गीता
एकादशोऽध्यायः
विश्वरूपस्य साक्षादीश्वरस्वरूपत्वम्
गीता
अर्जुन उवाच—
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ।। १ ।।
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ।। २ ।।
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ।। ३ ।।
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ।। ४ ।।
श्रीभगवानुवाच—
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ।। ५ ।।
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ।। ६ ।।
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ।। ७ ।।
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ।। ८ ।।
संजय उवाच—
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ।। ९ ।।
अनेक वक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणम् दिव्यानेकोद्यतायुधम् ।। १० ।।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवं अनन्तं विश्वतो मुखम् ।। ११ ।।
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ।। १२ ।।
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ।। १३ ।।
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ।। १४ ।।
तात्पर्यम्
‘आत्मानमव्ययम्’ ‘परमं रूपमैश्वरम्’ ‘सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्’ इत्यादिरूपविशेषणाच्च रूपस्येश्वरसाक्षात्स्वरूपत्वं नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च सिद्धम् । ‘मम देहे’ इत्युक्तत्वाच्चाऽदित्यादीनां भेदः सिद्धः । ‘मे रूपाणि’ ‘सर्वतोऽनन्तरूपम्’ इत्यादेः ‘द्रष्टुमिच्छामि ते रूपम्’ इत्यादेश्चैकस्यैवाभिन्नानन्तरूपत्वं च ।
प्रकाशिका
विश्वरूपाध्याये भगवत्स्वरूपं निरूप्यते कीदृशमित्यपेक्षायामाह ।। आत्मानमित्यादिना ।। ‘‘दर्शयात्मानमव्यय’’मिति प्रार्थनानन्तरं ‘‘दर्शयामास पार्थाय परमं रूपमैश्वरम्’’ इत्युक्तत्वात् रूपस्य भगवदात्मकत्वं सिध्यति भगवदात्मकत्वे रुपस्य दर्शयात्मानमिति प्रार्थनमसङ्गतमित्युत्तरं स्यात् । अव्ययः अनन्तं विश्वतो मुखमित्यादीश्वरलक्षणविशिष्टत्वादिरूपस्येश्वरात्मत्वं तत एव चिदानन्दाद्यात्मकत्वं सिध्यति । न चात्र विश्वमीश्वररूपमुच्यते । ‘‘पश्यादित्यानित्यादिवचनविरोधात् ।’’ ‘‘इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेशेत्यादिना’’ जगतो भगवद्देहगतत्वेनोक्तत्वात् । तच्चेश्वरमेकमपि अनेकरूपात्मकं द्रष्टुमिच्छामीति रूपमित्यारभ्य ‘‘पश्यामि पार्थ रूपाणि शतशोथ सहस्रशः’’ इत्युक्तत्वात् । ‘‘अनेकवाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपमित्युक्तत्वात् । अन्यथा एकं द्रष्टुमिच्छतोऽनेकरूपप्रदर्शनमसङ्गतं स्यात् ।। ११४ ।।
न्यायदीपिका
अत्र ध्यानार्थं विश्वरूपस्थितिरुच्यत इत्यध्यायप्रतिपाद्यस्य स्फुटं प्रतीयमानत्वादनुक्तिः । तत्र विश्वरूपस्य प्रागुत्तरं चादृष्टत्वात्तदानीमेव किंचित्प्रधानादिकं उपादनीकृत्य भगवता निर्मायार्जुनाय प्रदर्श्य विश्वरूपं नाशितमिति शङ्कां निवारयति ।। आत्मानमिति ।। दर्शयात्मानमव्ययमित्यात्मप्रदर्शनप्रार्थनानन्तरं दर्शयामास पार्थाय परमं रूपमैश्वरमिति विश्वरूपप्रदर्शनस्योक्तत्वाद्विश्वरूपस्य साक्षादीश्वरस्वरूपत्वं सिद्धम् । अन्यथाप्रदर्शनस्य प्रार्थनाननुगुणत्वप्रसङ्गात् । देवमित्युक्तया साक्षादपि तत्सिद्धम् । अव्ययं, परमं, सर्वाश्चर्यमयम् अनन्तं विश्वतोमुखमित्यादीश्वरविशेषणयुक्ततया विश्वरूपस्योक्तत्वाच्च तस्य साक्षादीश्वरस्वरूपत्वं सिद्धम् । साक्षादीश्वरस्वरूपत्वे च तस्य नित्यत्वं चिदानन्दाद्यात्मकत्वं च सिद्धम् । भगवतो नित्यत्वाच्चिदानन्दाद्यात्मकत्वात् । अतो विश्वरूपमचेतनोपादानकं निर्मायेत्युक्तमयुक्तमिति भावः ।
ननु विश्वमेव रूपं विश्वरूपं । शशिसूर्यनेत्रमित्यादेः । अतः कथं साक्षाद्भगवत्स्वरूपं स्यादित्यत आह ।। ममेति ।। पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा । मम देहे गुडाकेशेत्यादिना विश्वस्य विश्वरूपाश्रितत्वेनोक्तत्वात्ततस्तस्य भेदसिद्धेर्युक्तं विश्वरूपस्य साक्षाद्भगवत्स्वरूपत्वमिति भावः । शशिसूर्यनेत्रमित्यस्य शशिसूर्याश्रयनेत्रत्वमर्थः । ननु विश्वरूपस्यानन्तरूपसमुदायत्वान्न भगवत्स्वरूपत्वं युक्तम् । एकेनानेकभेदस्य विरुद्धत्वादित्यत आह ।। मे रूपाणीति ।। न विश्वरूपस्यानन्तरूपसमुदायत्वादीश्वररूपत्वायोगः । पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । पश्यामि त्वां सर्वतोऽनन्तरूपमित्यादेरनन्तरूपाणां प्रदर्शितत्वावगमाद्द्रष्टुमिच्छामि ते रूपमित्यादेरेकरूपप्रदर्शनस्यैव प्रार्थितत्वावगमाच्चैकस्यैवानन्तरूपत्वसिद्धेः । नचैतद्विरुद्धम् । तेषामनन्तरूपाणामपि परस्परमभिन्नत्वादिति भावः ।
किरणावली
अत्र ध्यानार्थमिति ।। दशमान्ते विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदिति व्याप्तोपासनार्थं व्याप्तत्वं संक्षेपेणोक्तम् । न च सङ्क्षेपेणोक्तस्य ध्यानं शक्यं भवति । बुद्धावनारोहात् । अतो यथाभूते व्याप्तरूपे विस्तरेण श्रुते ध्यानं शक्यं भवति । तथा ध्यानार्थं विश्वरूपस्थितिरनेनाध्यायेनोच्यत इत्यर्थः । तथाच भाष्यम् । यथा श्रुते ध्यानं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यत इति ।। तत्र विश्वरूपस्येति ।। अध्यायप्रतिपाद्ये विश्वरूपविषये इति शङ्कां निवारयतीत्यन्वयः । इतीत्युक्तशङ्काप्रकारमाह ।। विश्वरूपस्य प्रागुत्तरं चेति ।। द्रष्टुमिच्छामि ते रूपमिति दर्शनप्रार्थनेन प्रागदृष्टत्वस्य, स्वकं रूपं दर्शयामास भूयः इत्युक्त्योत्तरकालमदृष्टत्वस्य चावगमात् स्वकमित्युक्त्याऽभिनवतया प्रदर्शितस्य भिन्नशरीरत्वावगमात् व्याप्तस्य कार्यस्य व्याप्तप्रधानोपादानकत्वौचित्यात्तेजोमयं विश्वमिति साक्षादेव तेजःकार्यत्वावगमात्तदानीमेव किञ्चित्प्रधानादिक मुपादानीकृत्य भगवता निर्मायार्जुनस्य प्रदर्श्य नाशितमिति शङ्कामित्यर्थः । मूले इत्यादिरूपविशेषणाच्चेति चशब्दसमुच्चेयाभावात्सोऽयुक्त इत्यतो दर्शयात्मानमव्ययं, दर्शयामास पार्थाय, परमं रूपमैश्वरमित्युक्तया रूपस्य साक्षादीश्वरस्वरूपता सिद्ध्यतीति भावेन वाक्यद्वयमात्मप्रदर्शनप्रार्थनापरिहाररूपयुक्तिप्रतिपादकतया तावद्योजयति ।। दर्शयात्मानमित्यादिना ।। साक्षादीश्वरस्वरूपत्वमिति ।। नेश्वरेणाविष्टतयेश्वरस्वरूपत्वं किं तु साक्षादीश्वरतन्मात्रत्वमिति भावः ।। अन्यथेति ।। साक्षादीश्वरस्वरूपत्वाभावे प्रदर्शनस्यात्मानं दर्शयेति प्रार्थनाननुगुणत्वप्रसङ्गादित्यर्थः । देवमित्युक्तयाऽपि रूपस्य साक्षात्स्वरूपत्वं सिद्धमिति योजयति ।। देवमित्युक्तयेति ।। न केवलं प्रार्थनान्यथानुपपत्त्या दर्शितं रूपं साक्षादीश्वरात्मकमित्यवगम्यते, किंतु सर्वाश्चर्यमयं देवमित्यत्र देवं दर्शयामासेत्युक्तया साक्षादपि अर्थापत्त्यनुसन्धानमन्तरेण श्रुतितोऽपि तत्साक्षादीश्वररूपत्वं सिद्धमित्यर्थः ।
न केवलं श्रुत्यर्थापत्तिभ्यां तत्सिद्धिः । किंतु लक्षणमुखेनापि तत्सिद्धिरिति भावेन प्रवृत्तं विशेषणाच्चेत्येतद्व्याचष्टे ।। अव्ययमित्यादिना ।। इत्यादीत्यादिपदेन विश्वरूपं प्रति त्वमक्षरं परमं वेदितव्यमित्यादि भगवद्विशेषणानां ग्रहणम् । मूले तत एव नित्यत्वादेव चिदानन्दाद्यात्मकत्वमिति प्रतीयते तदयुक्तम् । गगनादौ व्यभिचारादित्यतस्तत एवेश्वरस्वरूपत्वादेव नित्यत्वं चिदानन्दाद्यात्मकत्वं च सिद्धमित्यन्वयमाह ।। साक्षादीश्वरस्वरूपत्वे चेत्यादिना ।। मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसीति मम देह इत्यस्य पूर्वेणाप्यन्वयमुपेत्याह ।। पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।। मम देह इति ।। न केवलं शशिसूर्यनेत्रमित्यस्य शशिसूर्यौ नेत्रयोर्यस्येति विग्रहाश्रयणेनाबाधकत्वं, मम देह इत्युक्तत्वाच्चेति साधकसमुच्चायकतया चशब्दं मत्त्वा व्याचष्टे ।। शशिसूर्यनेत्रमित्यादेरिति ।। मूले आदित्यादीनां भेदश्च सिद्ध इति प्रमेयान्तरसिद्धिसमुच्चये चशब्दः । द्रष्टुमिच्छामि ते रूपमित्यादेश्चेत्यत्रादिपदेन पश्य मे पार्थरूपाणि सर्वतोऽनन्तरूपमित्यादेः प्रदर्शितस्यानन्तरूपत्वं सिद्धम् । द्रष्टुमिच्छामितेरूपमित्यादेरेकप्रदर्शनस्य प्रार्थितत्वादेकत्वं सिद्धम् । ततश्चैकस्यानन्तत्वान्यथानुपपत्त्या भिन्नानन्तरूपत्वं च सिद्धमित्यर्थमभिप्रेत्य व्याचष्टे ।। न विश्वरूपस्येत्यादिना ।। ननु भगवद्रूपाणामभिन्नत्वे बहुत्वं विरुद्धम् । तस्य भेदसमानाधिकरणत्वात् । स्वयमेकत्वसङ्ख्याश्रये स्वेन साकं बहुत्वसङ्ख्यायाः साक्षाद्विरोध इति शङ्कायामेकं रूपमिति मूलवाक्यं प्रवृत्तम् । एकमभिन्नमेकत्वसङ्ख्याश्रयमपि हरे रूपमचिन्त्यैश्वर्याख्ययोगत उपायतो बहुसङ्ख्यागोचरं च बहुत्वसङ्ख्याश्रयोऽपि भवति । यद्वा बहुसङ्ख्याप्रतिपादकबहुवचनविषयश्च । बहुषु बहुवचनप्रयोगादेकस्मिन्नपि बहुत्वस्य अचिन्त्यशक्तयोपपत्तेः ।
भावदीपः
ध्यानार्थमिति ।। विष्टभ्याहमिति पूर्वत्र संक्षेपेणोक्तस्य व्याप्तरूपोपासनस्य बुद्धावनारोहेणाशक्यतया विस्तरेण श्रुते सत्येव ध्यानं सुशकमिति ध्यानार्थं प्रागुक्तव्याप्तरूपस्थितिर्विस्तरेणात्रोच्यत इत्यर्थः । अनेन पूर्वानन्तरता च सिद्धेति भावः । प्रागुत्तरं चेति ।। पूर्वोत्तरकाल(सम्बन्ध)मित्यर्थः । अग्रे साध्यत्रयोक्तेः केन किं सिद्धमित्यत आह ।। दर्शयेत्यादिना ।। इत्युक्त्येति ।। क्रीडादिगुण(क)त्वरूपभगवल्लक्षणोक्त्येत्यर्थः । मम देह इत्यस्य पूर्वेणाप्यन्वयमुपेत्याह ।। मरुतस्तथा । मम देह इति ।।
भावप्रकाशः
यथाश्रुते ध्यानं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यत इति भाष्यं मनसि निधायैतदध्यायप्रतिपाद्यमाह ।। अत्र ध्यानार्थमिति । दशमान्ते विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदिति व्याप्तोपासनं सङ्क्षेपेणोक्तम् । न च सङ्क्षेपेणोक्तस्य ध्यानं शक्यं बुद्धावनारोहात् । अतो यथाभूते व्याप्तरूपे विस्तरेण श्रुते ध्यानं शक्यं भवति तथाभूतविश्वरूपस्थितिरर्जुनाय प्रदर्शितस्यानुवादेनात्रैकादशाध्याये उच्यत इत्यर्थः ।। आत्मानमव्ययं परमं रूपमैश्वरमिति वाक्यद्वयस्यात्मदर्शनप्रार्थनपरिहाररूपयुक्तिप्रतिपादकत्वमित्यभिप्रेत्य व्याचष्टे ।। दर्शयात्मानमव्ययमितीति । देवमित्यस्य विशेष्यवाचिकत्वेन पृथग्युक्तित्वमित्यभिप्रेत्याह ।। देवमितीति । अपिशब्दो देवमित्युक्तयाऽपीति भिन्नक्रमः ।। तदिति । विश्वरूपस्येश्वरस्वरूपत्वमित्यर्थः ।। अव्ययमित्यदीनां विशेषणप्रतिपादकेन युक्तयन्तरत्वमित्याशयेनाह । अव्ययमिति ।। नित्यत्वमित्यस्य तत एवेत्यनन्तरं सम्बन्ध इत्यभिप्रेत्याह ।। साक्षादीश्वरस्वरूपत्वे च तस्य नित्यत्वमिति ।
विश्वरूपशब्दबलादेवास्येश्वरसाक्षाद्रूपत्वाभावः सिध्यतीति शङ्कते । ननु विश्वमेवेति । पूर्वपक्ष्युक्तयुक्तेः सावकाशत्वमाह ।। शशिसूर्यनेत्रमित्यस्येति ।
वाक्यविवेक— मदनुग्रहायेत्यादिगीताश्लोकानां नाध्यायान्तरत्वमपि तु पूर्वाध्यायशेषत्वं अत एव मूले अध्यायप्रतिपाद्योक्तमित्यत आह । अत्र ध्यानार्थमिति । रूपविशेषणाच्चेति समुच्चायकचशब्दोनुपपन्नः पूर्वहेतोरनभिमतत्वादित्यत आह । दर्शयात्मानमितीति । आत्मानमव्ययमित्यनतरं आत्मदर्शनानन्तरमिति शेषः ।। परमं रूपमैश्वरमित्यनन्तरं इति विश्वरूपप्रदर्शनस्योक्तत्वादिति शेषो द्रष्टव्यः । ततश्च आत्मानमव्ययम् परमं रूपमैश्वरमित्यन्तेन एको हेतुरुक्तः ।। सर्वाश्चर्यमयमित्यादिना विशेषणाच्चेत्यन्तेन हेत्वन्तरमुक्तमिति समुच्चायकचशब्दप्रयोगो युक्त इति भावः ।।