गीता

गीता

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। १४ ।।

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितं ।

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ।। १५ ।।

बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ।। १६ ।।

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।

भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ।। १७ ।।

ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते ।

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ।। १८ ।।

तात्पर्यम्

ज्ञानेन मुक्तौ प्राप्यत्वाज्ज्ञानगम्यम् । ‘स्वयमेवाऽत्मनाऽऽत्मानं वेत्थ’ इति स्वज्ञेयत्वाज्ज्ञेयम् । अन्यज्ञेयत्वस्य ‘ज्ञेयं यत् तत्’ इति पूर्वमेव सिद्धत्वात् । कर्तृकर्मविरोधवादिमतं निराकरोत्युत्तरज्ञेयशब्देन ।

स्ववेत्ता वेदनं च स्वं स्वेन वेद्यश्च केशवः ।

परस्य वेत्ता वित्तिश्च वेद्यश्च स्यात् परैः क्वचित् ।

तत्प्रसादं विना कश्चिन्नैनं वेत्तुं हि शक्नुयात् ।

स्ववेदनेऽन्यवित्तौ वा नासावन्यदपेक्षते ।

स्वप्रकाश इति प्रोक्तस्तेनैकः पुरुषोत्तमः ।

जीवानां स्वप्रकाशत्वं तत्प्रसादात् स्ववेदनम्’ इति च ।। १८ ।।

प्रकाशिका

‘‘ज्ञानं ज्ञेयं ज्ञानगम्य’’मित्यस्यार्थमाह ।। ज्ञानेनेत्यादिना ।। १४१८ ।।

न्यायदीपिका

ज्ञानगम्यमिति ज्ञानविषयत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। ज्ञानेनेति ।। ज्ञेयपदेनान्यज्ञेयत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। स्वयमेवेति ।। अत्र स्वज्ञेयत्वमेवोच्यते न तु परज्ञेयत्वम् । न च भगवतः स्वज्ञेयत्वाभावः । स्वयमिति तस्योक्तत्वादित्यर्थः । अन्यज्ञेयत्वमर्थः किं न स्यादित्यत आह ।। अन्येति ।। ज्ञानं ज्ञेयमिति ज्ञेयशब्देनैकस्यां क्रियायां कर्तृकर्मणोरैक्यविरोधान्नेश्वरस्य ज्ञेयत्वमुक्तमिति वदतां वादिनां मतनिरासाय स्वज्ञेयत्वमेवोच्यते । न त्वन्यज्ञेयत्वम् । तस्य ज्ञेयं यत्तत्प्रवक्ष्यामीत्युपक्रमवाक्य एवोक्तत्वेन पुनरुक्तिप्रसङ्गादिति भावः । स्वज्ञेयार्थत्वे प्रभावोक्तिरियं कथमित्यत आह ।। कर्तृकर्मेति ।। अघटितमप्येकस्यां ज्ञानक्रियायां कर्तृकर्मभावमात्मनीश्वरो घटयतीत्येवमभिप्रायेणेदमुच्यतेऽतो भवति प्रभावोक्तिरियमिति भावः ।

ईश्वरस्य स्वज्ञेयत्वे प्रमाणान्तरं चाह ।। स्ववेत्तेति ।। स्ववेत्ता स्वतन्त्रवेत्ता । तस्य वेदनं च स्वतन्त्रम् । कस्य वेत्तेत्यत आह ।। स्वेनेति ।। यच्च तस्य वेदनं स्वतन्त्रमुक्तं तदपि न तस्माद्भिन्नमित्याह ।। वित्तिश्चेति ।। किं स्वेनैव वेद्य इत्यत आह ।। वेद्यश्चेति ।। क्वचिदिति किमर्थमुच्यते सर्वथा परैर्वेद्यः किं नस्यादित्यत आह ।। तदिति ।। यथाऽन्येषां भगवज्ज्ञाने तत्प्रसादसापेक्षता तथा भगवतोऽपि स्ववेदनादौ परसापेक्षता नास्तीति स्वातन्त्र्यं विवृणोति ।। स्वेति ।। तेन स्ववेत्तृत्वादिना । तथाहि । स्वः स्वतन्त्रश्चासौ प्रकाशयति वेत्तीति प्रकाशश्चेति स्वप्रकाशः । स्वः स्वतन्त्रः प्रकाशो यस्यासौ स्वप्रकाशः । स्वः प्रकाशः प्रकाश्यो येनासौ स्वप्रकाशः । स्वश्चासौ प्रकाशश्चेति स्वप्रकाशः । परस्य वेत्ता वेद्यश्च स्यादिति न स्वप्रकाशशब्दार्थकथनम् । जीवानामपि स्वप्रकाशत्वात्कथमेक इत्युच्यत इत्यत आह ।। जीवानामिति ।। जीवानां स्वतन्त्रवेत्तृत्वाभावादेक इति युक्तमिति भावः ।। १४१८ ।।

किरणावली

ज्ञानविषयत्वमुच्यत इत्यन्यथाप्रतीति निरासायेति ।। ज्ञानविषयत्वस्य सर्वसाधारणत्वाज्ज्ञेयमित्यनेन पौनरुक्तयाच्चेति भावः । पूर्वमेवेति ।। यज्ज्ञात्वामृतमश्रुत इत्यन्यज्ञेयत्वस्य स्पष्टमुक्तत्वादिति भावः । स्वज्ञेयार्थत्व इति ।। परज्ञेयार्थत्व एव सर्वोपास्यत्वगुणलाभाद्यत्प्रभावश्चेति प्रतिज्ञातप्रभावोक्तिरियं स्यादिति भावः । कर्तृकर्मविरोधवादिमतमिति मूलस्यायमर्थः । ज्ञेयं यत्तत्प्रवक्ष्यामीति वाक्यादुत्तरवाक्यगतेन ज्ञानं ज्ञेयमिति ज्ञेयशब्देन कर्तृत्वकर्मत्वयोः सहानवस्थानदर्शनेन विरोधान्न कुत्रापि समावेश इति ये वदन्ति तन्मतं निराकरोति । स्वयमेवात्मनात्मानं वेत्थेत्यादि प्रमाणेनेश्वरेतयोः सहदर्शनात् । कथमसम्भावितं प्रमाणमपि प्रतिपादयतीति चेन्न । अघटितघटनापटीयसीश्वरेऽसम्भावितत्वशङ्कानवकाशादिति । तदिदमुक्तमघटितेत्यादिना । स्वस्य वेत्तास्ववेत्तेति व्याख्याने स्वेन वेद्य इति पुनरुक्तं स्यादतोऽन्यथा व्याचष्टे ।। तस्य वेदनं च स्वतन्त्रमिति ।। क्वचिदिति किमर्थमुच्यत इति ।। क्वचित्स्वप्रसाददशायामिति किमर्थमुच्यते । सर्वथा सर्वदा परैर्वेद्यः किं न स्यादित्यर्थः ।

स्वप्रकाश इति प्रोक्तस्तेनेत्यनेन स्ववेदनेऽन्यवित्तौ वा परानपेक्षत्वस्याव्यवधानेनोक्तमात्रस्य परामर्श इति प्रतीतिनिरासायाह ।। स्ववेत्तृत्वादिनेति ।। स्ववेत्तावेदनं च स्वमित्याद्युक्तेनेत्यर्थः । स्ववेत्तृत्वादेः स्वप्रकाशशब्दार्थत्वमुपपादयति ।। तथा हीति ।। तत्र स्ववेत्तृत्वस्य स्वप्रकाशशब्दार्थत्वमाह ।। स्वःस्वतन्त्रश्चासाविति ।। स्वःस्वतन्त्रश्चासौ प्रकाशश्चेति स्वप्रकाश इति तावद्योज्यम् । नात्र प्रकाशशब्दो भावे निष्पन्नः । किंतु कर्तरीति भावेनोक्तम् ।। प्रकाशयतीति ।। तस्य प्रतिपदं वेत्तीति तस्य वेदनं च स्वतन्त्रमित्युक्तस्य स्वप्रकाशशब्दार्थत्वमाह ।। स्वःस्वतन्त्रः प्रकाशो यस्यासाविति ।। अत्र भाव एव प्रकाशशब्द इति भावः । कस्य वेत्तेत्याशङ्कापरिहारायोक्तस्य स्वेन वेद्यश्चेत्युक्तस्य स्वप्रकाशशब्दार्थत्वमाह ।। स्वः प्रकाशः प्रकाश्य इति ।। स्वः स्वतन्त्रः स्वयमेव प्रकाश्यो येन स्वात्मनैवासौ स्वप्रकाश इत्यर्थः । अत्र प्रकाशशब्दः कर्मणि निष्पन्न इति भावः । वित्तिश्चेत्यत्र केशव एव स्वतन्त्रवेदनमित्युक्तस्य स्वप्रकाशशब्दार्थत्वमाह ।। स्वश्चासौ प्रकाशश्चेति ।। ननु परस्य वेत्ता परैर्वेद्यश्चेत्यनेनोक्तस्य कथं स्वप्रकाशशब्दार्थत्वम् । येन तेनेति परामर्शो युज्यत इत्यत आह ।। परस्येति ।। किंतु केवलं स्वस्य वेत्तेति शङ्कानिरासाय परस्य वेत्तेति । किं स्वेनैव वेद्य इत्याशङ्कापरिहाराय वेद्यश्च स्यात्परैरपीत्येतदिति भावः । जीवानामपि स्ववेद्यत्वात्स्वरूपभूतप्रकाशापरनामकज्ञानरूपत्वाच्चेति भावः । जीवानां स्वप्रकाशत्वं नाम तत्प्रसादात्स्वकर्मकवेदनं स्वरूपभूतवेदनं च । न च स्वातन्त्र्येण वेत्तृत्वं स्वतन्त्रज्ञानरूपत्वं चेति । मूलार्थमभिप्रेत्याह ।। गीवानां स्वतन्त्रवेत्तृत्वाभावादिति ।। उपलक्षणमेतत् । स्वतन्त्रवेदनरूपत्वाभावाच्चेति ज्ञेयम् । एतेन मामहं जानामीत्येकस्यां क्रियायामेकस्यैव कर्तृकर्मभावः कथं जीवस्याचिन्त्यशक्तयभावादिति निरस्तमीश्वराचिन्त्यशक्तया जीवे तदुपपत्तेः ।। १४१८ ।।

भावदीपः

स्वतन्त्रवेत्तेति ।। आगमशासनमनित्यमितीडभावः । वेदितेत्यर्थः । स्ववेत्तेति प्रागुक्तार्थमाह स्वः स्वतन्त्र इत्यादिना । ज्ञानं च स्वमित्युक्तमाह ।। स्वः स्वतन्त्रश्चेत्यादि ।। स्वेन वेद्यश्चेत्युक्तार्थोक्तिः स्वः प्रकाश इत्यादि । स्वः स्वतन्त्र इत्यर्थः । स च स्वयमेवेति कर्मणि घञिति भावः । वित्तिश्चेत्युक्तार्थोक्तिः ।। स्वश्चासावित्यादि ।। परस्य वेत्ता वेद्यश्च परैरित्युक्तार्थोऽत्र कुतो नोच्यत इत्यत आह ।। परस्य वेत्तेत्यादि ।। किन्तु प्रागुक्तदिशा शङ्कानिरासार्थं प्राप्तमिति शेषः ।। १४१८ ।।

भावप्रकाशः

अन्यथा स्वेन वेद्य इत्यनेन पौनरुक्तयापत्तेरिति भावः ।। वित्तिश्चेत्यनेन पुनरुक्तता परिहाराय व्याचष्टे । वेदनं च स्वतन्त्रमिति । तेनेत्यनेनान्यानपेक्षत्वस्य परामर्श इति प्रतीतिनिरासायाह । स्ववेत्तृत्वादिनेति । स्ववेत्तृत्वादेः स्वप्रकाशशब्दार्थत्वमुपपादयति । तथाहीति । स्वप्रकाशशब्दार्थत्वाभावादिति भावः ।। १८ ।।

वाक्यविवेक

ननु भाष्ये अनादिमदिति पदं आदिमद्देहादिवर्जितमिति व्याख्याय अन्यथानादीत्येव स्यादित्युक्तम् । तेनानादीत्यनेनैव परमेश्वरस्य कारणशून्यत्वं न लभ्यत इत्युक्तार्थानङ्गीकारे बाधकमुक्तं भवति ।। इह तु स्वयं कारणं न भवतीत्याशङ्का स्यात्तन्निरासायानादिमदित्याहेत्युक्तं तेनानादीत्यनेन कारणशून्यत्वं लभ्यत इत्युक्तं भवति अतो विरोध इत्याशङ्क्य निषेधति । न चात्रेति ।।

कस्य वेत्तेति । किं विषयकवेदनवानित्यर्थः ।। स्ववेत्तृत्वादिनेति । स्वतन्त्रज्ञातृत्वेन तथा स्वातन्त्र्यज्ञानवत्वेन तथा स्वकर्तृकवेदनकर्मस्वरूपत्वेन तथा स्वतन्त्रज्ञानात्मकत्वेन स्वप्रकाशशब्दवाच्य इत्यर्थः ।। १७, १८ ।।

Load More