गीता
गीता
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ।। २३ ।।
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।। २४ ।।
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।। २५ ।।
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्यया वर्तते पुनः ।। २६ ।।
तात्पर्यम्
यत्र कालाभिमानिदेवतासु मृत्यनन्तरं प्रयाताः ।
अग्निर्ज्योतिर्धूमानामकालाभिमानित्वेऽपि कालप्राचुर्यात् काल इत्युच्यते ।
‘अग्निर्ज्योतिरिति द्वेधा वह्नेः पुत्रो व्यवस्थितः ।
तं प्राप्य याति ब्रह्मिष्ठो दिवसाद्यभिमानिनः’ इति सत्तत्त्वे ।
तत्कालमरणविवक्षायामग्निज्योतिर्धूमानामयोगः । ‘अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं गच्छत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद् ब्रह्मणो महिमानमाप्नोति’ इति विदुषो दक्षिणायनमरणेऽप्यपुनरावृत्त्या ब्रह्मप्राप्तिश्रुतेः । ‘विद्वान् ब्रह्म समाप्नोति यत्र तत्र मृतोऽपि सन्’ इति च पाद्मे ।।२३२६।।
प्रकाशिका
यत्रेत्यादेरर्थमाह ।। यत्र कालाभिमानीत्यादिना ।। ‘यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।। प्रयाता यान्ति तं कालं वक्ष्यामीत्युक्त्वा अग्निर्ज्योतिरहरित्यादिना अर्चिरादिमार्ग–धूमादिमार्गप्रतिपादनात् अत्र कालशब्देन कालाभिमानिदेवता अर्चिरादिमार्गधूमादिमार्गभूता उच्यन्ते ।। अहश्शुक्लोत्तरायणषण्मासरात्र्यादिषु अग्निर्ज्योतिधूमा अपि पठिताः सन्ति । तेषु कालशब्दस्तु कालगणप्रविष्टत्वादवगन्तव्यः ।। ‘अग्निर्ज्योतिर्द्विधे’’ति वचनात् अहश्शुक्लादयोऽत्रं देवाः । न तु मरणकालाः । तत्कथनप्रसङ्गे अग्निर्जोतिर्धूमानामसङ्गतिप्रसङ्गादित्यर्थः । उत्तरायणमृतानां ब्रह्मप्राप्तिः, न तु दक्षिणायने इत्येतच्छत्या निषेधति ।। ‘‘य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानम् गत्वाऽऽदित्यस्य सायुज्यं गच्छति’’ ।। प्रमीयते म्रियते ।। महिमात्र तत्कृतपूजोच्यते । मह पूजायामिति धातुव्याख्यानात् ।। यत्र तत्रेत्यस्याहरादिषु वा रात्र्यादिषु वेत्यर्थः ।। २३२६ ।।
न्यायदीपिका
भगवन्तं प्राप्तानामपुनरावृत्तिरन्येषां पुनरावृत्तिरित्युक्तम् । तत्र पुनरावृत्तिमतामन्येषां च केन पथा गमनमित्यत उच्यते ।। यत्रेति ।। यत्र यस्मिन्काले मृता अनावृत्तिं गच्छन्ति । यस्मिंश्च पुनरावृत्तिं गच्छन्ति तं कालं वक्ष्यामीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ।। यत्रेति ।। नन्वग्निज्योतिर्धूमानामकालाभिमानिनामपि मार्गे गम्यत्वेन वक्ष्यमाणत्वात्कथं प्रतिज्ञावाक्ये यत्र काले तं कालमित्युच्यत इत्यत आह ।। अग्नीति ।। अग्निज्योतिर्धूमानां गम्यतया वक्ष्यमाणानामिति शेषः । गम्यतया वक्ष्यमाणेषु कालाभिमानिनां बाहुल्यादल्पसलिलयुतपयसि पयःपदस्य सलिलोपलक्षकत्ववत्कालपदस्येतरोपलक्षकत्वादिति भावः ।
ननु तेऽर्चिषमभिसम्भवन्ति अर्चिरादिना तत्प्रथितेरित्यादौ ज्योतिषः प्रथमप्राप्यतयोक्तत्वात्कथमत्र ज्योतिषः प्रथममग्नेः प्राप्तिरुच्यते । कुतश्चाहरादिपदस्य देवताविषयत्वमित्याशङ्कां स्मृत्यैव परिहरति ।। अग्निरिति ।। एवं स्मृतिसमाख्यानादुक्त एवार्थो नाहरादिकाले मृतानामपुनरावृत्त्यादिरिति समर्थितम् । विपक्षे बाधकं चाह ।। तत्कालेति ।। यद्यत्राहरादिकालमरणेऽपुनरावृत्त्यादि स्यादिति विवक्षा भवेत्तर्हि अग्निज्योतिर्धूमकथनस्यासङ्गतिः स्यात् । नह्यहरादाविवाग्निज्योतिर्धूमेषु मरणं नामास्तीति भावः । इतश्च न प्रतीतोऽर्थ इत्याह ।। अथेति ।। य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयत इति श्रुतावुत्तरायणे मृतस्य ज्ञानिनोऽपुनरावृत्त्या ब्रह्मप्राप्तिं दक्षिणायने मृतस्य कर्मिणः पुनरावृत्त्या चन्द्रप्राप्तिं चोक्त्वा पुनर्ज्ञानिन उत्तरायणे दक्षिणायने वा मृतस्यापुनरावृत्त्या ब्रह्मप्राप्तिरुच्यते । अत उत्तरायणे मृतानामपुनरावृत्तिर्दक्षिणायने मृतानां पुनरावृत्तिरिति नियमाभावान्नान्योऽर्थ इति भावः ।
महिमानं पूजाम् । महपूजायामितिधातोः । आदित्याच्चन्द्रमसमिति श्रुतेर्ब्रह्ममार्गेऽपि सूर्याचन्द्रमसोर्विद्यमानत्वात्सूर्याचन्द्रमसोर्महिमानमाप्नोतीति युक्तम् । अत्र ज्ञानिन उत्तरायणे मृतस्य ब्रह्मप्राप्तिकथनं फलाधिक्याभिप्रायमिति ज्ञातव्यम् । अत्र स्मृतिं चाह ।। विद्वानिति ।। यत्र तत्रेत्यस्याहरादिषु वा रात्र्यादिषु वेत्यर्थः ।। २३२६ ।।
किरणावली
कालाभिमानिदेवतासु प्रयाता इति मूलस्य कालाभिमानिदेवताधिष्ठितमार्गेषु प्रयाता इत्यर्थः । यद्वा देवतासुप्रयाता इत्यस्य मार्गगताः प्रयाता इत्यर्थः ।। गम्यतया वक्ष्यमाणेष्विति ।। प्रकरणबलात्सप्तम्यन्तमिदं लभ्यत इति भावः । वह्नेः पुत्रो व्यवस्थित इति मूलस्यार्चिर्नामको वह्निपुत्रो मूलरूपेण ज्योतिरर्चिरिति अंशरूपेणाग्निरित्येकस्मिन्पुरे व्यवस्थित इत्यर्थः । तथा च श्रुतिसूत्रोक्तं मार्गस्यार्चिरादित्वमुपपाद्यत इति भावः । तदुक्तं अग्निर्ज्योतिरिति द्वेधैवार्चिषः संप्रतिष्ठितिरित्यादिना । अत एव भाष्ये । ज्योतिरर्चिस्तेर्चिषमभिसम्भवंतीति श्रुतिरित्याद्युक्तम् । एतौ वै सूर्याचन्द्रमसोर्महिमानावित्यस्योत्तरायणप्रतिपादकत्वेन दक्षिणायनमरणेप्यपुनरावृत्तिरित्ययुक्तमित्याशङ्क्य तदर्थं वक्तुं श्रुतेः पूर्वार्धमुदाहरति ।। य एवमिति ।। तथाच य एवं विद्वानित्यत्रैवोत्तरायणमरणप्रतिपादनात्पुनरपि तत्प्रतिपादने पुनरुक्तिः स्यादिति भावः । एतौ वै सूर्याचन्द्रमसोरित्यस्यार्थमाह ।। पुनर्ज्ञानिन इति ।। ब्राह्मणो ब्रह्मप्राप्तियोग्यो विद्वानपरोक्षज्ञानी । सूर्याचन्द्रमसोः सकाशादेतौ महिमानावेते पूजेभिजयतिप्राप्नोति । तस्माल्लोकाद्ब्रह्मगत्वात्तस्मात्स्वापरोक्षीकृतात् ब्रह्मणः ।। महीमानं पूजामिति ।। पुंद्वारेण स्वदृष्ट्याचेत्युक्तरीत्या यथोचितां पूजामित्यर्थः ।
ननु तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तत इति चन्द्रमसः पुनरावृत्तिमार्गस्थत्वावगमात्कथं सूर्याचन्द्रमसोरित्यस्यापुनरावृत्तिमार्गप्रतिपादकत्वमित्यत आह ।। आदित्याच्चन्द्रमसमिति श्रुतेरिति ।। सूर्याचन्द्रसमोरिति सूर्यस्येव चन्द्रमसोपि विद्यमानत्वादित्यर्थः ।। सूर्याचन्द्रमसोर्महिमानमाप्नोतीति ।। यद्यपि श्रुतौ महिमानाविति द्विवचनान्तं पठ्यते तथापि सूर्येणेवचन्द्रमसाप्ययमपुनरावृत्तिमार्गस्थो मुख्यामेव पूजां प्राप्नोति । नपुनर्दक्षिणायनमार्गगतेन चन्द्रेणेवामुख्यपूजामिति सूर्यचन्द्रकृतपूजयोरेकप्रकारत्वं सूचयितुमेकवचनम् । ननु कालमरणाविवक्षायां कथं य एवं विद्वानुदगयने प्रमीयत इति कालोक्तिरित्यत आह ।। अत्र ज्ञानिन इति ।। तथापि कालेऽनुगुणे फलं किञ्चिद्विशिष्यत इति वचनादिति भावः ।। २३२६ ।।
भावदीपः
मूलोक्तश्रुतेः पूर्वशेषमाह य एवमित्यादिना ।। अथेत्यादेरर्थो दक्षिणायन इत्यादि । अतो वा इत्यादेरर्थः पुनर्ज्ञानिन इत्यादि । सूर्यचन्द्रमसोरिति लेखकदोषमूलोऽयं पाठः । देवताद्वन्द्वे चेत्यानङ्गि कृते सूर्याचन्द्रमसोरिति भाव्यत्वात् । नन्वेवं गीतायामग्निर्ज्योतिरित्यादिना ज्ञानिनो ब्रह्मप्राप्त्यर्थमुत्तरायणे मृत्युक्तिः किमर्थेत्यत आह ।। अत्रेति ।। गीतायामित्यर्थः ।। अत्रेति ।। ब्रह्मप्राप्तौ कालनियमो नेत्यत्रेत्यर्थः ।। २३२६ ।।
इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते अष्टमोऽध्यायः ।। ८ ।।
भावप्रकाशः
अर्चिरादिनेति ।। अर्चिरादिना मार्गेण ज्ञानी गच्छति स्मृतौ तथा प्रसिद्धत्वादिति सूत्रार्थः ।। ज्योतिष इति । अर्चिर्ज्योतिःशब्दयोः पर्यायत्वादेवमुक्तम् । मूले वह्नेः पुत्र इत्यनन्तरमर्चिनामक इति शेषः ।। यथोक्तमन्यत्र अग्निर्ज्योतिरिति द्वेधैवार्चिषः संप्रतिष्टितिरिति । नन्वेतो वै सूर्याचन्द्रमसोरित्यस्योत्तरायणमरणप्रतिपादकत्वेन दक्षिणायनमरणेऽप्यपुनरावृत्तिरित्ययुक्तमित्याशङ्का परिहाराय श्रुतेः पूर्वांशमुदाहरति ।। य एवं विद्वानिति । तथा य एवं विद्वानित्यत्रैवोत्तरायणप्रतिपादनात् पुनरपि तत्प्रतिपादनात् पुनरुक्तिः स्यादिति भावः ।। महिमानं सामर्थ्यमित्यन्यथाप्रतीतिनिरासाय आह । महिमानं पूजामिति ।। ननु तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्त्तत इत्युक्तत्वेन चन्द्रमसः पुनरावृत्तिमार्गस्थत्वावगमात् कथं सूर्यचन्द्रमसोरित्यस्यापुनरावृत्तिमार्गप्रतिपादकत्वमित्यत आह ।। आदित्याच्चन्द्रमसमिति श्रुतेरिति । ननूत्तरं दक्षिणमिति त एव तु निगद्यते । न तु कालविशेषोऽस्ति ज्ञानिनां नियमात्फलम् ।। ददातीत्युक्तत्वेनात्र य एवं विद्वानित्यनेनोत्तरायणे मृतस्य ब्रह्मप्राप्तिरुच्यत इत्यत आह ।। अत्र ज्ञानिन इति ।। फलाधिक्याभिप्रायमिति । कालेऽनुगुणे फलं किञ्चिद्विशिष्यत इत्युदाहृतप्रमाणशेष उक्तत्वादिति भावः ।। २३२६ ।।
वाक्यविवेकः
अल्पसलिलयुतपयसीति ।। अल्पजलमिश्रिते पयसि पयोवाचकस्य क्षीरशब्दस्य सलिलसहितक्षीरलक्षकत्वादित्यर्थः ।। एतेन जलपयःसमुदाये प्रयुक्तक्षीरशब्दस्य सकृदुक्तत्त्वेन वृत्तिद्वयायोगात् जलमात्रलक्षकत्वाभिधानमयुक्तमिति परास्तम् ।। अग्निज्योतिर्धूमेति ।। यद्यप्यग्नौ मरणमस्ति । तथापि धूमज्योतिषोर्मरणाभावात् छत्रिन्यायेन त्रिषु मरणाभाववचनमिति ज्ञेयम् ।। २३ ।।
इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीसत्यनाथयतिविरचिते
न्यायदीपिकाव्याख्याने वाक्यविवेके अष्टमोऽध्यायः ।।