गीता
धृतित्रैविध्यम्
गीता
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ।। ३३ ।।
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ।। ३४ ।।
तात्पर्यम्
‘वैष्णवो भक्तियोगो यस्तद्युक्ता सात्त्विकी धृतिः’ इति च । विहितविषयैवेत्यव्यभिचारिणी ।। ३३,३४ ।।
प्रकाशिका
‘‘धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः ।।
योगेना व्यभिचारिण्या धृतिस्सा पार्थ सत्विकी’’
त्यत्र योगेनेत्यादिपदार्थमाह ।। वैष्णव इत्यादिना ।। ३३३४ ।।
न्यायदीपिका
योगेनेत्युपायबलेनेत्यल्पार्थप्रतीतिनिरासाय तद्वाक्यान्तरेण व्याचष्टे ।। वैष्णव इति ।। अनेन योगेन युक्तयेति पूरितं भवति । धृतिश्चेद्व्यभिचारशून्यैवातोऽव्यभिचारिण्येति विशिष्यास्या एव किमुच्यत इत्यत आह ।। विहितेति ।। नचात्राव्यभिचारित्वमस्खलितत्वमिति भावः ।। ३३,३४ ।।
किरणावली
धृतिश्चेद्व्यभिचारशून्यैवेति ।। त्रिविधापि धृतिः स्वस्व विषयेभ्योऽस्खलितैवातो राजसादितः को विशेषस्सात्विकधृतेरिति भावः । नात्राव्यभिचारित्वमस्खलितत्वमिति येन त्रितयसाधारणं स्यात् । किंतु विहितैकविषयत्वमिति भावः ।। ३३,३४ ।।
भावदीपः
धृतिश्चेद् व्यभिचारशून्यैवेति ।। स्खलनशून्यैवेत्यर्थः ।। ३३३४ ।।
भावप्रकाशः
धृतिश्चेद्व्यभिचारशून्यैवेति । त्रिविधानामपि धृतिः स्वस्वविषयेभ्योऽस्खलितैवेत्यर्थः ।। अस्या एव किमुच्यत इति । सात्विकधृतेरेव किमुच्यत इत्यर्थः ।। नात्राव्यभिचारित्वमस्खलितत्वमिति । यत्किञ्चिदर्थादस्खलितत्वं नाव्यभिचारित्वे किंतु श्रुतिविहितादेव नचैतद्राजसतामसर्धृत्योर्विद्यत इति विशिष्य सात्विकधृतेरेवैतदुक्तिर्युक्तेति भावः ।। ३३३४ ।।
वाक्यविवेक
अव्यभिचारि शब्दस्यास्खलनमर्थ इति मत्वा शङ्कते । धृतिश्चेदिति ।। ३३,३४ ।।