गीता
गीता
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।। ४७ ।।
तात्पर्यम्
कर्माधिकारिण एव त्वदादयो जीवाः । फलं तु मदायत्तमिति भावः । मा कर्मफलहेतुर्भूः नेश्वरोऽहमिति भावं कुरु ।
‘एष उ एव शुभाशुभैः कर्मफलैरेनं संयोजयति न स्वयं संयुक्तो भवति यदेनं कर्मफलैः संयोजयति न स्वयं संयुक्तो भवति तस्मादन्य एवासौ भगवान्वेदितव्य’ इति पैङ्गिश्रुतिः ।।४७।।
प्रकाशिका
कर्मण्येवेत्येतद् व्याचष्टे ।। कर्मेत्यादिना ।। ४७४८ ।।
न्यायदीपिका
ऐक्यभावनं न कार्यमित्यत्र हेतुरुच्यते ।। कर्मणीति ।। तत्रार्जुनस्य कर्मकरणे किञ्चित्सामर्थ्यमस्ति न तु फलापादन इत्येवोच्यते । तत्कथमनेन सर्वजीवानामीश्वराभेदाभावस्साध्यत इत्यत आह ।। कर्मेति ।। नात्र त इत्यर्जुन एव गृह्यते । अपि तु सर्वजीवाः । तेषां फलापादनासामर्थ्यमुक्त्वा ईश्वरे तत्सामर्थ्यमभिप्रेयते । तेनात्रोक्तैवाभेदाभावे युक्तिरिति भावः । नन्वत्रास्त्वेतावदभिप्रेतं तथापि प्रतिज्ञाभावादभेदाभावे युक्तिरियमुक्तेति कथं ज्ञायत इत्यत आह ।। माकर्मेति ।। फलहेतुरीश्वरः स माभूर्मनसेत्यर्थः। अत्र श्रुतिं चाह ।। एष इति ।। स्वयं जीवः ।।४७।।
भावदीपः
त इत्युपलक्षणमिति भावेनाह ।। सर्वजीवा इति ।। प्रतिज्ञाया अभावादिति ।। ऐक्यभावना न कार्येति प्रतिज्ञाया अभावादित्यर्थः । तदविनाभावद्युक्तेरिति भावः । भावाभावप्रतिज्ञालाभार्थमाह ।। मनसेत्यर्थ इति ।।
वाक्यविवेकः
ऐक्यभावनमिति । निर्योगक्षेम आत्मवानित्यत्र आत्मा मम स्वामीति भावनं कार्यमित्युक्तम् । तेनैक्यभावनं न कार्यमिति लब्धं तत्र हेतुरुच्यत इत्यर्थः । मनसेत्यर्थ इति । मनसा विष्णुभावनं नाम तदैक्यध्यानमेवेति भावः ।। अत्र श्रुतिं चाहेति । स्वयं व्याख्याय व्याख्यानरूपां श्रुतिमाहेत्यर्थः ।। न स्वयं संयुक्तो भवतीत्यत्र कर्तृनुक्तेः न्यूनतेत्यतः स्वयंशब्दानन्तरमध्याहार्यमाह । स्वयं जीव इति ।। ४७ ।।
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ।। ४८ ।।
तात्पर्यम्
सङ्गं फलस्नेहम् ।। ४८ ।।
न्यायदीपिका
कर्माकरणे स्नेहोमास्त्वित्युक्तं किं तर्हीत्यत उच्यते ।। योगस्थ इति ।। तत्र कर्मसङ्गं त्यकत्वा कर्माणि कुर्विति व्याहतमित्यत आह ।। सङ्गमिति ।। न सङ्गपदेन कर्मसम्बन्धोऽभिधीयते येन व्याहतिरपि तु फलस्नेह एवेति भावः ।। ४८ ।।
किरणावली
कर्माकरणे स्नेहो मास्त्वित्युक्तमिति ।। यदि मम फले स्वातन्त्र्यं नास्ति तर्हि नाहं कर्म करिष्ये इत्याशङ्कापरिहाराय मा ते सङ्गोऽस्त्वकर्मणीति अत्र कर्माकरणे स्नेहो मास्त्वित्युक्तमित्यर्थः ।। ४८ ।।
भावदीपः
इत्युक्तमिति ।। दूरेणेति पूर्वार्ध इति योज्यम् ।