तात्पर्यम्
तात्पर्यम्
‘अधा ते विष्णो विदुषा चिदर्ध्यः
स्तोमो यज्ञश्च राध्यो हविष्मता’ ।
पश्यन्नपीममात्मानं कुर्यात्कर्माविचारयन्
यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात् ।
भक्त्या प्रसन्नः परमो दद्याज्ज्ञानमनाकुलम्
भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत् ।।
ततोऽपि भूयसीं भक्तिं दद्यात्ताभ्यां विमोचयेत्
मुक्तोऽपि तद्वशो नित्यं भूयो भक्तिसमन्वितः ।
साध्यानन्दस्वरूपैव भक्तिर्नैवात्र साधनम्
ब्रह्मरुद्ररमादिभ्योऽप्युत्तमत्वं स्वतन्त्रताम् ।।
सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम् ।
निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः ।।
प्रकाशिका
‘‘कुरु कर्मे’’त्यादिनाऽपि भगवत्कर्म कार्यत्वेनावगम्यत इति यदुक्तं तत्र श्रुतिमुदाहरति ।। अथात इति ।। हविष्मता ज्ञानिनाऽपि ते विष्णो स्तुतिर्यज्ञश्चार्थ्यः साध्यश्चेत्यर्थः ।। ‘‘भक्त्या त्वनन्यया’’ इत्यादिना यदुक्तं तच्छत्या विवृणोति ।। भक्त्या प्रसन्न इति ।। ‘दृष्ट्यादि स्तस्य साधनम्’ इत्यस्य अयमर्थः ‘‘आत्मा वा ओ द्रष्टव्य इत्यादिनोक्तं दर्शन–ध्यानादिकम् अतिपरिपक्वस्य भक्तियोगस्य साधनमिति ।।
न्यायदीपिका
यदुक्तं ज्ञानिनोऽपि भगवत्कर्मेति । तत्र श्रुतिं चोदाहरति ।। अधेति ।। अथ विष्णो तेस्तुतिर्यज्ञश्च हविष्मता ज्ञानिनाऽप्यर्थ्यः साध्यश्चेत्यर्थः । ज्ञानिनो मोक्षनियमात्किं कर्मणेत्यत आह ।। पश्यन्नपीति ।। सुनियतं वर्णाश्रमोचितम् । आप्नुयात् तेनेति शेषः । यत् यस्मात्तेनात्मनः क्लृप्तमानन्दोत्कर्षं आप्नुयात्तस्मादिति वा ।
यदुक्तं विष्णुभक्तेरेव सर्वसाधनोत्तमत्वमित्यादि तत्र श्रुतिं दर्शयति भक्तयेति । ज्ञानं विना भक्तेरभावात् कथं भक्तया ज्ञानमित्यत उक्तम् । अनाकुलमिति ।। प्रागल्पतयाऽऽकुलस्य सतोऽनाकुलत्वं भक्तया भवतीतिभावः । मोक्षसाधनत्वाद्भक्ते स्तदनन्तरमभावाशङ्काप्रसङ्गाद्वारयति ।। मुक्तोपीति ।। भूयसी भक्तिःभूयोभक्तिः । मुक्तौ भेदाभावात्साम्याद्वा न भक्तिर्युक्तेत्यत उक्तम् ।। तद्वश इति ।। मुक्तौ भक्तिसद्भावे सुखादिफलमपिस्यात् । अन्यथा तदनुपपत्तेः । फलाङ्गीकारेच वृद्ध्यादि प्राप्तिरित्यत आह ।। साध्येति ।। न मुक्तभक्तेः फलसद्भावः तस्याः साधनत्वा भावात् । नचैतावतानुपपत्तिः । यःपूर्वतनभक्तया साध्य आनन्दस्तत्स्वरूपत्वेन भक्तेःफलत्वात् । फलस्यच तदानुभवादितिभावः । कीदृशी सा विष्णुभक्तिरित्यतआह ।। ब्रह्मेति ।।
किरणावली
यदुक्तमिति ।। कुरु कर्मैवेत्यादिवाक्यमुदाहृत्य ज्ञानिनोऽपि भगवत्कर्मेति यदुक्तमित्यर्थः । अधात इति श्रुतौ विदुषाचिज्ज्ञानिनापि ते स्तोमोऽर्ध्योर्थ्यो राध्यः साध्यः हविष्मता यजमानेन च यज्ञोऽर्थ्योराध्यश्चेति अन्यथाप्रतीतेर्व्याचष्टे ।। अथेति ।। उभाभ्यामुभयं संपाद्यमित्यत्र विवक्षितमिति भावः ।। आप्नुयात्तेनेति शेष इति ।। तथाचायमर्थः । इममात्मानं पश्यन्नप्यविचारयन्ज्ञानिनो मम मोक्षस्य नियतत्वात् किं कर्मणेत्यविचारयन् आत्मनः सुनियतं सम्यक् विहितं यत्कर्म कुर्यात्तेनानन्दोत्कर्षमाप्नुयादिति । यद्वा । इममात्मानं पश्यन्नप्यविचारयन्नात्मनस्सुनियतं कर्म कुर्यात् । यदात्मनः सुनियतं कर्म तेनानन्दोत्कर्षमाप्नुयादित्यर्थः । प्रकारान्तरेण व्याचष्टे ।। यद्यस्मादिति ।। सुनियतमित्यस्यार्थः क्लृप्तमिति । तस्मादित्यस्य तस्मादविचरयन् फलसन्देहमकुर्वन्कर्मकुर्यादिति पूर्वार्धेन सम्बन्धः ।। यदुक्तं विष्णुभक्तेरेवेति ।। अत्रेत्यादीत्यादिपदेन परोक्षापरोक्षज्ञानयोर्ज्ञानिनोऽपि मोक्षस्य तदधीनत्वं चेत्युक्तस्य ग्रहणं ‘‘भूयो भक्तिसमन्वित’’ इत्यत्र मुक्तौ पुनर्भक्तेरार्जनं प्रतीयते । अनुव्याख्याने पूर्वभक्तेरनुवृत्तिमात्रोक्तिरित्यतो व्याचष्टे ।।
भूयसी भक्तिर्भूयोभक्तिरिति ।। सुखादीत्यादिपदेन परोक्षाज्ञानयोर्ग्रहणम् ।। अन्यथा तदनुपपत्तेरिति ।। फलाभावे निष्फलाया भक्तेरवस्थानानुपपत्तिः । न हि प्रेक्षावन्तो निष्फलमनुवर्तयन्तीति भावः । वृध्द्यादीत्यादिपदेन पूर्वोत्तरकालयोः स्वस्य स्वस्मात् तारतम्यं गृह्यते ।। न चैतावतेति ।। फलसाधनत्वं नास्तीत्येतावता निष्फलाया भक्तेरवस्थानानुपपत्तिः । प्रेक्षावद्भिरव्यसनितया तदनुवर्तनायोगादिति न च वाच्यमित्यर्थः ।। यः पूर्वतनभक्तयेति ।। अनुवर्तत एव मुक्तौ भक्तिः । प्रेमविशेषो हि भक्तिर्नाम । उपकारकत्वप्रकाशज्ञानजन्यो हि प्रेमा । कृतमहोपकारेतितरां वर्धत इत्येव खलु युक्तम् । न तु हीयत इति । न चात्र व्यसनबुद्धिः कस्याप्युपपद्यते । न च वैयर्थ्येनाननुवर्तनमिति वाच्यम् । भक्तेर्विषयीकारित्वं स्नेहरूपवृत्तित्वं अनुकूलवेदनीयत्वं चेति स्वरूपभूता धर्माः। तदुक्तम् । यथा शौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा । सुखज्ञानादिकं रूपमेवं भक्तेर्नचान्यथेति तत्र संसारिस्वरूपभूताया भक्तेर्ज्ञानस्नेहरूपत्वमात्रं व्यक्तम् । ज्ञानस्नेहरूपया पूर्वभक्तया मुक्तौ विषयाद्यनभिव्यंग्या आनन्दा व्यज्यन्ते । अनुवृत्तायास्स्वस्याश्चानुकूलवेदनीयत्वरूपो धर्मश्च व्यज्यते । तथा च स्वयमेव स्वेनैव साध्य आनन्दः । एवं च ज्ञानस्नेहरूपया पूर्वभक्तया यः साध्य आनन्दः तत्स्वरूपत्वेन भक्तेः स्वयमेव स्वफलत्वात् । भक्तिरूपफलस्य मुक्तावनुकूलतयाऽनुभवेनोच्चताहेतुत्वादिति भावः । मुक्तावभिव्यज्यमानानन्दाभेदमात्रेण भक्तेः फलरूपत्वादिति व्याख्याने भक्तयभेदेनानन्दादेरफलत्वादित्यपि प्रसङ्गः ।।
भावदीपः
यदुक्तमिति ।। कुरु कर्मेत्यादिवाक्यमुदाहृत्य ज्ञानिनोऽपि भगवत्कर्मेति यदुक्तमित्यर्थः । ज्ञानिनापि राध्यः साध्यः ।। मोक्षनियमादिति ।। ‘‘अनियमः सर्वेषाम्’’ (ब्र.सू. ३३३५) इति सूत्रादिति भावः । यच्छब्दश्रवणादाह ।। तेनेति शेष इति ।। वर्णाश्रमोचितकर्मणेत्यर्थः ।। तस्मादिति वेति ।। कर्मकुर्यादित्यनेन तस्मादित्यस्यान्वय इति भावः । साधनोत्तमत्वमित्यादीत्यादिपदेन परोक्षापरोक्षज्ञानयोर्ज्ञानिनोऽपि मोक्षस्य तदधीनत्वं चेति गृह्यते ।। उच्यत इति ।। ‘भक्त्या प्रसन्नः परमो दद्याद्ज्ञानं’ इत्यनेनोच्यत इत्यर्थः ।।
भावप्रकाशः
यदुक्तं ज्ञानिनोऽपीति । कुरु कर्मैव तस्मात्वमित्यनेनेत्यर्थः । तृतीयोऽतिशय इति सूत्रेण श्रुतौ थकारस्थाने धकार इति अभिप्रेत्याधेत्यस्य प्रतिपदमाह । अथेति । स्तोम इत्यस्यार्थः स्तुतिरिति । विदुषाचिदित्यस्यार्थमाह । ज्ञानिनाऽपीति । अर्ध्य इत्यस्य प्रतिपद सामर्थ्य इति अर्थ्य इत्यस्यार्थमाह ।। साध्यश्चेत्यर्थ इति । सुनियतं सम्यग्व्याप्तमिति प्रतीतिनिरासायार्थमाह । वर्णाश्रमोचितमिति । अत्र कर्म कुर्यादित्यनेनैवान्वयपूर्तेः आनन्दोत्कर्षमिति व्यर्थमित्यत आह । आप्नुयात्तेनेति शेष इति । तथाच फलप्रतिपादनार्थत्वान्न वैय्यर्थ्यमिति भावः । पूर्वं यदित्येतत्कर्मविशेषणमित्यभिप्रेत्य व्याख्यातम् । इदानीं यस्मादित्यर्थ इत्याह । यद्यस्मादिति । यदुक्तं विष्णुभक्तेरेवेति । भक्तया त्वनन्यया शक्य इत्यनेनेत्यर्थः । कथं भक्तया ज्ञानमिति । अन्योन्याश्रयप्रसङ्गादित्यर्थः । भूय इत्यस्यानन्तर्यार्थकत्वे मुक्तोऽपीत्यनेन गतार्थता स्यादित्यत आह । भूयसी भक्तिर्भूयोभक्तिरिति । अन्यथा तदनुपपत्तेरिति । फलाभावे भक्तिरूपसाधनानुपपत्तेरित्यर्थः । ननु फलाभावे भक्तिरूपसाधनमेव न स्यादित्यत आह ।। नैतावतेति ।।
वाक्यविवेकः
अर्ध्य इत्यत्र तृतीयोऽतिशय इति सूत्रेण थकारस्य धकार इति भावेनाह ।। अर्थ्य इति ।। यदात्मनः सुनियतमित्यत्र यच्छब्दः कर्मविशेषणमित्यभिप्रेत्य शेषमाह । तेनेति शेष इति । यच्छब्दो यस्मादित्यर्थ इत्यभिप्रेत्य तस्मादिति अध्याहृत्य मूलं योजयति । यद्यस्मादिति । नित्यं भक्तिसमन्वित इत्यनेनैव भूयोभक्तिसमन्वित इत्यस्यार्थस्य लाभात् भूय इत्यस्य वैय्यर्थ्यमित्यत आह । भूयसी भक्तिः भूयोभक्तिरिति ।
ननु भूयसी भक्तिरीति विग्रहोऽनुपपन्नः । भक्तिशब्दस्य प्रियादित्वेन अपूरणीप्रियादिति पुंवद्भावस्य प्रतिषिद्धत्वेन भूयोभक्तिरिति रूपाभावप्रसङ्गात् इति चेत् न । भूय इत्यव्ययं भक्तेर्भूयस्त्वज्ञापनायैव भक्तिविशेषणतया प्रयुक्तम् । नतु पौनःपुन्यज्ञापनाय प्रयुक्तमिति ज्ञापनायैव भूयसी भक्तिर्भूयोभक्तिरित्युक्तम् । न तु विग्रहप्रदर्शनार्थम् । विग्रहस्तु भूयः भक्तिरित्येवेत्यङ्गीकारात् ।