गीता

हरिः शुभान् भुङ्क्ते

गीता

निर्मानमोहा जितसङ्गदोषा

अध्यात्मनित्या विनिवृत्तकामाः ।

द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै

र्गच्छन्त्यमूढाः पदमव्ययं तत् ।। ५ ।।

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।। ६ ।।

ममैवांशो जीवलोके जीवभूतः सनातनः ।

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ।। ७ ।।

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ।। ८ ।।

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।

अधिष्ठाय मनश्चायं विषयानुपसेवते ।। ९ ।।

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ।। १० ।।

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ।। ११ ।।

यदादित्यगतं तेजो जगद् भासयतेखिलम् ।

यच्चन्द्रमासि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।। १२ ।।

तात्पर्यम्

शाब्दादीन् प्रत्यथ यदा जीवमादाय यात्यतः ।

गृहीत्वैतानि संयाति वायुर्गन्धानिवाऽशयात् ।।

किञ्चित् सादृश्यमात्रेण भिन्नोऽप्यंश इवोच्यते ।

ईश्वरस्तु यदा त्वस्य शरीरं विशति प्रभुः ।

मनः पष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ।।

भुङ्क्ते हरिः शुभान् भोगानिन्द्रियेषु व्यवस्थितः ।

पूर्णानन्दोऽपि भगवान् क्रीडया भुङ्क्त एव तु ।। ११२ ।।

प्रकाशिका

‘‘ममैवांशो जीवलोके जीवभूत’’ इत्यस्यार्थ घटयति ।। यदंशेत्यादिना ।। क्षेत्रगतविपादाकृतौ विष्णुपादाज्जीवराशौ विष्ण्वंशशब्दः सादृश्यमात्रादित्यर्थः ।।

‘‘मनः षष्ठानीत्यादेरर्थ’’ उच्यते ।। ईश्वरस्त्वि त्यादिना ।। भुञ्जानं वा गुणान्वितमेवेश्वरो भुङ्क्ते न तु दोषात्मकमिति ज्ञातव्यम् ।।

न्यायदीपिका

अंश एव किं न स्यादिति चेन्न । भिन्नत्वात् । तर्ह्यंशाभासोऽपि कथमित्यत आह ।। किञ्चिदिति ।। अनेन ममैवेत्युक्तार्थं भवति । किञ्च जीवस्य विषयान्प्रतीन्द्रियप्रेरणादिकमपीश्वराधीनमिति तत्प्रपत्तिर्जगद्वृक्षच्छेदनोपाय इति भावेन भगवन्महिमानं दर्शयति ।। ईश्वर इति ।। प्रकृतिस्थानि शरीरस्थानि । अनेन मनः षष्टानीत्युक्तार्थं भवति । अथेत्यनेन यच्चापीत्युक्तार्थं भवति । अतः शरीरतः । भुङ्त इत्यनेन श्रोत्रमित्यस्यार्थ उक्तो भवति । शुभानित्यनेन गुणान्वितमित्युक्तार्थं भवति । ईश्वरस्य पूर्णानन्दत्वात्किं विषयभोगेनेत्यत आह ।। पूर्णेति ।। ५१२ ।।

किरणावली

तर्ह्यंशाभासोपीति ।। यदि भिन्नत्वमङ्गीक्रियते तर्ह्यंशवदवभासमानत्वं कथं स्यादित्यर्थः ।। अनेनेति ।। जीवलोके जीवच्छरीरे वर्तमानः सनातनोऽनादिनित्यः जीवभूतः प्राणधारको वर्तमानः प्राणीति यावत् । ममांश इवैव न तु मत्स्यादिवत्साक्षादंश इति व्याख्यातमित्यर्थः ।। इन्द्रियप्रेरणादिकमिति ।। विषयान्प्रतीन्द्रियप्रेरणम् । आदिपदेन विषयेभ्य इन्द्रियाणां परावृत्तिर्गृह्यते ।। तत्प्रपत्तिरिति ।। एवमतिसमर्थभगवत्प्रपत्तिरित्यर्थः । मूले ईश्वरस्त्वीश्वर एव यदातुयदैवेत्यर्थः । मन इत्यतः पूर्वं तदेत्यनुसन्धेयम् ।। अनेनेति ।। ईश्वरः शरीरं यद्यदाप्नोति तदा प्रकतिस्थानि मनः षष्ठानीन्द्रियाणि विषयान्प्रतिकर्षतीत्युक्तार्थमित्यर्थः ।। अथेत्यनेनेति ।। यदेश्वरो जीवमादायातः शरीरादुत्क्रम्य यात्यथ तदा वायुराशयात्पुष्पादेर्गन्धानिव गन्धवतोऽवयवानिवातः शरीरादे तानीन्द्रियाणि गृहीत्वा संयातीत्यनेनेत्यर्थः ।। श्रोत्रमित्यस्यार्थ इति ।। न केवलं विषयान्प्रति जीवेन्द्रियकर्षकत्वं किंत्विन्द्रियान्तर्गतेन रूपेण भोक्तृत्वं चास्तीति भावेन प्रवृत्तस्य श्रोत्रमित्यादेरित्यर्थः । ननु शुभानित्यस्य व्याख्येयं श्रोत्रमिति श्लोकेनोपलभ्यत इत्यत आह ।। शुभानित्यनेनेति ।। यदि जीवातिरिक्तो विषयान्प्रतीन्द्रियगणकर्षकः जीवमिन्द्रियाणि चादायोत्क्रमन्निन्द्रियेषु स्थित्वा भुंजन्नीश्वरोऽस्ति तर्हि तथा किमिति न दृश्यत इत्याशङ्कापरिहारायोत्तरं श्लोकद्वयं प्रवृत्तम् । तत्र दुःखादिभोगवारणाय गुणान्वितमेव भुंजानमित्युक्तम् । तत्र गुणान्वितमित्यस्य शुभानित्यनेनार्थ उक्तो भवतीत्यर्थः । एवमर्थानुक्तौ गुणान्वितमित्यस्य भुंजानविशेषणत्वेन कैश्चिद्व्याख्यातत्वात्तथा प्रतीतिः स्यादिति भावः ।। किंविषयभोगेनेति ।। विषयभोगेन विना पूर्णानन्दत्वात्किं विषयभोगेनेत्यर्थः ।। क्रीडया भुङ्क्त एव त्विति मूलस्य भुङ्क्त एव पूर्णानन्दत्वान्न भुङ्क्त इति नेत्यर्थः । क्रीडयैवेति वाऽन्वयः ।। ५१२ ।।

भावदीपः

प्रकृतिस्थानीत्यत्र प्रकृतिशब्दस्तत्कार्यपर इत्युपेत्याह ।। शरीरस्थानीति ।।५१२।।