गीता
गीता
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ।। २७ ।।
तात्पर्यम्
‘मार्गौ ब्रह्म च यः पश्येत् साक्षादेवापरोक्षतः ।
न्यायदीपिका
मार्गकथनस्य प्रयोजनमुच्यते ।। नैते इति ।। तत्र परोक्षतः सृतिज्ञानमात्रेणेदं फलमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे ।। मार्गाविति ।। योगीत्यस्यार्थो ब्रह्म च पश्येदिति
।। २७ ।।
किरणावली
सृतिज्ञानमात्रेणेति ।। मार्गज्ञानमात्रेणेत्यर्थः । मार्गौ ब्रह्मचयः पश्येदिति मूले पश्यार्थैश्चानालोचन इति स्मरणादालोचनभिन्नज्ञानमात्रेपि पश्येदिति प्रयोगसम्भवात्पश्येदित्यस्य जानीयादित्यर्थ प्राप्तौ तन्निरासायोक्तमपरोक्षतः पश्येदिति । साक्षादिति चतुर्मुखव्यावृत्त्यर्थं ब्रह्मविशेषणम् । मुख्यं ब्रह्मेत्यर्थः । साक्षात्प्रत्यक्षमुख्ययोरिति वचनात् ।। योगीत्यस्यार्थ इति ।। योगो ज्ञानं तदस्यास्तीति योगी ब्रह्मापरोक्षज्ञानीत्यर्थ इति भावः ।। २७ ।।
भावप्रकाशः
पश्यार्थैश्चानालोचन इत्यत्र पश्यतेरचाक्षुषज्ञानार्थत्वदर्शनात्तन्निवृत्यर्थं मूलेऽपरोक्षत इत्युक्तम् ।। साक्षादिति तु चतुर्मुखव्यावृत्यर्थं ब्रह्मविशेषणम् । तेन च मुख्यं ब्रह्मेति सिध्यतीति भावः ।। २७ ।।
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ।। २८ ।।
इति श्रीभगवद्गीतायामष्टमोऽध्यायः
तात्पर्यम्
—
सर्वपुण्यातिगोऽमुह्यन् यात्यसौ ब्रह्म तत् परम्’ इति च ।। २८ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्ये अष्टमोऽध्यायः
प्रकाशिका
‘नै ते सृतीत्यादेरर्थमाह ।। मार्गाविति ।। २८ ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां पद्मनाभतीर्थविरचितायां अष्टमोऽध्यायः ।।
न्यायदीपिका
वेदेष्वित्यस्यार्थः सर्वपुण्यातिगो यात्यसौ ब्रह्म तत्परमिति ।। २८ ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां अष्टमोऽध्यायः ।। ८ ।।
किरणावली
वेदेष्वित्यस्यार्थ इति ।। वेदेष्वितिसमस्तश्लोकस्यार्थ इत्यर्थः । तत्र विवेकः । उत्तरश्लोके वेदादिषु यत्पुण्यफलं प्रदिष्टमुपदिष्टं तदत्येतीत्यस्यार्थः सर्वपुण्यातिग इति । परंस्थानमुपैतीत्यस्यार्थो याति ब्रह्मतत्परमिति । असाविति योगीत्यस्यानुवाद इति भावेन टीकायामसावित्यनुवादेन योगीति व्याख्यानम् । अमुह्यन्नित्यप्रमोहोऽविस्मरणम् । तथा च मागौ गम्यं ब्रह्मचाविस्मरन् सर्वदातत्स्मरणं कुर्वन्मार्गौ ब्रह्मचापरोक्षतो यः पश्येदित्यन्वयः । एतेनैतदपिपरास्तम् । सूत्रभाष्ये गत्यनुस्मरणाद्ब्रह्म चन्द्रं वा यात्यसौ ध्रुवम् । अननुस्मरतः काले स्मरणं प्राप्य वैगतिरिति गत्यनुस्मरणस्यैव गतिहेतुत्वोक्तेर्विरोध इति । मरणकाले स्मरणं प्राप्य मार्गौ ब्रह्मचापरोक्षीकृत्य गतिरिति तदर्थाङ्गीकारात् । प्रयाणकाले महतां मार्गद्वयस्य ब्रह्मणश्चापरोक्षीकरणमन्येषां स्मरणमित्यभिप्रायः । ननूत्तरायणमार्ग प्रयाणकाले दक्षिणायनमार्गापरोक्षीकरणादिकं व्यर्थमिति चेन्न । संसारे पर्यावर्तो यं मार्गो सार इति तदपरोक्षीकरणस्य सुखहेतुत्वात् । संस्मृत्यपूर्वदुःखं मुक्ताहर्षमवाप्नुयुरिति पूर्वदुःखस्मरणस्य सुखहेतत्ववत्प्रयाणकालेदक्षिणायनापरोक्षज्ञानस्य सुखहेतुत्वसम्भवादिति ।। २८ ।।
इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थार्यचरणसेविना श्रीनिवासेनरचितायां
न्यायदीपकिरणावल्यां अष्टमोध्यायः ।। ८ ।।
भावप्रकाशः
वेदेष्वित्यस्येति । वेदेषु यज्ञेष्वित्युत्तरश्लोकस्येत्यर्थः । सर्वपुण्यातिग इति । सर्वकाम्यपुण्यसाध्यस्वर्गादिकमतिक्रान्त इत्यर्थः ।। २८ ।।
इति श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते
तात्पर्यनिर्णयन्यायदीपिकाभावप्रकाशेऽष्टमोध्यायः ।।