श्री भगवानुवाच

श्री भगवानुवाच—

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।

स संन्यासी च योगी च न निरग्निर्न चाक्रियः ।। १ ।।

तात्पर्यम्

ध्यानमत्रोच्यते ।

स ब्रह्मनिष्ठस्तु यतिर्महात्मा शारीरमग्निं च मुखे जुहोति’

इत्यादेर्न यतेरप्यनग्नित्वम् । आत्मसमारोपणाच्च ।। १ ।।

प्रकाशिका

एतदध्यायप्रतिपाद्यं दशयति ।। ध्यानमिति ।। ‘‘स सन्यासी च योगी च न निरग्निर्न चाक्रियः’’ इत्यनेन संन्यासी च निरग्निर्न भवति अक्रियश्च न भवति इत्युक्तम् । तत्र यतेरनग्नित्वमाशङ्क्य परिहरति ।। स एव ब्रह्मनिष्ठ इति ।। संन्यासाश्रमस्वीकारो पूर्वाश्रमस्वीकृतस्याग्नेरात्मसमारोपणं क्रियत इत्यर्थः ।। १ ।।

न्यायदीपिका

एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। ध्यानमिति ।। योगेत्विमां ृणु इति प्रतिज्ञातम् । योगश्च कर्मयोगश्चेति द्वेधा भवति । तत्र सङ्क्षेपविस्तराभ्यां कर्मयोगो निरूपितः । ध्यानयोगप्रकारश्च सङ्क्षेपेण पञ्चमान्ते निरूपितो विस्तरेणास्मिन्नध्याये उच्यत इति भावः । प्रकृतं ध्यानमग्न्यादिपरित्यगेन निःसङ्गतया वर्तमानस्य भवतीत्याशङ्का निरस्यते ।। अनाश्रित इति ।। तत्र निरग्नेः संन्यासित्वं योगित्वं च नास्तीत्युक्तं नोपपद्यते । तथा सति यत्याश्रमस्याननुष्ठेयत्वप्रसङ्गात् । यतेर्निरग्नित्वेन योगसंन्यासाभावप्राप्तेः तयोरेव श्रेयःसाधनत्वादित्यत आह ।। स इति ।। भवेदनेन यत्याश्रमस्याननुष्ठेयत्वप्रसङ्गो यदि यतेर्निरग्नित्वं स्यात् । न च तदस्ति । स ब्रह्मनिष्ठ इति तस्याप्यग्निश्रवणादिति भावः । इतश्च न यतेरनग्नित्वमित्याह ।। आत्मेति ।। यत्याश्रमस्वीकारकाले पूर्वाश्रमस्वीकृताग्नेरात्मनि समारोपणाच्च न यतेरनग्नित्वमित्यर्थः । अनेन न केवलं निरग्निरक्रियो यतिरेव संन्यासी योगी च । किं त्वनाश्रितः कर्मफलं कार्यं कर्म करोति यः सोऽपीत्यपव्याख्यानं च निराकृतं भवति ।। १ ।।

किरणावली

प्रतिज्ञातमिति ।। द्वितीयेऽध्याये प्रतिज्ञातमित्यर्थः ।। तत्र सङ्क्षेपविस्तराभ्यामिति ।। त्रैगुण्यविषया वेदा इत्यादिना द्वितीये सङ्क्षेपतस्तृतीयादौ विस्तरेणेत्यर्थः । स ब्रह्मनिष्ठस्तु यतिरिति मूलस्य यतिस्तु शरीरान्तर्गतं वैश्वानरनामकमग्निमुद्दिश्य मुखे कुण्डस्थानीये भैक्षमन्नादिकं जुहोतीत्यर्थः । वैश्वानरमृत आजातमग्निम् । अहं वैश्वानरो भूत्वेत्यादेरित्यर्थः ।। यत्याश्रमस्वीकारकाल इति ।। यत्याश्रमस्वीकारकाले पूर्वाश्रमस्वीकृतमग्निं करतले सन्निधाय । मुखमारभ्य हृदयपर्यन्तं स्पर्शन रूपात्मसमारोपणचिह्नप्रदर्शनपूर्वकमात्मसमारोपणाच्चेत्यर्थः । तदुक्तं विष्णुतीर्थीये–

अथाग्निमेकहस्तेन प्रताप्यायन्त इत्यृचा ।

संस्पृशेत् मुखमारभ्ययावद्धृदयमञ्जसेति ।

उक्तं चाग्निद्वयं विष्णुपुराणे ।

कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।

विप्रस्तु भैक्षोपगतैर्हविर्भिश्चिदग्निना स व्रजति स्म लोकानिति ।

अस्यायमर्थः । अग्निहोत्रं स्वशरीरसंस्थं आत्मसमारोपितं कृत्वा तमग्निं प्रतिशारीरमग्निं वैश्वानराग्निं च प्रति भैक्षोपगतैर्हविर्भिः स्वमुखे जुहोतीत्यर्थः । चिता ज्ञानस्वरूपेणाग्निना वैश्वानराग्निना । आत्मसमारोपिताग्निपक्षे पूर्वमिष्टकाचयनादिना पूजिते नात्मसमारोपिताग्निना तत्प्रसादेन लोकान्व्रजतीति । अत्र केचिद्विप्र इत्यनेन क्षत्रिय वैश्ययोर्नसंन्यासाधिकार इति सूचयन्ति । तथा च दत्तात्रेय संहितायाम् ।

गतिस्तुर्याश्रमे नास्ति बाहुजोरुजयोः क्वचित् ।

तुर्याश्रमे गतिः प्रोक्ता मुखजानां स्वयंभुवेतीत्याहुः ।

अन्ये तु न्यसिष्णुरुक्तः पृथया सनेतीति महाभारततात्पर्यनिर्णये पाण्डोः क्षत्रियस्य संन्यासाधिकार सद्भावमङ्गीकृत्य पृथाया असंमत्या निवृत्त्युक्तेः । भागवतेप्रियव्रतस्याधिकारिकत्वयुक्तया संन्यासान्निवृत्त्युक्तेर्वस्तुतो क्षत्रियाणामधिकारावगमात् । विष्णुपुराणे विप्रो व्रजति स्म लोकानिति वचनम् । दत्तात्रेयसंहितायां बाहुजोरूजयोस्तुर्याश्रमेगतिर्नास्तीति वचनं च न विप्रातिरिक्तयोः बाहुजोरूजयोः संन्यासाधिकारनिषेधपरम् । किंतु विप्रस्येव संन्यासिदेहापगमानन्तरमेव मुक्तिनिषेधपरं स्वरूपक्षत्रिय वैश्य योरंत्यदेहे गार्हस्थ्यनियमादित्याहुः ।। १,२ ।।

भावदीपः

प्रतिज्ञातमिति ।। द्वितीये योगवचनं प्रतिज्ञातमित्यर्थः ।। कर्मयोगः ।। कर्मरूपज्ञानोपाय इत्यर्थः ।। संक्षेपेति ।। त्रैगुण्यविषया इत्यादिना द्वितीये संक्षेपेण तृतीयादौ विस्तरेण निरूपित इत्यर्थः ।। पञ्चमान्त इति ।। स्पर्शान् कृत्वा इत्यादिनेति योज्यम् ।। १ ।।

भावप्रकाशः

ॐ ज्ञानानन्तरं समाधियोगमाहानेनाध्यायेनेति भाष्यसूचितां पूर्वाध्यायसङ्गतिमाह । योगेत्विमामिति ।। कर्मयोगो निरूपित इति ।। द्वितीयषट्के वक्ष्यमाणं भगवद्ज्ञानं प्रति कर्मयोगस्य बहिरङ्गत्वात्सप्राधान्येनातीतग्रन्थे प्रतिपादित इत्यर्थः ।। ध्यानयोगप्रकारश्चेति ।। कर्मयोगसाध्यत्वाद्ज्ञानान्तरङ्गत्वाच्चावसरप्राप्त इति शेषः ।। विस्तरेणेति । तथा च न पञ्चमान्तेन गतार्थतेति भावः ।। इष्टापत्तिरित्यत आह । तयोरेवेति । शारीरमग्निं जाठराग्न्यंतर्गतवैश्वानरात्मकं प्राणापानसहितं परमात्मानमुद्दिश्य अहं वैश्वानरो भूत्वेति वचनात् मुखे स्वमुखे कुण्डस्थानीये भिक्षाप्राप्तैर्हविर्भिरिति शेषः ।। जुहोति वैश्वानर एव मुख्यभोक्तेत्यनुसन्धाय भुङ्क्त इत्यर्थः ।। उक्तं च विष्णुपुराणे ।

कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।

विप्रस्तु भैक्षोपगतैर्हविर्भिश्चिताग्निना संव्रजति स्म लोकान् ।

इति । चिता उक्तानुसन्धानरूपेण ज्ञानेनाग्निना पापादहकत्वादग्निस्थानीयेन साधनेन लोकान् स्वयोग्यलोकान् व्रजति ।। चिदग्निनेति पाठेऽप्ययमेवार्थः चिताऽग्निनामिति पाठेऽग्निचितान्लोकान् व्रजतीत्यर्थः ।। विप्रपदं विप्रस्यैव संन्यासाधिकार इति द्योतनार्थम् ।

गतिस्तुर्याश्रमे नास्ति बाहुजोरूरुजयोः क्वचित् ।

तुर्याश्रमे गतिः प्रोक्ता मुखजानां स्वयंभुवा । इति दत्तात्रेयसंहितोक्तेः ।

सोऽपीत्यपव्याख्यानमिति ।। गृहस्थोऽप्युपचारेण स्तुत्यर्थं संन्यासीत्युच्यत इति अपव्याख्यानमित्यर्थः ।। १ ।।

वाक्यविवेकः

ध्यानमत्रोच्यत इति तात्पर्यं प्रथमश्लोके ध्यानमुच्यत इत्यर्थपरमिति प्रतीतिनिरासाय तात्पर्यमवतारयति । एतदध्यायेति । गीतायामनाश्रितः कर्मफलमिति । निरग्निः सन्यासी योगीच न एवमक्रियश्च सन्यासी योगीच न । किं तु यः कर्मफलमनाश्रितः कार्यं कर्मं करोति स एव योगी सन्यासी चेत्यर्थः । मूले स ब्रह्मस्त्विति । यो ब्रह्मनिष्ठः ।। तथा शारीरमग्निवैश्वानरमुद्दिश्य भिक्षादिलब्धमन्नं मुखे स्वमुखे आहवनीयाग्निकुण्डरूपे जुहोति ।। स एव यतिर्महात्मेत्यर्थः ।। केवलमिति ।। निरग्निः सन्यासी योगीचेत्येव न तथा अक्रियः सन्यासीयोगीचेत्येव न किंतु यः कर्मफलमनाश्रितः कार्यं कर्म करोति सोपीति त्रय एते सन्यासिनो योगिनश्चेत्यपव्याख्यानं निरस्तं भवतीत्यर्थः ।। १ ।।