गीता
गीता
जन्म कर्म च मेदिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैतिमामेति सोर्जुन ।। ९ ।।
तात्पर्यम्
‘येषां गुणानां ज्ञानेन मुक्तिरुक्ता पृथक्पृथक् ।
वेदेषु चेतिहासेषु सा तु तेषां समुच्चयात् ।
एवमेव शमादीनां नान्यथा तु कथञ्चन’
इति ब्रह्मवैवर्तवचनाज्जन्म कर्म चेत्यादिषु न तावन्मात्रेण मोक्षः ।। ९ ।।
प्रकाशिका
‘‘जन्म कर्म च मे दिव्य’’मित्यत्रैतदप्यवश्यं ज्ञातव्यम् । मुक्त्यर्थमित्युच्यते । नत्वेतावन्मात्रज्ञानेन मुक्तिरिति । भगवद्गुणान्तरज्ञानस्य मुक्तिसाधनत्ववचनानर्थक्यापातात् । शमदमादीनां ज्ञानाङ्गानां समुच्चयेन भाव्यं न त्वेकेनालमित्येतदाह ।। येषामिति ।। ९ ।।
न्यायदीपिका
एवं स्वभावादेवावतारादिव्यापारमुक्त्वा तज्ज्ञानफलमुच्यते ।। जन्मेति ।। तत्रेश्वरजन्मकर्मज्ञानमात्रेण मोक्षो भवतीत्यन्यथाप्रतीतिं निराचष्टे ।। येषामिति ।। समुच्चयादेव भवतीति ज्ञातव्यमिति शेषः । शमादीनां समुच्चयादेव ज्ञानं भवतीति ज्ञातव्यम् । पृथक्पृथग्ज्ञानसाधनत्वोक्तावपीत्यर्थः । उक्तो ग्राह्य इति शेषः ।। ९ ।।
किरणावली
समुच्चयादेव भवतीति ज्ञातव्यमिति ।। गुणानां ज्ञानसमुच्चयादेव भवतीति ज्ञातव्यमित्यर्थः । एवमेव शमादीनां समुच्चयादेव मुक्तिरुक्तेत्यन्यथा प्रतीते र्व्याचष्टे ।। शमादीनां समुच्चयादेव ज्ञानं भवतीति ज्ञातव्यमिति ।। शान्तो दान्त उपरतस्तितिक्षुरात्मन्येवात्मानं पश्येदिति तेषां ज्ञानार्थमवश्यानुष्ठेयत्वोक्तेः । नन्वस्यां श्रुतौ शमादि समुच्चयस्यैवोक्तत्वादतिदेशो व्यर्थ इत्यत आह ।। पृथक् पृथगिति ।। वेदादिषु तत्र तत्रेति शेषः । जन्मकर्मेत्यादिषु वाक्येषु मोक्षाभावान्निषेधो व्यर्थ इत्यत आह ।। उक्तो ग्राह्य इति शेष इति ।। ९ ।।
भावप्रकाशः
एवमेवेत्यत्रैवमित्यनेन समुच्चयादित्यस्य परामर्श इत्याह । शमादीनां समुच्चयादेवेति । ज्ञानं भवतीति ज्ञातव्यमिति । शान्तोदान्त इति श्रुतौ शमादीनां ज्ञानसाधनत्वोक्तत्वादिति भावः । जन्म कर्मचेत्यादिषु न मोक्ष इत्यनुपपन्नं वाक्यस्य मोक्षाधि करणत्वस्याप्रसक्तत्वादित्यत आह । उक्तो ग्राह्य इति शेष इति ।। ९ ।।
वाक्यविवेकः
ईश्वरजन्मकर्मज्ञानमात्रेणेति । ईश्वरगुणादिज्ञानं विना जन्मकर्मज्ञानमेव मोक्षसाधनं इत्यन्यथाप्रतीतिमित्यर्थः । एवमेव शमादीनां समुच्चयात् मुक्तिर्भवतीति प्रतीतिनिरासायाह । शमादीनामिति । तावन्मात्रेण मोक्ष उक्त इत्ययमर्थो न ग्राह्य इत्यर्थः ।। ९ ।।