गीता

गीता

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।

यः पश्यति तथात्मानमकर्तारं स पश्यति ।। ३० ।।

तात्पर्यम्

प्रकृत्य स्वयमेव प्रारभ्य विष्णुना क्रियमाणानि । विष्णोर्नान्य पूर्वप्रेरक इति । ‘पूर्वं तु बादरायणो हेतुव्यपदेशात्’ इति भगवद्वचनात् ।

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ इति च ।

स्वयं प्रकृत्य भगवान् करोति निखिलं जगत् ।

नैव कर्ता हरेः कश्चिदकर्ता तेन केशवः’ इति स्कान्दे ।

तेनेति प्रस्तुतत्वादेव सिद्धम् । ‘अहं सर्वस्य प्रभवः’ ‘स हि कर्ता’ ‘कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ ‘जन्माद्यस्य यतः’ ‘मत्त एवेति तान् विद्धि’ इत्यादिसकलप्रमाणविरोधश्चान्यथा । ‘प्रकृत्यैव च’ इति चशब्दाच्चैतेनैवेति सिद्ध्यति ।

प्रकृतेन क्रियायोगं चशब्दः क्वचिदीरयेत् ।

क्वचित् समुच्चयं ब्रूयात् क्वचिद् दौर्लभ्यवाचकः’ इति शब्दनिर्णये ।

प्रकाशिका

‘‘प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।।

  यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति’’

इत्यस्यार्थमाह ।। प्रकृत्येत्यादिना ।। अथोपक्रम्य पूर्ववासनादिकमुद्बोध्य कर्माणि समवस्थितमीश्वरस्थमिति पूर्वप्रकृतेन प्रकृत्यैव चेति च शब्दसूचितेन विष्णुना क्रियमाणानि तं चात्मानं कर्तृरहितं यः पश्यति स पश्यति स ज्ञानीत्युच्यते ।। न तु क्रियागुणा गुणात्मकतया प्रकृत्यैव क्रियमाणानीति ।। तथा सति अहं सर्वस्य प्रभव इत्यादिविरोधः स्यात् ।। ३० ।।

न्यायदीपिका

ईश्वरः सदसद्योनिजन्मसु कर्मानपेक्ष्यैव कारणं चेत्तर्हि तस्य वैषम्यादि स्यात् । कर्मापेक्षायां स्वातन्त्र्यप्रच्युतिः । तथा तस्यापि जनकसद्भावाच्च नस्वातन्त्र्यमित्यत उच्यते ।। प्रकृत्येति ।। तत्र प्रकृतिरेव कर्त्री नपरमात्मेत्यन्यथाप्रतीतिनिरासायाह ।। प्रकृत्येति ।। स्वयमेव प्रारभ्येति ।। पूर्वकर्मादिकं स्वयमेव प्रबोध्येत्यर्थः । अभिप्रायं वक्ति ।। विष्णोरिति ।। कर्मसापेक्षत्वेऽपि न भगवतः स्वातन्त्र्यप्रच्युतिः । यावताऽसौ स्वयमेव पूर्वकर्मादिकमुद्बोध्य तदपेक्ष्येदानीं कर्माणि कारयति । न तु कर्मादिकं विष्णोरुद्बोधकमिति भावः । कुत एतदित्यत आह ।। पूर्वमिति ।। अस्तु कर्मादि हरिरुद्बोधयति । न तु तद्धरिमुद्बोधयतीति । तथाऽपि हरेस्तदपेक्षत्वादस्वातन्त्र्यमित्यतः कर्मादिसत्ताया अपि भगवदधीनत्वात्तदपेक्षायामपि नास्वातन्त्र्यमिति भावेन कर्मादिसत्ताया भगवदधीनत्वे प्रमाणमाह ।। द्रव्यमिति ।। कुत एवमर्थकल्पनेत्यत उक्तार्थे स्मृतिसमाख्यां दर्शयति ।। स्वयमिति ।। नन्वत्रेश्वरेणेत्यश्रवणात्कथमयमर्थः स्यादित्यत आह ।। तेनेति ।। समं पश्यन् हि सर्वत्र समवस्थितमीश्वरमिति ईश्वरस्य प्रस्तुतत्वात्तेनेश्वरेणेत्यनुक्तेऽपि सिद्ध्यतीत्यर्थः । किमनया कल्पनया । प्रकृतेरेव कर्तृत्वं नेश्वरस्येत्येवार्थः किं न स्यादित्यत उदाहृतः स्मृतिविरोधस्तावद्वाक्यान्तरविरोधं च दर्शयति ।। अहमिति ।। तेनेश्वरेणेत्यत्र सूचितं चेत्याह ।। प्रकृत्येति ।। चशब्देन कथमेतत्सिध्यतीत्यत आह ।। प्रकृतेनेति ।। उच्यमानक्रियायाः प्रकृतकर्तृत्वमीरयेदित्यर्थः ।

किरणावली

तथा तस्यापि जनकसद्भावाच्चेति ।। नैव कर्ता हरेः कश्चिदकर्ता तेन केशव इत्यकर्तारमित्यस्य व्याख्यानात्तद्व्यावृत्यप्रदर्शनमेतदिति ज्ञेयम् ।। पूर्वकर्मादिकमिति ।। ‘‘पूर्वकर्मप्रयत्नं च संस्कारं चाप्यपेक्ष्य तु ।

ईश्वरः कारयेत्सर्व’’मिति वचनादादिपदेन प्रयत्नयोग्यतयोर्ग्रहणम् । एतेन पूर्वकर्मादिकं स्वयमेव प्रकृत्यप्रारभ्य प्रबोध्य कार्योन्मुखं कृत्वा विष्णुना क्रियमाणानि सर्वाणि कर्माणि यः पश्यतीति व्याख्यातं भवति । ननु विकल्पितपक्षे द्वितीयपक्षोऽनेन गीतावाक्येनोपात्त इति प्रतीयते । कथं तत्पक्षोक्तदोषपरिहार इत्याशङ्कां परिहरन्विष्णोर्नान्य इति मूलाभिप्रायमाह ।। कर्मसापेक्षत्वेऽपीत्यादिना ।। स्वयमेवेत्यनेन विष्णोरिति पञ्चमी । तस्मादन्यः पूर्वकर्मादिप्रेरको नेत्यर्थ उक्तो भवति । न तु कर्मादिकं विष्णोरित्यनेन विष्णोरिति षष्ठी । तस्यान्यो न पूर्वप्रेरक इति व्याख्यातं भवति । पूर्वं तु बादरायण इति सूत्रस्य पूर्वोक्तं ब्रह्मैव कर्तृ सत्कर्म प्रवर्तयति न तु कर्मब्रह्मप्रवर्तकं ‘‘पुण्येन पुण्यं लोकं नयती’’त्यादौ बह्मणः कर्तृत्वस्य कर्मणः करणत्वस्य व्यपदेशादित्यर्थः ।। कुत इति ।। कस्मात्प्रमाणादित्यर्थः । मूले स्वयं प्रकृत्येत्यादेः स्वयमेव पूर्वकर्मादिकमुद्बोध्य निखिलं जगत् कर्माणि तदायत्तशरीराणि तदुपयुक्तं तद्भोग्यं सुखदुःखादिकं चेति निखिलं जगदित्यर्थः । तेनेति स्वयमेव कर्तृतयान्वेति किं नामात्र प्रकृत्यैव चेति वाक्ये तेनेश्वरेणेत्येतत्सूचितं चेत्याहेत्यर्थः । प्रकृतेन क्रियायोगमित्यस्य प्रकृतेन कर्त्रोच्यतमानायाः क्रियाया योगं सम्बन्धमित्यर्थमभिप्रेत्याह ।। उच्यमानेति ।।

भावदीपः

पूर्वमितीति ।। पूर्वोक्तं ब्रह्मैव कर्तृरूपं सत् कर्म प्रवर्तयति । न तु कर्म ब्रह्मप्रवर्तकम् । पुण्येन पुण्यं लोकं नयतीत्यादौ ब्रह्मणः कर्तृत्वस्य कर्मणो हेतुत्वस्य व्यपदेशादिति भक्तिपादीयान्तिमसूत्रार्थः ।। नन्वत्रेति ।। गीतायामित्यर्थः ।

भावप्रकाशः

अ(त)स्यापि जनकसद्भावाच्चेति । एतच्चात्मानमकर्तारमित्यस्य नैव कर्ता हरेः कश्चिदिति वक्ष्यमाणरीत्या न विद्यते कर्ता यस्येति विग्रहमभिप्रेत्य तद्व्यावर्त्यकथनमिति द्रष्टव्यम् ।। फलदाने पूर्वोक्तं ब्रह्मैव कर्तृ सत्कारणभूतं कर्म प्रवर्तयति । पुण्येन पुण्यं लोकं नयतीति श्रुतौ ब्रह्मणः कर्तृत्वव्यपदेशात् कर्मणः करणत्वव्यपदेशात् इति बादरायणो मन्यत इति पूर्वं त्विति सूत्रार्थः । उदाहृतः स्मृतिविरोध इति । स्वयं प्रकृत्येत्युदाहृतः स्मृतिविरोधः इत्यर्थः ।। अस्य प्रत्यक्षादिप्रमाणप्रमितस्य जगतः जन्मादि सृष्ट्याद्यष्टकं यतो यस्माद्भवति तदेव जिज्ञास्यं ब्रह्मेति जन्मादिसूत्रार्थो द्रष्टव्यः ।।

वाक्यविवेक

मूले पूर्वं तु बादरायण इति । परस्य कर्मणश्चोभयोः कारणत्वेऽपि न कर्म प्रवर्तकं पर एव कर्मणः प्रवर्तकः पुण्येन पुण्यं लोकं पापेन पापमिति परस्य प्रवर्तकत्वव्यपदेशादिति बादरायणो मन्यत इति सूत्रार्थः ।। ३० ।।

Load More