गीता
भगवान् पुरुषोत्तमः
गीता
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ।। १३ ।।
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।। १४ ।।
सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ।। १५ ।।
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।। १६ ।।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। १७ ।।
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।। १८ ।।
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ।। १९ ।।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ।। २० ।।
तात्पर्यम्
सौम्यत्वात् सोमनामाऽसौ सोममण्डलगः सदा ।।
स एव व्यासरूपेण वेदान्तकृदुदाहृतः ।।
स एवाग्निस्थितो विष्णुः नाम्ना वैश्वानरः सदा ।
सर्वेषां स नराणां यदुपजीव्यः सदैव च ।।
ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः ।
श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः ।
चेतनाचेतनस्यास्य राशेः संस्थापकत्वतः ।
कूटस्थ आत्मा सा ज्ञेया परमात्मा हरिः स्वयम् ।।
‘क्षराक्षरात्मनोर्यस्मादुत्तमः स सदाऽनयोः ।
पुरुषोत्तमनाम्नाऽतः प्रसिद्धो लोकवेदयोः’ इति नारायणश्रुतिः ।। १३२० ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये पञ्चदशोऽध्यायः
प्रकाशिका
‘‘पुष्णामिचौषधीसर्वास्सोमो भूत्वे’’त्यादेरर्थ उच्यते ।। सौम्यत्वादित्यादिना ।। द्वाविमौपुरुषावित्यत्र पुरुषशब्द आत्मवचन इति ज्ञातव्यम् ।। १३२० ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां
पद्मनाभतीर्थविरचितायां पञ्चदशोऽध्यायः ।।
न्यायदीपिका
उपजीव्यतया विश्वनरसम्बन्धी वैश्वानर इत्यर्थः । क्षरणं विनाशः । क्षरविनाशसन्ततदानयोरिति धातोः । अत्रात्मपदप्रयोगेण द्वाविमौ पुरुषशब्दश्चेतनार्थ इत्युक्तं भवति । ततश्च न श्रियः पुरुषत्वविरोधः ।। १३२० ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां पञ्चदशोऽध्यायः ।। १५ ।।
किरणावली
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मक इत्यत्र सोमाभेदप्रतीतेस्तात्पर्यमुक्तं सौम्यत्वादिति । अहं वैश्वानरोभूत्वेत्यत्रान्यथाप्रतीतेस्तात्पर्यमुक्तं स एवाग्निस्थित इत्यादि । यदुपजीव्य इत्यत्रयद्यस्मादुपजीव्यस्तस्माद्वैश्वानर इत्युपजीव्यत्वं प्रवृत्तिनिमित्तमिति भात्यत आह ।। उपजीव्यतयेति ।। विश्वनरसम्बन्धित्वमेव प्रवृत्तिनिमित्तं उपजीव्यत्वं तु सम्बन्धविवरणार्थमुक्तमिति भावः । अहं वेदान्तकृदित्यस्य तात्पर्यं मूले स एवेति । वेदनिर्णयात्मकमीमांसावेदान्त इति भाष्योक्तेर्ब्रह्ममीमांसाकृदित्यर्थः । क्षरः सर्वाणि भूतानीत्यादेस्तात्पर्यं मूले ब्रह्मरुद्रादय इत्यादि । एतेन क्षराक्षरशब्दौ जडजीवपराविति कस्यचिद्व्याख्यानं निरस्तम् । शरीरक्षरणाच्छरीरनाशादित्यन्यथाप्रतीतेर्व्याचष्टे ।। क्षरणमिति ।। श्रीर्यतोनित्यचिद्देहतो नित्यचिद्देहकाऽतोऽक्षरेत्युदितेत्येतावता पूर्णत्वादात्मेति व्यर्थम् । नहि व्याख्येये आत्मपदमस्ति । कूटस्थोऽक्षर उच्यत इत्येव श्रवणात्कूटस्थ आत्मेत्यपि व्यर्थमित्यत आह ।। अत्रात्मपदप्रयोगेणेति ।। चेतनार्थत्वज्ञापनस्य प्रयोजनमाह ।। ततश्चेति ।। १३२० ।।
इति श्रीमद्विठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां
न्यायदीपकिरणावल्यां पञ्चदशोऽध्यायः ।। १५ ।।
भावदीपः
सर्वेषामित्यस्यार्थमाह ।। उपजीव्यतयेति ।। एतेन यच्छब्दो हेत्वर्थ इत्युक्तं भवति । तस्येदमित्यण्प्रत्यये आदिवृद्धौ उपपदस्य नरे संज्ञायामिति दीर्घे वैश्वानर इति रूपमिति भावः ।। इति धातोरिति ।। शरीरद्वारा क्षरतीत्यर्थे पचाद्यच्प्रत्यये क्षरेति रूपमिति भावः ।। १३२० ।।
इति राघवेन्द्रयतिकृते श्रीमद्गीतातात्पर्यटीकाभावदीपे पञ्चदशोऽध्यायः ।। १५ ।।
भावप्रकाशः
क्षरणं विनाश इति । क्षरणं जीवस्वरूपस्य न सम्भवतीति मूले शरीरेत्युक्तम् ।। स्वविनाशेन स्वामिनोपि विनाशोपचारस्य लोके दर्शनादिति भावः । अत्रात्मपदप्रयोगेणेति । श्रीरक्षरात्मेत्यत्र चेतनपर्यायात्मपदप्रयोगेणेत्यर्थः ।। १३२० ।।
इति श्रीमत्सत्यव्रतपूज्यपादशिष्यसत्यप्रज्ञभिक्षुविरचिते
तात्पर्यनिर्णयन्यायदीपिकाभावप्रकाशे पञ्चदशोध्यायः ।।