गीता
गीता
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ।। ४ ।।
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ।। ५ ।।
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ।। ६ ।।
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ।। ७ ।।
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ।। ८ ।।
सत्त्वं सुखे संजयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ।। ९ ।।
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ।। १० ।।
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ।। ११ ।।
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ।। १२ ।।
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ।। १३ ।।
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ।। १४ ।।
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ।। १५ ।।
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ।। १६ ।।
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ।। १७ ।।
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ।। १८ ।।
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ।। १९ ।।
तात्पर्यम्
एतेभ्यः सत्त्वादिगुणेभ्योऽन्यं कर्तारमीशं यदा पश्यति तदैवायं ना पुरुषः । अन्यथा पशुसमः । न केवलमन्यत्वेन पश्यन् ना तं कर्तारं विष्णुम् किन्तु गुणेभ्य उत्तमत्वेन च । कथं स एव ना ? यस्मात् ‘मद्भावं सोऽधिगच्छति’ ।
‘महालक्ष्मीरिति परा भार्या नारायणस्य या ।
प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत् ।
तस्यास्तु त्रीणि रूपाणि सत्त्वं नाम रजस्तमः ।
सृष्टिकाले विभज्यन्ते सत्त्वं श्रीः सद्गुणप्रदा ।
रजो रञ्जनकर्तृत्वाद् भूः सा सृष्टिकरी यतः ।
यदावेशादियं पृथ्वी भूमिरित्येव कथ्यते ।
जीवानां ग्लपनाद् दुर्गा तम इत्येव कीर्तिता ।
एताभिस्तिसृभिर्जीवाः सर्वे बद्धा अमुक्तिगाः ।
सर्वान् बध्नन्ति सर्वाश्च तथाऽपि तु विशेषतः ।
श्रीर्देवबन्धिका नॄणां भूर्दैत्यानामथापरा ।
एताभ्योऽन्यं परं चैव विष्णुं ज्ञात्वा विमुच्यते ।
सामर्थ्यातिशयादासां नैताभ्यो विद्यते परः ।
इति यावद् विजानाति तावत् तं नृपशुं विदुः ।
तस्मादाभ्योऽधिकगुणो विष्णुर्ज्ञेयः सदैवच’ इति महाविष्णुपुराणे ।
‘रजसस्तु फलं दुःखम्’ इत्यत्र दुःखमिति दुःखमिश्रं सुखम्
‘दुखं दुरिति सम्प्रोक्तं खं नाम सुखमुच्यते’ इति शब्दनिर्णये ।
‘कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फलम् ।
अज्ञानजं तामसस्य नित्यदुःखं फलं विदुः’ इति स्कान्दे ।। ४१९ ।।
प्रकाशिका
‘‘नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति ।। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधि गच्छति’’ इत्येतदीश्वरकर्तृत्वाविरोधेन योजयति ।। एतेभ्य इत्यादिना ।।
‘‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।। निबध्नन्तिमहाबाहो देहे देहिनमव्ययमि’’त्यादेरर्थमाह ।। महालक्ष्मीरित्यादिना ।। सद्गुणात् सद्रूपत्वात् सत्त्वं श्रीः ।। इयं पृथिवी देवतेत्युच्यते तमुग्लापन इति धातुः ।।
‘‘रजसस्तु फलं दुःखम् अज्ञानं तमसः फलमि’’त्यस्यार्थमाह ।। रजस इत्यादिना ।। ४१९ ।।
न्यायदीपिका
त्रैगुण्ये विविच्योक्ते सति तर्हि गुणा एव सर्वोत्तमा न तु ततोऽन्यः सर्वोत्तम इति शङ्का स्यात्सा निराक्रियते ।। नान्यमिति ।। अत्र गुणानामेव कर्तृत्वं नेश्वरस्येत्यन्यथाप्रतीतिनिरासायाह ।। एतेभ्य इति ।। अज्ञस्यापि पुरुषत्वात् को विशेषो ज्ञानिन इत्यत आह ।। अन्यथेति ।। एवं योजनायां मद्भावं सोऽधिगच्छतीति व्यर्थं स्यात् । वाक्यस्य तद्विनैव समाप्तत्वादित्यतः तत्सार्थक्यं दर्शयति ।। कथमिति ।। भगवति भावप्राप्तियोग्यस्यैव पुरुषत्वं पुरुषत्वे वा विस्तरादात्मेति श्रुतिसिद्धम् ।। प्रतीत एवार्थः किं न स्यादित्यतो मम योनिरित्यादि स्मृत्यैव व्याचष्टे ।। महालक्ष्मीरिति ।। परा षड्भ्योऽधिका । सद्गुणत्वात्सत् । त्विष दीप्ताविति धातोः प्रभारूपत्वात्त्वमिति सत्वमित्यर्थः । सृष्ट्या हि रंजनं भवति । किमियं प्रसिद्धा पृथिवीदेवताऽसावित्यत आह ।। यदिति ।। तमुग्लपन इति धातुः । ग्लपनं संसारेण ग्लानिदानम् । अमुक्तिगा इत्यनेन देहे देहिनमित्यस्यार्थ उक्तो भवति । केषां का बन्धिकेत्यत आह ।। सर्वानिति ।। अनेन तत्र सत्वमित्यादिना तारतम्येनोक्तबन्धत्रैविध्यस्य विषयः प्रदर्शितो भवति । एवमेतासां सर्वबन्धकत्वेनातिसामर्थ्यात्सर्वोत्तमत्त्वमिति न मन्तव्यमित्याह ।। एताभ्य इति ।। विष्णुं सर्वोत्तमत्वेन जानन्नेव यतो विमुच्यतेऽतः स एव पुरुषः । अतो नैताभ्यो विद्यते पर इति जानन्नृपशुरित्यर्थः । रजसस्तु फलं दुःखमित्यत्र दुःखशब्दः केवलदुःखार्थ इत्यन्यथाप्रतीतिनिरासायाह ।। रजस इति ।। दुःखशब्दः कथं दुःखमिश्रसुखवाचीत्यत आह ।। दुःखमिति ।। अत्र केवलदुःखवाची किं न स्यादित्यतो रजसो मिश्रफलत्वे स्मृतिमाह ।। कर्मण इति ।। अज्ञानजमित्यनेनाज्ञानमिति व्याख्यातं भवति । तेन केवलदुःखस्य तमःफलत्वोक्तिश्चार्थान्तरे बाधिकेति सूचितं भवति ।। ४१९ ।।
किरणावली
त्रैगुण्ये विविच्योक्त इति ।। सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्तीत्युपक्रम्य तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसंगेन बध्नाति ज्ञानसंगेन चानघेत्यादिना त्रिगुणविकारे बन्धस्वरूपे विविच्योक्ते बन्धकेऽज्ञानादौ तत्प्रयुक्ते बन्धस्वर्गादिलोकप्राप्तौ सदसद्योनिप्राप्तौ गुणत्रयस्य स्वामितावगमात् । गुणा एव सर्वोत्तमा न तु तदन्यः सर्वोत्तम इति शङ्का स्यादित्यर्थः ।। एवं योजनायामिति ।। स एव ना पुरुष इति कारकक्रियात्वमङ्गीकृत्य योजनायामित्यर्थः । ननु मद्भावं सोऽधिगच्छतीत्येतत्कथं वेत्तुः पुरुषत्वोपपादकम् । भगवत्प्राप्तियोग्यानां स्त्रीणामपि तद्वेत्तृत्वादित्यत आह ।। योग्यस्येति ।। भगवत्प्राप्तियोग्यस्यैवेह पुरुषशब्दवाच्यत्वं विवक्षितम् । तथा च स्त्रीणामपि मोक्षयोग्यत्वात्पुरुषत्वमुपपद्यत इति भावः । मोक्षयोग्यानां पुरुषशब्दवाच्यत्वं श्रौतप्रयोगसिद्धमित्याह ।। पुरुषत्वेवेति ।। तस्यामैतरेय श्रुतौ न तावत्पुरुषपदेन पुंचेतनो विवक्षितः । स्त्रीष्वपि स्थावरजङ्गमेभ्योऽतिशयेन भगवत्संनिधान सद्भावात् । नापि द्वाविमौ पुरुषौ इत्यत्रेव चेतनमात्रस्य विवक्षा स्थावरजङ्गमयोरपि चेतनत्वेन प्रकृते तद्ग्रहणायोगात् । अतः करचरणादिरूपपुरुषाकारविशिष्टचेतन परत्वमङ्गीकार्यम् । तेषां च बहुस्मृत्यादिमतां तेषु सादृश्यते चित्तं प्राणभृत्स्वित्युक्तगुणवद्य्भः स्थावरजङ्गमेभ्योऽतिशयितत्वात् । तेषु स्थावरजङ्गमेभ्योधिकं भगवत् सन्निधानमित्यर्थः पर्यवसितः । तत्कथमत्र मुक्तियोगस्यैव पुरुषत्वमिति चेन्न । श्रौतस्य पुरुषपदस्य मुक्तियोग्यत्वे सति करचरणादिपुरुषाकारविशिष्टचेतनपरत्वाङ्गीकारात् । तथाहि । इह हि भगवत् सन्निधानतारतम्यक्रमेणाधिष्ठानयोग्यचेतनगुणतारतम्यं वक्तुमुपक्रान्तम् । तथा च भाष्यम् । यत्र विष्णुर्गुणाधिक्यं दर्शयेद्वस्तु तद्वरम् । गुणपूर्णो हि सर्वत्र स्वयं विष्णुसनातनः । वृक्षेभ्योऽभ्यधिकं विष्णुर्जङ्गमेषु प्रकाशितः । तेभ्योऽपि पुरुषे विष्णुर्गुणाधिक्यप्रकाशक इति । न चात्रापि वृक्षजङ्गमपुरुषपदानि योग्या योग्यसाधारणस्थावरजङ्गमपुरुषपराणीति वाच्यमयोग्यस्थावरादिभ्योऽत्यवरत्वेन गुणाधिक्याभावात् । अन्ततस्तमोयोग्यानां कल्याद्यौषध्यन्तानां शिलाद्यचेतनेभ्यो वरत्वेन तदुत्तमगुणत्वायोगाच्च । तदुक्तं सप्तमाध्याये ।
‘‘अथावरतराये च विमुखाश्चेतना हरेः ।
नित्यदुःखैकयोग्यत्वान्नह्येतत्स्यादचेतन’’ इति ।
अतो युक्तमुक्तं योग्यस्यैव पुरुषत्वमिति ।। पराषड्भ्योऽधिकेति ।। जांबवत्यादिभ्यः षड्भ्य इत्यर्थः । ननु सप्तभ्योधिकेति वक्तव्यम् । नरकासुरमातुर्वराहपत्न््नयाः पञ्चभूतेष्ववराया भूदेव्या अन्यस्याः सत्त्वादिति चेन्न । षड्भ्य आधिक्योक्तौ भूम्याधिक्यस्य कैमुत्यसिद्धत्वात् । तस्यास्तु त्रीणि रूपाणीत्यस्य तस्याः प्रकृतेः सृष्टिकाले तु ब्रह्मपत्न््नयपेक्षया मुख्यानि त्रीणि रूपाणि विभज्यन्त इत्यर्थः । रूपत्रयं निर्दिशति मूले । सत्वं रजस्तम इति नामप्रसिद्धानि त्रीणि रूपाणीत्यर्थः ।। त्विषदीप्ताविति धातोरिति ।। डप्रत्यये त्वमिति रूपमिति द्रष्टव्यम् । मूले रञ्जनकर्तृत्वात्प्रकाशनकर्तृत्वाद्रजोभूः । कथं रञ्जनकर्तृत्वं भुव इत्यत उक्तं सेति । सा भूर्यतः सृष्टिकरीत्येतदनन्वितमित्यत आह ।। सृष्ट्या हीति ।। एतेन यतः सा सृष्टिकरी । यतस्तया कृतया सृष्ट्या रञ्जनं प्रागव्यक्तस्य प्रकाशनं भवतीति । रञ्जनकर्तृत्वाद्रज इत्यर्थ इत्युक्तं भवति । यदा वेशादित्यत्र पृथिवीशब्दस्य जडपरत्वं निवारयितुमुक्तम् ।। पृथिवीदेवतेति ।। पञ्चभूतावरा पृथिवीदेवतेत्यर्थः । मूले यदावेशादियं पृथ्वीभूमिरिति शब्द्यते सैव भूमिरिति योज्यम् ।।
तमुग्लपन इति धातोरिति ।। ततश्चासुन्प्रत्यये तम इति रूपमिति भावः ।। अमुक्तिगा इत्यनेनेति ।। अमुक्तिगा इति देहसम्बन्धोक्तेरित्यर्थः । तथापि तु विशेषत इति मूले तुरवधारणे । बध्नंत्येवेत्यन्वेति यद्यपीत्यर्थे वा ।। तत्र सत्त्वमित्यादिनेति ।। अधोगच्छन्ति तामसा इत्यन्तेनेति पूरणीयम् ।। तारतम्येनोक्तेति ।। केषाञ्चिद्वैषयिकसुखतदुपरक्तज्ञानाभ्यां सत्त्वगुणसम्बन्धोऽन्येषां कर्मणा रजोगुणबन्धोपरेषां प्रमादालस्य निद्राभिस्तमोगुणबन्ध इत्यादिरूपेण तारतम्येनोक्तबन्धत्रैविध्यस्य विषयोबध्योदेवादिरिति दर्शितो भवतीत्यर्थः । एताभ्य इत्यादिमूले एवकारस्यान्यमेव न तु भिन्नं इति वा । विष्णुमेव परं नत्वन्यमिति वा ज्ञात्वैवेति वा । विमुच्यत एवेति सम्बन्धः ।
ननु ‘‘नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ती’’त्येतदर्थकथनाय प्रवृत्ते एताभ्योऽन्यं परं चैवेति वाक्ये एताभ्योऽन्यं परं चैवेति विष्णुं जानन्नापुरुष इति विन्यासेन भवितव्यं ज्ञात्वा विमुच्यत इति वाक्यं परिसमापनीयमित्यत अध्याहारपूर्वकं व्याचष्टे ।। विष्णुं सर्वोत्तमत्वेनेति ।। सामर्थ्यातिशयादित्यादिलेशतो विवृणोति ।। अत इति ।। विष्णोस्सर्वोत्कर्ष ज्ञानिन एव योग्यपुरुषत्वादासां लक्ष्मीस्वरूपाणां श्रीभूदुर्गाणां सर्वबन्धकत्वादिसामर्थ्यातिशयादाभ्यः पर उत्तमः कोपि नैवेति यावद्विजानाति एतत् मिथ्याज्ञानं यावत्पर्यन्तमनुवर्तते तावत्तं नृपशुं विदुः । तस्माद्विष्णूत्कर्षज्ञानिन एव मोक्षलाभेन योग्यपुरुषत्वादेवमज्ञानिनः साधनफलविमुखत्वेन पशुतुल्यत्वादाभ्यः सदैवाधिकगुणश्च शब्दादन्यश्चेत्यर्थो ज्ञेयः ।। अज्ञानमिति व्याख्यातमिति ।। अज्ञानं तमसः फलमित्यत्राज्ञानपदं तज्जन्यदुःखोपलक्षकमिति व्याख्यातं भवतीत्यर्थः । रजसस्तु फलं दुःखमित्यत्र दुःखशब्दो रूढत्वात्केवल दुःखवाची किं नस्यादित्यतो रजसो मिश्रफलत्वप्रतिपादकश्रुतिविरोधादिति बहिरङ्गबाधकमुक्तम् । अन्तरङ्गं च बाधकमस्तीत्याह ।। तेनेति ।। अज्ञानजं तामसस्येत्यत्र नित्यदुःखरूपं फलमिति व्याख्यानेनेत्यर्थः ।। ४१९ ।।
भावदीपः
गीतावाक्यमवतारयति ।। त्रैगुण्य इति ।। इत्यादिश्रुतिसिद्धमिति । ऐतरेयश्रुतौ सामपरमात्मा पुरुष एवातिशयेनाविर्भवतीत्युक्त्या योग्यस्यैव पुरुषत्वमित्येतत्सिद्धमित्यर्थः ।। परेत्यनुवादः, षड्भ्योऽधिकेति व्याख्या । जांबवत्यादिभ्य इत्यर्थः ।। सद्गुणत्वात्सदिति ।। सद्भावे साधुभावे च सदित्येतत् प्रयुज्यत इत्युक्तेरिति भावः ।। इति धातुरिति ।। असुन्प्रत्यये तम इति रूपमिति भावः ।। अर्थान्तर इति ।। रजसः केवलदुःखफलकत्वरूपार्थान्तर इत्यर्थः । यद्वा तमसो ज्ञानमात्रफलकत्वरूपार्थान्तर इत्यर्थः ।। १६१९ ।।
भावप्रकाशः
गुणानामेव कर्तृत्वमिति । इच्छापूर्वक्रियादानरूपकर्त्तृत्वमित्यर्थः । परिणामिकर्त्तृत्वस्य भाष्ये उक्तत्वादिति भावः ।। मद्भावपदमन्यथाप्रतीतिनिरासाय व्याचष्टे ।। भगवति भावं प्राप्तिमिति । मद्भावमित्यनेन कथं स एव नेति शङ्कायाः कः परिहारः सिद्ध इत्यत आह । योग्यस्यैव पुरुषत्वमिति । मद्भावपदोदितमुक्तियोग्यस्यैवेत्यर्थः । अत्र पुरुष एव आविस्तरां विशेषाकारेणात्मा परमात्मा संनिहित इत्युक्त्वा वाक्यशेषे तस्यैव मर्त्येनामृतमीक्षतीत्यनेन मुक्तिलक्षणं फलमुच्यते । तेन मुक्तियोग्यस्यैव मुख्यतः पुरुषशब्दवाच्यत्वमिति सिध्यतीति भावः ।। क्वचित्तु भगवत्प्राप्तियोग्यस्यैवेति पाठः ।। षड्भ्योधिकेति । नीलादिषण्महिषीभ्य उत्तमेत्यर्थः ।। सृष्टिकरी यत इत्यस्य हेतुत्वमुपपदायति । सृष्ट्याहि रंजनमिति । रंजनं रागः सृष्टौ सत्यां पुत्रभार्यादिषु लोकस्य रागो भवतीत्यर्थः । अतः स एव पुरुष इति ज्ञानाभावे तावत्तं नृपशुं विदुरिति पशुत्वस्य वक्ष्यमाणत्वादिति भावः ।। १६१९ ।।
वाक्यविवेक
पुरुषत्वे वा विस्तरादात्मेत्यादिश्रुतिसिद्धमिति ।। पुरुषे तु एवेति पदच्छेदः पुरुष एव आत्मा परमात्मातु आविस्तरां अतिशयेनाविर्भूतो भवतीति श्रुत्यर्थः । आदिशब्देन मर्त्येनामृतमीप्सतीति वाक्यं ग्राह्यम् । मर्त्येन पुरुषदेहेन अमृतं मोक्षं ईप्सतीति तस्यार्थः ।। षड्भ्योऽधिकेति ।। नीलादिषण्महिषीभ्योधिकैवेत्यर्थः ।। त्विट् प्रकाश इति धातोरिति ।। सच्छब्दोपपदात् त्विट्धातोर्डप्रत्यये टिलोपे सत्वमिति रूपम् । तमुग्लपन इति धातुरिति । अस्मादसुप्रत्यये तम इति
।। १६१९ ।।