गीता
वेदादिभिरपि त्वदवरेण दृष्टुमशक्यः
गीता
न वेदयज्ञाध्ययनैर्न दानै
र्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर ।। ४८ ।।
मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिद्रं प्रपश्य ।। ४९ ।।
तात्पर्यम्
वेदादिभिरपि त्वदवरेणैवं द्रष्टुमशक्यः । अन्यथा ‘दृष्ट्वाऽद्भुतं रूपम्’ इत्यादिविरोधः ।। ४८,४९ ।।
प्रकाशिका
‘‘न वेदयज्ञाध्ययनैर्न दानैनं च क्रियाभिर्न तपोभिरुग्रैः ।। एवंरुपः शक्य अहं नृलोके द्रष्टुं त्वदन्येने’’त्यस्यार्थमाह ।। वेदादिभिरिति ।। ४८ ।।
न्यायदीपिका
यद्यन्येषामपि विश्वरूपदर्शनमत्राभिप्रेतं स्यात्तर्हि न वेदयज्ञाध्ययनैर्न दानैरित्युत्तरवाक्यविरोध इत्यत आह ।। वेदेति ।। नोत्तरवाक्येऽर्जुनादन्येषां विश्वरूपदर्शनाभाव उच्यते । किं तु त्वदवरैस्त्वद्वन्न दृष्टमित्युक्तेः । स्वतस्तथा दर्शनाभावेऽपि वेदादिसाधनैस्तथा तैर्दृश्यतामित्याशङ्क्य त्वदवरैर्वेदादिसाधनैरपि त्वद्वन्न द्रष्टुं शक्यत इत्येवोच्यत इति भावः । विश्वरूपस्यार्जुनादन्येनादृष्टत्वमेवार्थः किं न स्यादिति चेन्न । उदाहृतस्मृतिविरोधात् । अत्रापि दृष्ट्वाऽद्भुतं रूपं, दृष्ट्वा लोका, इत्यादिपूर्ववाक्यविरोधः स्यादित्याह ।। अन्यथेति ।। ४८४९ ।।
भावदीपः
उदाहृतस्मृतीति । विश्वरूपं प्रथमत इत्यादिस्मृतीत्यर्थः ।। यदुक्तमिति ।। एतदध्यायादाविति योज्यम् ।। अन्यथेत्यनुवादः स्वभावत इति व्याख्या ।। परत्वमिति ।। उत्तमत्वमित्यर्थः ।। ४८४९ ।।
भावप्रकाशः
उदाहृतस्मृतिविरोधादिति । विश्वरूपं प्रथमत इत्युदाहृतस्मृतिविरोधादित्यर्थः
।। ४८४९ ।।