गीता

अवैष्णवकर्मपरित्यागी सर्वारम्भपरित्यागी

गीता

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।

सर्वारंभपरित्यागी यो मद्भक्तः स मे प्रियः ।। १६ ।।

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।

शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ।। १७ ।।

समः शत्रौ च मित्रे च तथा मानापमानयोः ।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ।। १८ ।।

तुल्यनिन्दास्तुनिर्मौनी संतुष्टो येन केनचित् ।

अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ।। १९ ।।

तात्पर्यम्

अवैष्णवसर्वारम्भपरित्यागी । सर्वारम्भाभिमानत्यागेन फलत्यागेन भगवति समर्पणरूपेण च त्यागी । ‘सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः’ ‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा’ इत्यादेः ।।

भक्तिं ज्ञानं च वैराग्यमृते यो नेच्छति क्वचित् ।

शुभाशुभपरित्यागी विद्वद्भिः कीर्तितो हि सः’ इति च ।

प्रायः सुखादिषु समः प्रायो हर्षादिवर्जितः ।

तथोच्यते यथाऽल्पस्वो निःस्व इत्युच्यते बुधैः ।

नहि मुख्यतया साम्यं कस्यचित् सुखदुःखयोः ।

न च हर्षादिसन्त्यागो यावन्मुक्तिः कुतश्चन’ इति च ।

हृतिर्मदादधर्माय हर्षो नाम प्रकीर्तितः’

इति शब्दनिर्णये ।। १६१९ ।।

प्रकाशिका

‘‘सर्वारम्भपरित्यागी यो मद्भक्त’’ इत्यत्र सर्वारम्भपरित्यागस्य विष्णुभजनेना विरोधं दर्शयति ।। अवैष्णवेत्यादिना ।। ‘‘सर्वकर्मपरित्यागं प्राहुस्त्यागं विचक्षणाः’’ इत्यादिवाक्यपर्यालोचनया सर्वारम्भपरित्यागश्चतुर्धा युज्यत इत्यर्थः । शुभाशुभपरित्यागी भक्तिमानित्यत्र भक्त्यादिव्यतिरिक्तशुभपरित्यागी विवक्षित इत्याह ।। भक्तिमिति ।। ‘‘यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।। शीतोष्णसुखदुःखेषु सम’’ इत्यादेरर्थमाह ।। प्राय इत्यादिना ।। यो न हृष्यतीत्येतदशुभविषयमित्याह ।। हृतिरिति ।। १६१९ ।।

न्यायदीपिका

ये तु सर्वाणि कर्माणीत्यादि प्रपञ्च्यते ।। ओष्टेति ।। तत्र सर्वारंभपरित्यागीत्येतदन्यथाप्रतीतिनिरासाय चतुर्धा व्याचष्टे ।। अवैष्णवेति ।। उक्तार्थानुपपादयति ।। सर्वेति ।। सर्वकर्मफलत्यागमित्यनेन सर्वारम्भफलपरित्यागेन सर्वारंभपरित्यागीत्युक्तं सिध्यति । मयीत्यनेन सर्वारंभाभिमानत्यागेन सर्वारंभाणां भगवति समर्पणेन च सर्वारम्भपरित्यागीत्युक्तं सिध्यति । मयीति वाक्यस्य स्मृत्यैव तथा व्याख्यातत्वात् । आदिपदगृहीतेन सर्वधर्मान्परित्यज्येत्यादिनाऽवैष्णवारम्भपरित्यागेन सर्वारम्भपरित्यागीत्युक्तं सिद्ध्यति । तस्य तथा सयुक्तिकं व्याकरिष्यमाणत्वात् ।।

ननु सर्वारंभपरित्यागीत्यस्य शुभाशुभपरित्यागीति प्रपञ्च्यमानत्वादवैष्णवारम्भपरित्यागीत्यादिकं किं विशिष्याभिधीयत इत्यतस्तत्स्मृत्यैवोक्ताविरुद्धतया व्याचष्टे ।। भक्तिमिति ।। उपलक्षणं चैतत् । तत्साधनतया वैष्णवारम्भांश्चेति ज्ञातव्यम् । समदुःखसुखः हर्षामर्षभयोद्वेगैर्मुक्त इत्येतन्नियमप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे ।। प्राय इति ।। तथोच्यते सुखादिषु समो हर्षादिवर्जित उच्यते । एवं चेदल्पवैषम्यादेर्विद्यमानत्वात्कथं तदभावोक्तिरित्यत आह ।। यथेति ।। मुख्यार्थ एव किं न स्यादित्यत आह ।। नहीति ।। ननु हर्षस्य गुणत्वात्कथं तत्परित्यागोऽपेक्षिततयोच्यत इत्यतो हर्षशब्दस्य हेयार्थतां स्मृत्यैव दर्शयति ।। हृतिरिति ।। मनस इति शेषः ।। १६१९ ।।

किरणावली

ये तु सर्वाणि कर्माणीत्यादि प्रपञ्च्यत इति ।। प्रपञ्चस्तदुपलक्षितस्याभिधानमिति द्रष्टव्यम् ।। अन्यथाप्रतीतीति ।। आरम्भसामान्यनिषेधप्रतीतिनिरासायेत्यर्थः ।। चतुर्धेति ।। अवैष्णवसर्वारम्भपरित्यागीत्येकं व्याख्यानम् । सर्वारम्भाभिमानत्यागेनेत्यतः परं त्यागी भवति । इत्यनुकृष्टस्यान्वयः मूले एतच्च द्वितीयं व्याख्यानम् । फलत्यागेनेत्यतः परं त्यागीत्यस्यानुकर्षेण भवतीत्यस्य सम्बन्धः । एतत्तृतीयं व्याख्यानम् । समर्पणरूपेण च त्यागीत्यतः परं भवतीत्यस्यानुवृत्त्यान्वयः । एतच्चतुर्थं व्याख्यानम् । तत्र त्यागीत्यस्य सर्वारम्भपरित्यागीत्यर्थः ।। स्मृत्यैवेति ।। तृतीयाध्यायेनाहंकर्तेत्यादिस्मृत्यैवेत्यर्थः ।। व्याकरिष्यमाणत्वादिति ।। अष्टादशाध्याय इति शेषः ।। किं विशिष्येति ।। शुभपदेन वैष्णवारम्भस्यापि व्यावर्तितत्वेनावैष्णवेति किं विशिष्योच्यत इत्यर्थः ।। उक्ताविरुद्धतयेति ।। वैष्णवारम्भाभ्यनुज्ञापकावैष्णवेत्युक्ताविरुद्धतया शुभपदं ज्ञानभक्तिवैराग्यान्यशुभपरतया व्याचष्ट इत्यर्थः । उपलक्षणस्य कर्तव्यत्वे हेतुं सूचयन्नुपलक्ष्यमंशं दर्शयति ।। तत्साधनतयेति

।। १६१९ ।।

भावदीपः

अन्यथाप्रतीतीति ।। आरम्भसामान्यनिषेधप्रतीतीत्यर्थः । स्मृत्यैव व्याख्यातत्वादिति । तृतीये ‘‘नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलमि’’ति स्मृत्या नाहं कर्तेत्यभिमानत्यागः । हरिः कर्तेत्यादिना च भगवति समर्पणरूपः कर्मन्यास इति व्याख्यातत्वादिति भावः ।। व्याकरिष्यमाणत्वादिति ।। अष्टादशे (अन्य) सर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनेत्यादिनेत्यर्थः ।। उक्ताविरुद्धतयेति ।। अवैष्णवेत्याद्युक्ताविरुद्धतया शुभपदस्य ज्ञानभक्तिवैराग्यान्यशुभपरतया व्याचष्ट इत्यर्थः । एतेन वैष्णवेत्यस्य ज्ञानभक्तिवैराग्यान्यानीत्युक्तम् ।। तत्साधनतयेति ।। ज्ञानभक्तिवैराग्यसाधनतया तुलस्याहरणभगवदाराधनतीर्थयात्राद्यारंभांश्च विनेत्यर्थः ।। व्यस्तसाधनकथन इति ।। असमस्तसाधनकथन इत्यर्थः ।। १७१९ ।।

इति राघवेन्द्रयतिकृते श्रीमद्गीतातात्पर्यटीकाभावदीपे द्वादशोऽध्यायः ।। १२ ।।

भावप्रकाशः

इत्यादि प्रपञ्च्यत इति । तदुपलक्षितस्याभिधानेन प्रपंचयतीत्यर्थः ।। अक्षरोपासकानधिकृत्यैतदुच्यत इत्यसत् ।। समीहितसम्बन्धे सति व्यवहितसम्बन्धग्रहणायोगात् ।। यो मद्भक्तः समे प्रिय इत्यादिवचनाच्च ।। मयि सर्वाणीत्यस्य भगवति समर्पणेन सर्वारंभपरित्यागीत्येतन्मात्रोपपादकत्वमिति प्रतीतिनिरासायाह ।। मयीत्यनेनेति । तथा व्याख्यातत्वादिति ।। नाहं कर्ता हरिः कर्तात्यादिना तृतीये तथा व्याख्यातत्वादित्यर्थः ।। व्याकरिष्यमाणत्वादिति । अन्यसर्वधर्मान्परित्यज्येत्युक्तशेषत्वेनैव सर्वधर्मानिति वचनमित्यनेनाष्टादशे व्याकरिष्यमाणत्वादित्यर्थः ।। अन्यथार्थकल्पने मन्मनस्त्वादिकं परित्यजानुतिष्टचेति व्याहतोक्तिः स्यादिति युक्तेर्वक्ष्यमाणत्वात् सयुक्तिकमित्युक्तम् ।। १६१९ ।।

इति श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते

तात्पर्यनिर्णयन्यायदीपिकाभावप्रकाशे द्वादशोऽध्यायः ।।

Load More