गीता
गीता
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मान् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ।। ३० ।।
तात्पर्यम्
देही कुतोऽवध्यः ? यस्मादयमीश्वरः सर्वस्य जीवस्य सूक्ष्मे स्थूले च देहे रक्षकत्वेनावस्थितः अत एवावध्यः । न स्वसामर्थ्यं कस्यापि ।
‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ इति हि भागवते ।
‘तत्र तत्र स्थितो विष्णुर्नित्यं रक्षति नित्यदा ।
अनित्यदैवानित्यं च नित्यानित्ये ततस्ततः ।
भावाभावनियन्ता हि तदेकः पुरुषोत्तमः’ इति पाद्मे ।। ३० ।।
प्रकाशिका
देहिन इत्येतद्व्याचष्टे ।। देहीति ।। ३० ।।
न्यायदीपिका
आक्षिपति ।। देहीति ।। जीवो नित्य इत्युक्तं तत्र किं स्वत एव नित्योऽथेश्वर सामर्थ्येन । नाद्यः । सर्वं परमेश्वराधीनमित्यभिमतविरोधात् । न द्वितीयः । नित्यत्वस्य स्वाभाविकत्वेनेश्वराधीनत्वानुपपत्तेरिति भावः । एतत्परिहाराय देहीति श्लोकं व्याचष्टे ।। यस्मादिति ।। देहे रक्षकत्वेन स्थितश्चेत्प्रलयादौ नाशः स्यादित्यत उक्तम् ।। सूक्ष्म इति ।। सूक्ष्मदेहपदेन लिङ्गशरीरं चैतन्यशरीरं चोच्यते । नित्यत्वादेः स्वाभाविकत्वात्कथमीश्वराधीनत्वमित्यत आह ।। द्रव्यमिति ।। स्वाभाविकत्वेपि नित्यत्वादेरीश्वराधीनत्वं युज्यते । स्वभावस्यापि भगवदधीनतया स्मृतिसिद्धत्वादिति भावः । जीवसत्ताया भगवदधीनत्वे चेयं स्मृतिः प्रमाणम् । तथापि जीवे स्थित्वा तद्रक्षक ईश्वर इति विशेषः कुत इत्यत आह ।। तत्रेति ।। ततः तदधीने । ततस्तस्मात्तन्नियंतृत्वात् । भावाभावयोरपि नित्यानित्याबहिर्भावात् ।। ३० ।।
किरणावली
देहेरक्षकत्वेनेति ।। देहेरक्षकत्वेन स्थितश्चेद्यावद्देहं रक्षतां नाम प्रलये देह प्रवाहविच्छेदान्मुक्तौ लिङ्गशरीरस्यापि विच्छेदात्तदनन्तरं देहाभावेन रक्षणाभावात्प्रलये मुक्तौ च नाशः स्यादिति भावः । कथमनेन सूक्ष्मग्रहणेनोक्त शङ्कापरिहार इत्यत आह ।। सूक्ष्मदेहपदेनेति ।। कैमुत्येनेश्वराधीनत्वं सिद्ध्यतीत्याह ।। जीवसत्तायाभगवदधीनत्वे चेयं स्मृतिः प्रमाणमिति ।। तथा च सुतरां तद्धर्माणां नित्यत्वादीनां भगवदधीनत्वमिति भावः । ततस्तत इत्यत्र तत इत्याद्यमनूद्यव्याचष्टे ।। ततस्तदधीने इति ।। द्वितीयस्य तत इत्यस्यार्थमाह ।। ततस्तस्मात्तन्नियंतृत्वादिति ।। नित्यानित्यनियंतृत्वादित्यर्थः । ततश्चायं मूलार्थः । तत्र तत्र नित्येऽनित्येच स्थितो विष्णुर्नित्यं जीवादिकं नित्यदा सर्वदा नित्यत्वेन रक्षति । अनित्यं वस्तु अनित्यदा न नित्यदा कदाचिदेव रक्षति । ततस्तस्मात्तन्नियं तृत्वान्नित्यानित्ये ततस्तदधीने । तत्तस्मात् । हिरवधारणे । हि र्हेताववधारण इत्यभिधानात् । तस्मादेव नित्यानित्यनियंतृत्वादेव । पुरुषोत्तम एक एव भावाभाव नियन्तेति । ननु नित्यानित्यनियंतृत्वेपि भावाभावनियंतृत्वं कुत इत्यत आह ।। भावाभावयोरिति ।। नित्यं द्विविधं भावोऽभावश्चेति विभागस्य प्रमितत्वादिति भावः ।। ३० ।।
भावदीपः
ततस्तत इत्यत्र ततः कारणात् ततो हरेरित्युपेत्याह ।। ततस्तदधीन इति ।। इत्युक्तस्येति ।। ३० ।।
भावप्रकाशः
प्रलयादावित्यादिशब्देन मुक्तिर्ग्राह्या ।। ननु लिङ्गशरीराख्यसूक्ष्मदेहस्यापि मुक्तावभावात् जीवस्य नाशः स्यादित्यत आह । सूक्ष्मदेहपदेनेति ।। एतत्स्मृत्या स्वाभाविकस्यापि नित्यत्वादेः कैमुत्येनैवेश्वराधीनत्वं सिध्यतीत्याह । भावाभावयोरपीति ।। ३० ।।
वाक्यविवेकः
सूक्ष्मदेहपदेनेति । स्थूलदेहाभावसमये प्रलये लिङ्गशरीरं प्रविष्टः मोक्षे रक्षणाय चिदात्मकशरीरं प्रविष्ट इति भावः । तत इत्यनूद्यार्थमाह । ततस्तदधीन इति । नित्यानित्ये ततो भवत इत्युक्तया तदधीन इत्यर्थो लभ्यत इति भावः । द्वितीयस्य ततःशब्दस्यार्थमाह । ततस्तस्मादिति । नित्यानित्ययोर्नियामकत्वे भावाभावनियामकत्त्वे कुत इत्येतत्परिहारत्त्वेनोक्तोपसंहाररूपं श्लोकं योजयति आह । भावाभायोरपीति । ततश्चैवं मूलयोजना । विष्णुः नित्ये स्थित्वा नित्यं नित्यदा रक्षति । अनित्ये स्थित्वा अनित्यं अनित्यदा रक्षति । एवं नित्यानित्ये तदधीन इति सिद्धम् । यस्मात् नित्यानित्ये तदधीने तस्मात् भावाभावनियन्ता यस्मात् भावभावनियन्ता । तत् तस्मात् पुरुषोत्तम एकः स्वतन्त्र इति ।।३०।।