेनेति ।। ननु मूले कार्याख्यं जीवं ब्रह्म जानातीत्युच्यते । तत्कथमेतदंतेन तद्व्याख्यानमित्यतः कार्ये कृत्स्नवत्सक्तमित्यत्र कृत्स्ने इव यथा कृत्स्ने ब्रह्मणि कृत्स्नमिति ब्रह्मेति सक्तं तथाकार्यो कृत्स्नमिति सक्तमित्यर्थमभिप्रेत्य व्याचष्टे ।। कृत्स्नमिति ।। आद्यो ब्रह्मशब्दो द्वितीयान्तः ज्ञानमिति शेषः । यथा ज्ञानं कृत्स्नमकार्यत्वादि गुणपूर्णं ब्रह्म ब्रह्मेति विषयीकरोति तथाकार्ये जीवे सक्तं ब्रह्मेति विषयीकुर्वदिति गीतार्थ इत्यर्थः ।। स एवेत्यनेनेति ।। सजीव एवाखिलमित्यपि जानातीत्यनेन कार्ये कृत्स्नवत्सक्तमित्यस्य कृत्स्नेऽखिले जगति यथाकृत्स्नमिति सक्तं तथा कार्ये जीवेप्ययमखिलं जगदिति सक्तं विषयीकुर्वदिति कृत्स्नपदमखिलजगद्विषयमङ्गीकृत्यार्थान्तरमुक्तमित्यर्थः ।।
एकेत्यनेनेति ।। कल्पकैकजीवपरिज्ञानात्तदध्यस्तस्याधिष्ठानाभेदेन ज्ञानस्यावश्यकत्वात्कृत्स्नज्ञोऽस्मीति मन्यत इत्यनेनैकस्मिन्कार्ये जीवे कृत्स्नवत्सक्तमित्युक्त तात्पर्यं भवतीत्यर्थः । स एवाखिलमित्यत्र तु स इत्यस्य जात्येकवचनत्वात्कल्पकजीवबाहुल्य पक्षमङ्गीकृत्त्यकृत्स्नवत्सक्तमित्ये तद्व्याख्यातं बोध्यम् । स्वपक्षसाधकयुक्तिं विज्ञानराहित्यातिरिक्तं किं स्वपक्षसाधकस्यायुक्तत्वमतः पुनरुक्तमित्यतो व्याचष्टे ।। स्वस्येति ।। स्वपक्षस्येत्यस्यार्थो ज्ञेयार्थस्येति । अयुक्ततामेव गुणमित्यस्य स्वस्यायुक्ततां युक्तिज्ञानरहिततां ज्ञेयार्थस्यापि घटकयुक्तिराहित्यं च गुणं मन्यत इत्यस्य तात्पर्यमाह ।। तथामन्यत इति ।। एतेन यज्ज्ञानमहैतुकमित्यस्य हेत्वनुसन्धानवान्हेतुकस्तद्विरुद्धोऽहैतुकस्तत्प्रयुक्तमहैतुकम् । स्वार्थेहेतुनिरपेक्षमिति वार्थ उक्तो भवति ।। अधिष्ठानादिविषयेति ।। आदिपदेन सदृशवस्तुतथ्यवस्तुनोर्ग्रहणम् । जगदतत्वार्थं तत्वेन तेनैवाकारेण सत्यत्वादिरूपेण विद्यमानोर्थस्तत्वार्थस्तद्विरुद्धोऽतत्वार्थोऽनिर्वचनीयत्वाद्याकारं प्राप्तस्तं ब्रूत इत्यक्षरार्थमभिप्रेत्य व्याचष्टे ।। यथास्थिताकारेति ।। एतेनातत्वार्थवदित्यस्यातत्वार्थविषयकमित्यर्थ उक्तो भवति । यत्तुकृत्स्नवदेकस्मिन्नित्यत्र सात्विकराजस ज्ञानात् विशेषज्ञापनार्थं तु शब्द इति स्फुटम् । तज्ज्ञानं तु विशेषतो मुख्यतस्तामसमित्यप्यर्थ मभिप्रेत्य कार्याख्यं जीवमेव य इति यच्छब्दयोजितं पूरयितुं स मुख्यतामसज्ञानीति मूलवाक्यं प्रवृत्तम् । कदाचिद्राजससात्विकयोरपि तमोगुण प्राचुर्यकाले तामसज्ञानसम्भवान्मुख्येत्युक्तम् । एवमुक्तं सर्वं वेत्तैवतामसज्ञानीत्यन्यथा प्रतीतिनिरासायोक्तं मूले । एकैकेनापि मुख्यतामसज्ञानीति । तर्हि बहुविशेषप्रतिपादनं किमर्थमित्यतः कैमुत्यार्थमिति भावेनोक्तम् । किं पुनरिति । सर्वगतमेकमीश्वरमित्यत्र सर्वगतमित्यतः परमविभक्तमिति संयोज्यम् ।
भावदीपः
उक्तत्वादिति ।। पूर्वश्लोके विभक्तेष्वित्यादिनेति भावः ।।
भावप्रकाशः
यथार्थत्वेनोक्तत्वादिति । तारतम्येन जीवानामित्यादिना यथावस्थितज्ञेय विषयीकारित्वेनोक्तत्वादित्यर्थः ।। संदिग्धतया भगवत्स्वरूपं जानन्निति । अनेन मिश्रत्वं वेदनरूपक्रियाविशेषणमित्युक्तं भवति ।। तत्व विशेषणत्वेऽन्यदीयसन्देहविषयस्यापि तत्वस्यान्येन सम्यग्वेत्तुं शक्यत्वेन तामसानां मिथ्याज्ञानित्वासिद्धेरिति भावः । एकस्य कृत्स्नवद्ज्ञानमेवतामसमित्युत्तरवाक्यानुसारेण किञ्चिदुपस्करोति । यत्किञ्चिदेकमिति । तत्र तु जीवाभेदपक्षत्रयस्य पृथगुक्तत्वात् एकस्य कृत्स्नवदिति । वाक्यस्य यस्य कस्यचित् सर्वाभेदप्रतिपादकत्वमेव सिद्धमिति भावः ।। ननु तामसानां मिथ्याज्ञानस्य बहुलत्वादल्पदर्शन इति कथमुक्तमित्यत आह ।। अल्पसम्यग्ज्ञान इति ।। अल्पमपि सम्यग्ज्ञानं कुत इत्यत आह ।। भ्रान्तस्याप्यधिष्ठानादीति ।। अत्रादिपदेन प्रधानं ग्राह्यम् । यदीति स्मृतिर्विवृतेति ।।
वाक्यविवेक
सात्विक ज्ञानस्यापीति । सात्विकज्ञानस्यापि विष्णुभिन्नविषये यथार्थत्वेनोक्तत्वादित्यर्थः । यस्य कस्य चित् सर्वैक्यज्ञानं तामसमिति गीताव्याख्यानस्य प्रमाणे अदर्शनात् प्रमाणे शेषं पूरयति । यत्किञ्चदेकं कृत्स्नं जानातीति चादौ द्रष्टव्यमिति । अन्यथा करणीयत्वादित्यस्यादौ तच्छेषतया यत्किञ्चिदेकमिति वाक्यं द्रष्टव्यमित्यर्थः ।। ननु सक्तमिति पदस्य जानातीति कथं व्याख्यानमित्यत आह ।। जानातीत्यन्तेनेति ।। स एवाखिलमित्यपीत्यस्य गीतायां किं व्याख्येयमित्यतो व्याख्येयं दर्शयति । स एवेत्यनेनेति । एवमुत्तरत्रापि द्रष्टव्यम् ।