गीता

गीता

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ।। ९ ।।

तात्पर्यम्

यस्य यत्र यथा वृत्तिर्विहिता वर्तनं तथा ।

ज्ञानं वाऽपि समत्वं तद्विषमत्वमतोऽन्यथा’ इति महाविष्णुपुराणे ।

अनिमित्तस्नेहवांस्तु सुहृज्ज्ञात्वोपकारकृत् ।

मित्रं वधादिकृदरिर्द्वेष्यस्त्वप्रियमात्रकृत् ।

उदासीनः स्नेहवतोऽप्यस्नेही तत्कृतानुकृत् ।

मध्यस्थ इति विज्ञेयः सुहृदेषु विशिष्यत’ इति नारदीये ।। ९ ।।

प्रकाशिका

सुहृदित्येतं श्लोकं व्याचष्टे । यस्येत्यादिना ।। ९ ।।

न्यायदीपिका

ननु सुहृदादीनां विषमत्वात्कथं तेषु ज्ञानिनः समबुद्धित्वमुच्यत इत्याशङ्कां स्मृत्यैव परिहरति ।। यस्येति ।। सुहृन्मित्रपदयोररिद्वेष्यपदयोरुदासीनमध्यस्थपदयोश्चैकार्थत्वप्रतीतिनिरासाय स्मृत्यैव तदर्थमाह ।। अनिमित्तेति ।। ज्ञात्वोपकारकृदिति ।। स्वयमेवतस्य क्लेशस्थानं निरूप्योपकारकर्तेत्यर्थः ।। ९ ।।

भावप्रकाशः

मूले अनिमित्तस्नेहवानिति । प्रत्युपकारनिरपेक्षयोपकारकृदित्यर्थः ।। ज्ञात्वोपकारकृत्वं यथा सुहृदः सकाशात् व्यावृत्तं स्यात् तथा व्याचष्टे ।। स्वयमेव तस्येति । क्लेशस्थानं निरूप्य यो रक्षां करोति स मित्रमित्यन्यत्रोक्तत्वादिति भावः ।। ९ ।।

वाक्यविवेकः

सुहृदादीनां विषमत्त्वादिति । हरिभक्तत्वहरिद्देषित्वादिस्वभावत्त्वेन विषमत्वादित्यर्थः ।। ९ ।।

Load More