गीता

गीता

तस्मादसक्तः सततं कार्यं कर्म समाचर ।

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ।। १९ ।।

तात्पर्यम्

यस्माद्मुक्तस्य कार्यमस्त्येव तस्मादसक्तः । असक्त आचरन्नेव यस्मात्परमाप्नोति । मुक्तस्यैव कार्यं नास्तीत्येवकारार्थोऽपि यस्त्विति तुशब्देनावगतः । ‘तस्मात्कर्म समाचरेत्’ इत्युपसंहारविरोधश्चान्यथा ।

ब्रह्मनिष्ठा ब्रह्मरता ब्रह्मज्ञानसुतर्पिताः ।

पाण्डवानां च मुक्तानामन्तरं किञ्चिदेव हि’

इति भविष्यत्पर्ववचनाच्च नार्जुनस्यामुख्याधिकारिता । आत्मरतिरेव स्यादित्येवशब्देन मुक्तानामेभ्यो विशेषो दर्शितः । एषां कदाचिद्दुःखाभासस्यापि भावात् ।। १९ ।।

प्रकाशिका

यस्मादित्येतं श्लोकं व्याचष्टे ।। यस्मादिति ।। ‘‘तस्य कार्यं न विद्यत’’ इत्यधस्तनवाक्येन मुक्तस्यैव कार्यं न विद्यत इत्युच्यते । नन्वस्य बद्धस्य कार्याभावे ‘‘कर्म समाचरे’’त्युपरितनवाक्यविरोधः स्यात् । न च ज्ञानानधिकारित्वादर्जुनः कर्मणि न युज्यत इत्यत आह ।। ब्रह्मेति ।। ‘‘यस्त्वात्मरतिरेव स्या’’दित्युक्तलक्षणस्य पाण्डवादिष्वपि सम्भवात् ‘‘तस्य कार्यं न विद्यत’’ इत्यतत्तद्विषयं किं न स्यादित्यत आह ।। आत्मरतिरिति ।। १९ ।।

न्यायदीपिका

ननु मुक्तस्य कार्यं न विद्यत इत्युक्त्वा तस्मादसक्त इत्युच्यते । तत्र कर्मकरणे हेतोरनुक्तत्वात्तस्मादिति किं परामृश्यत इत्यत आह ।। यस्मादिति ।। यथा मुक्तस्य प्रयोजनाभावात्कार्याभावः एवं मुमुक्षोरपि कर्मणा प्रयोजनाभावात्कार्याभावः किं न स्यादित्यत उच्यते ।। असक्त इति ।। तत्र कर्मणैव मोक्षप्राप्तिरुच्यत इत्यन्यथाप्रतीतिनिरासाय तद्व्याचष्टे ।। असक्त इति ।। कर्माचरन्नेवेत्येवार्थो न तु कर्मैवाचरन्निति भावः । तस्मादमुक्तस्य कर्मणा फलसद्भावादस्त्येव तस्य कार्यमिति वाक्यशेषः । नन्वमुक्तस्य कार्यमस्तीत्यनुक्तत्वात्कथं तस्मादिति तत्परामर्शः स्यादिति चेन्न । मुक्तस्यैव कार्यं नास्तीत्युक्त्याऽमुक्तस्य कार्यमस्तीति प्राप्तत्वात् । ननु मुक्तस्यैव कार्य नास्तीत्येवकाराभावात्कथममुक्तस्य कार्यसद्भावप्राप्तिरित्यत आह ।। मुक्तस्यैवेति ।। एवकाराभावेऽपि तदर्थावधारणस्य तुशब्देनावगतत्वात्तेनामुक्तस्य कार्यसद्भावः प्राप्यत इति भावः । केचित्तु यस्त्विति वाक्यं ज्ञानिमात्रविषयतया व्याकुर्वते न तद्युक्तम् । यस्त्वेवात्मरतो मुक्तो विष्णुप्रसादाद्रतिमानित्यादिस्मृत्या मुक्तविषयतया गृहीतत्वात् ज्ञानिनामपि कार्यसद्भावस्योक्तत्वाच्चेत्यभिप्रेत्य दोषान्तरं चाह ।। तस्मादिति ।। यद्यत्र ज्ञानिमात्रस्य कार्याभावोऽभिप्रेतः स्यात्तर्ह्यर्जुनं प्रति तस्मादसक्त इत्युपसंहारवाक्ये कर्मविधानं विरुद्धं स्यात् । तस्यापि ज्ञानित्वादिति भावः । अर्जुनस्य ज्ञानित्वे प्रमाणाभावेनाज्ञत्वात्कर्माधिकारित्वमेवातस्तं प्रतिकर्म विधानं न विरुद्धमित्यत आह ।। ब्रह्मेति ।। ये तेषामिति योज्यम् । मुक्तविषयत्वेऽप्यस्यार्जुनं प्रति कर्मविधानं विरुद्धम् । पाण्डवानामेतद्वचनबलात् ब्रह्मरतत्वादिमुक्तलक्षणवत्तया मुक्तसाम्यादित्यत आह ।। आत्मेति ।। न पाण्डवानां मुक्तानां चातिसाम्यम् । आत्मरतिरेवेति मुक्तानामरतिव्यावर्तकैवशब्देन पाण्डवेभ्यो विशेषप्रतीतेरित्यर्थः । मुक्तानां दुःखाभावेऽपि कथं पाण्डवेभ्यो विशेष इत्यत आह ।। एषामिति ।। १९ ।।

किरणावली

कर्मणा प्रयोजनाभावादिति ।। मोक्षस्य ज्ञानैकसाध्यत्वादिति भावः ।। ज्ञानिमात्रविषयतयेति ।। तेन भाष्येऽस्य श्लोकस्यासंप्रज्ञातसमाधिस्थविषयत्वेन व्याख्यातत्वात्सूत्रभाष्ये ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेरित्यत्र देवतालक्षणज्ञानिनामनुष्ठेयानां मध्ये केषाञ्चित्कार्याणामभाव इत्यत्र प्रमाणत्वेनोदाहृतत्वात्कथमयं पक्षो दूष्य इति निरस्तम् । अत्र ज्ञानिमात्रस्य सर्वथा कर्माभावमतस्य दूष्यत्वादिति भावः ।। इत्यादिस्मृत्येति ।। यस्त्वेवात्मरतो मुक्तः कार्यन्तस्यैव नास्ति हि ।। तस्मात्कुर्वेव कर्माणीत्याह कृष्णोऽर्जुनं स्मयन्निति पूर्वाध्यायोदाहृतस्मृत्या विष्णुप्रसादाद्रतिमानित्यत्रैवोदाहृतस्मृत्या चेत्यर्थः ।। ज्ञानिनामपीति ।। अधाते विष्णो पश्यन्नपीममात्मानमिति श्रुत्युदाहरणपूर्वं पूर्वाध्याये साधितत्वादित्यर्थः । ब्रह्मनिष्ठा इति मूलस्य ब्रह्मनिष्ठाः ब्रह्मणि भक्तिलक्षणनिष्ठायुक्ताः । ब्रह्मरताः ब्रह्मज्ञानेन प्राप्तानंदाः । ब्रह्मज्ञानेनात्यन्तं तर्पिताः विषयेष्वलम्बुद्धियुक्तास्तेषां मुक्तानां पाण्डवानां च किञ्चिदेवान्तरं लिङ्गशरीरभावाभावलक्षणमित्यर्थः । भविष्यत्पर्ववचनाच्चेति चशब्देन

मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ।

दर्शयामास पार्थाय परमं रूपमैश्वरम् ।

नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः ।

इत्यादीनि प्रागुदाहृतवचनानि समुच्चीयन्ते । दुःखाभासस्यापि भावादित्यनेनान्तरं किञ्चिदेवेत्यत्र न लिङ्गशरीरभावाभावलक्षणमात्रं वैषम्यं किंतु दुःखाभासभावाभावरूपं चेत्युक्तं भवति ।। १९ ।।

भावदीपः

कर्मैवाचरन्नित्यर्थाभिप्रायेणाह ।। कर्मणैव मोक्षेत्यादिना ।। उक्तत्वादिति ।। सहयज्ञा इत्यादि न कर्मयोगेन योगिनामित्यादिना वेति भावः । पूर्वोत्तरार्धयोस्सङ्गतत्वायाह ।। तेषामिति योज्यमिति ।। १९ ।।

भावप्रकाशः

ननु मुमुक्षोर्मोक्षरूपप्रयोजनसत्वात् कथं प्रयोजनाभाव इत्यत आह ।। कर्मणेति ।। मोक्षस्तु ज्ञानेनैव सिध्यतीति भावः । कर्माचरन्नेवेति । कर्माचारायोगव्यवच्छेदक एव एवशब्दो नतु अन्यव्यवच्छेदक इत्यर्थः ।। तुशब्देनावगतत्वादिति । अनेन गीतायां तुशब्दोऽवधारणार्थकः सन् तस्येत्यनेन सम्बध्यत इति सूचयति ।। केचित्विति ।। ननु सूत्रभाष्ये यस्त्विति श्लोके ज्ञानिनां कार्याभाव इत्यत्र प्रमाणत्वेनोदाहृतः । यथोक्तं तत्वप्रकाशिकायाम् । ज्ञानिनां कार्याभावोक्तेर्न तत्परित्यागेन साम्यायोग इतीति । तत्कथमत्र तन्निषेधे तद्विरोधो न स्यादिति चेन्न ।। भाष्ये देवतालक्षणज्ञानिनां विहितमध्ये केषाञ्चित्कार्याणामभावस्य विवक्षितत्वेनात्र च ज्ञानिमात्रस्य सर्वथाकर्माभावमतस्य निराकरणेन भिन्न विषयत्वेन विवक्षितत्वादिति भावः ।। इत्यादिस्मृत्येति ।

यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्तिहि ।

तस्मात्कुर्वेव कर्माणीत्याह कृष्णोर्जुनं स्मयन्निति ।

पूर्वोदाहृतस्मृत्या विष्णुप्रसादित्युदाहृतव्याख्यानरूपस्मृत्याच मुक्तविषयतया गृहीतत्वादित्यर्थः ।। कार्यसद्भावस्योक्तत्वादिति ।। अथाते विष्णो, पश्यन्नपीममात्मानमिति श्रुत्युदाहरणेनोक्तत्वादित्यर्थः ।। ब्रह्मनिष्टा इति ।। प्रथमान्तस्य पाण्डवानामिति षष्ठ्यन्तेनान्वयादाह । ये तेषामिति योज्यमिति । ये बह्मनिष्टत्वादियुताः तेषां पाण्डवानामिति योज्यमित्यर्थः ।। मुक्तविषयत्वेऽप्यस्येति । यस्त्वात्मरतिरिति श्लोकस्येत्यर्थः ।। १९ ।।

वाक्यविवेकः

तत्र कर्मणैवेति । सर्वं वाक्यं सावधारणमिति न्यायेन एव शब्दस्याध्याहारं कृत्वा कर्मैवाचरन्निति योजनायां कर्मैव मोक्षसाधनं इत्यन्यथाप्रतीतिर्भवतीति भावः । कर्म आचरन्नेवेत्यर्थ इति ।। सत्यं एवेति पदमध्याहार्यम् । तथाप्याचरन्नित्यतः परमेवाध्याहार्यं न तु कर्मेत्यतः परमिति भावः । ज्ञानिमात्रविषयतेति । असंप्रज्ञातसमाधिस्थज्ञानिविषयतां मुक्तविषयतां चापहाय ज्ञानिमात्रविषयतया व्याकुर्वत इत्यर्थः ।

एतेनासंप्रज्ञातसमाधिस्थज्ञानिपरतया भाष्ये व्याख्यातत्त्वात् तन्मतदूषणे भाष्यमेव दूषितं स्यादिति परास्तम् ।। १९ ।।

Load More