तात्पर्यम्
तात्पर्यम्
स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमोत्तमः ।
तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम् ।।
अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः ।
अधिकार्युत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः ।।
नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः ।
तिरोहितं तथाप्येते ृण्वन्ति क्रीडयाऽथवा ।।
बहुवारतदभ्यासात्तिरोभावोऽपि नो भवेत् ।
यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम् ।।
पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम् ।
प्रकाशिका
अर्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं च यदुक्तं तत् श्रुत्या विवृणोति ।। अधमाधिकारिण इति ।।
न्यायदीपिका
कथं भक्तेरेव ज्ञानादिसाधनत्वमुच्यते श्रवणादेस्तत्साधनत्वश्रवणादित्यत आह ।। सर्वेति ।। तदेव विवृणोति ।। तेनैवैति ।। मोक्षो मोक्षादिः । अतिपरिपक्वभक्तियोग एव मोक्ष साधनं न भगवदृष्टिः । सातु तत्साधनत्वान्मोक्षसाधनत्वेनोच्यते । परिपक्वभक्तियोग एव दृष्टिसाधनन्नतुध्यानम् । तत्तु तत्साधनमिति दृष्टिसाधनतयोच्यते ।
पक्वो भक्तियोग एवज्ञान साधनं नतु च श्रवणादि । तत्तु तत्साधनतया ज्ञानसाधनत्वेनोच्यत इति भावः । यदुक्तं अर्जुनस्य देवत्वादुत्तमाधिकारित्वं ततोऽपरोक्षज्ञानित्वमिति तत्रार्जुनस्य देवत्वे देवत्वोत्तमाधिकारित्वयोर्व्याप्तौ उत्तमाधिकारित्वापरोक्षज्ञानित्वयोर्व्याप्तौ च श्रुतिमुदाहरति ।। अधमेति ।। मर्त्या मर्त्योत्तमाः । समा मध्यमाः । देवानामुत्तमाधिकारित्वं कुत इत्यतो ब्रह्मदर्शना भावादित्याह ।। नैवेति ।। कथं तर्हि तेषां श्रवणाद्युपलभ्यत इत्यत आह ।। तिरोहितमिति ।। एवं चेन्न पुनःश्रोतव्यं पूर्ववत् भूयस्तिरोभावप्राप्तेरित्यत आह ।। बहुवारेति ।। तदभ्यासात् श्रवणाद्यभ्यासात् । बहुवाराभ्यासेन ज्ञानस्यातिरोभावःक्व दृष्ट इत्यत आह ।। यथेति ।। अभ्यासप्रदर्शनार्थमुक्तं व्यासेति । प्रथमश्रवणाद्येवैतत्किं नस्यादित्यत उक्तं देवानामिति । देवत्वेन प्रागपिश्रवणाद्यस्त्येवेतिभावः ।
किरणावली
कथं भक्तेरेव ज्ञानादिसाधनत्वमुच्यत इति ।। परोक्षापरोक्षज्ञानयोः ज्ञानिनोऽपि मोक्षस्य तदधीनत्वं चेत्यत्रोच्यत इत्यर्थः ।।
श्रवणादेरिति ।। आत्मा वा ओ द्रष्टव्यः श्रोतव्य इत्यादावित्यर्थः । ननु श्रवणादीनां कथं भक्तिसाध्यत्वं प्रमाणविरोधादित्याशङ्कायां तेन भक्तियोगेनैव मोक्षो नान्येन ज्ञानेनेति कथमेकदेशस्योत्तरप्रदानं प्रदाने वा तदुपपादकवाक्ये दृष्टिस्तस्य भक्तियोगस्य कारणमित्येतावता पूर्णत्वादादिग्रहणं व्यर्थम् । अनुपपन्नं च । दृष्ट्यादिरित्यादिपदोपात्तानां ध्यानमननश्रवणानामुक्तप्रमाणविरोधेन भक्तिकारणत्वायोगादित्यत आह ।। मोक्षो मोक्षादिरिति ।। आदिपदेन दृष्टिध्यानश्रवणानां ग्रहणम् । ननु मोक्षादीनां श्रवणान्तानां भक्तिसाध्यत्वे दृष्ट्यादिस्तस्य साधनमिति दृष्ट्यादीनां भक्तिसाधनत्वमयुक्तम् । अन्योन्याश्रयत्वप्रसङ्गादुक्तप्रमाणविरोधापरिहाराच्चेत्यतोऽभिप्रायमाह ।। अतिपरिपक्वेत्यादिना ।। न तु श्रवणादीत्यादिपदेन मननं गृह्यते । तत्वनिश्चयानन्तरं हि ध्यानं भवति । ‘‘ध्यानं निश्चिततत्त्वस्ये’’ त्युक्तत्वात् । स च श्रवणमननाभ्यां भवति । एवं च श्रवणादेर्ध्यानसाधनत्वप्रसक्तौ न श्रवणादेः साक्षाध्द्यानसाधनत्वम् । किंतु भक्तिद्वारा तत्साधनत्वमत्रोच्यत इति ज्ञेयम् ।। देवत्वोत्तमाधिकारित्वयोर्व्याप्तावुत्तमाधिकारित्वापरोक्षज्ञानित्वयोरिति ।। नन्वस्यां श्रुतावधिकार्युत्तमा देवा इत्यत्र ये देवास्तेऽधिकार्युत्तमा इति देवत्वोत्तमाधिकारित्वयोर्व्याप्तिरुच्यते । अधमाधिकारिण इत्यादिव्यर्थमिति चेत् व्यतिरेकव्याप्तिप्रदर्शनपरत्वात् । मर्त्यपदेन मनुष्याधमानां मनुष्यमध्यमानां च ग्रहणमयुक्तमधिकारित्वाभावादित्यत आह ।। मर्त्या मर्त्योत्तमा इति ।। ऋष्यादिका मुक्तौ समाः शत्रुमित्रसमा इत्यन्यथाप्रतीतेराह ।। मध्यमा इति ।। मध्यमाधिकारिण इत्यर्थः ।। देवानामुत्तमाधिकारित्वं कुत इत्यतो ब्रह्मदर्शनाविनाभावादिति ।।
नन्वत्र देवानामुत्तमाधिकारित्वं कुत इति शङ्कायां ‘‘नैव देवपदं प्राप्ता’’ इत्यत्र ब्रह्मदर्शनवर्जितानां देवपदप्राप्तिनिषेधः क्रियते । कथमनेन देवानामुत्तमाधिकारित्वमुपपादितं स्यात् । प्रत्युत ब्रह्मदर्शनस्य व्यापकत्वं देवत्वस्य व्याप्यत्वमिति देवत्वेनैव ब्रह्मदर्शित्वस्य साध्यतया प्रतीत्या देवानामुत्तमाधिकारित्वे प्रमाणानुपन्यासात् । किं चास्यां श्रुतौ यत्रोत्तमाधिकारित्वं तत्रापरोक्षज्ञानित्वमिति व्याप्यस्यानुपन्यासात् । तथावतारिका प्रदानमप्ययुक्तमिति चेन्न । देवानामुत्तमाधिकारित्वं कुत इत्यादि टीकाग्रन्थस्यायमर्थः । यत्र देवत्वं तत्रोत्तमाधिकारित्वमिति व्याप्तिरुक्ता । तत्कुतः । अप्रयोजकत्वात् । अन्यथा मनुष्याणामपि तत्प्रसङ्गात् । मनुष्यावर्तिन उत्तमाधिकारित्वे कारणविशेषस्य देवेष्वदर्शनादित्यतः देवानां ब्रह्मदर्शनाविनाभावात् । ब्रह्मदर्शनं विनाऽवस्थानाभावान्मनुष्याणामपरोक्षानन्तरमपि प्रायस्तिरोधानेन ब्रह्मदर्शनं विनावस्थानात्तदवर्तिना कारणविशेषेणोत्तमाधिकारित्वमित्याहेति । तथाच देवपदं प्राप्ता ब्रह्मदर्शनवर्जिता नैवेति मूलार्थः । तथाचोत्तमाधिकारित्वं प्रति सदा ब्रह्मदर्शनस्य व्यापकत्वात् व्याप्तिसिद्धिरिति भावः ।। कथं तर्हीति ।। यदि देवपदंप्राप्तानां ब्रह्मदर्शनवर्जनं नास्ति कथं तर्हीत्यर्थः । मूले तिरोहितमित्यस्य कदाचिद्रूपविशेषे तिरोहितमित्यर्थः । तिरोधानशून्यस्य ब्रह्मणः कथं श्रवणादिकमित्यत उक्तम् । क्रीडयेति । ननु संशयार्थं गुरोर्वचः ।। सुपर्णादेर्विरिञ्चस्य केवलं धर्मकारणमिति श्रवणस्य धर्मकारणत्वोक्तेः ‘‘जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा ।। पृच्छन्ति साधव’’ इत्यादेर्विशेषज्ञानाद्यर्थं श्रवणोक्तेः कथं क्रीडयेत्युक्तिरित्यतस्तदप्यस्तीति भावेनोक्तम् । अथवेति । पक्षान्तरमप्यस्तीत्यर्थः । केवलमित्युक्तिस्तु तिरोधानव्यावृत्त्यर्थमिति भावः । श्रवणाद्यभ्यासादिति श्रवणाद्यनुष्ठानादित्यर्थः । आवृत्तेरित्यर्थोक्तौ बहुवारेति व्यर्थं स्यात् । यद्वा श्रवणाद्यावृत्तिर्द्विस्त्रिवारं न भवति । किं तु बहुवारश्रवणाद्यावृत्तेरित्यर्थः ।। अभ्यासप्रदर्शनार्थमिति ।। द्वापरे व्यासस्यावतीर्णत्वात् । तस्माद्भारतसूत्रादिश्रवणं चरममिति ततः पूर्वमप्यावृत्तिर्ज्ञायत इति भावः ।।
देवत्वेनेति ।। अपरोक्षानन्तरमेव देवपदप्राप्तेरपरोक्षस्य च श्रवणाद्यावृत्तिं विनाऽयोगादिति भावः । ननु गीतोक्तं विस्मृतं चास्य पुनरध्यगमद्विभुरिति पार्थस्य तिरोधानमुक्तमिति कथं पार्थानामतिरोधानमुक्तमिति चेन्न । पुनरुपदेशानन्तरं तदभावात् । ननु यदि पार्थानां ज्ञानं सुस्थिरतां गतं तर्हि दिनकल्पान्तरे कथमिन्द्राद्यंशिनामर्जुनाद्यंशानां च तिरोभाव इति चेन्न । तेषां पूर्वदिनेष्ववतीर्णभगवद्रूपविषये मूलरूपे च तिरोधानाभावात्केवलं तत्तद्दिनेष्ववतीर्णेषु भगवद्रूपे प्रतिदिनं पृथक्साक्षात्क्रियमाणेषु कदाचित्तिरोभावस्तत्तद्दिनावतीर्णव्यासद्युपदेशेन पुनर्ज्ञानस्य स्थैर्यमित्यङ्गीकारात् । अत एव महाभारततात्पर्यनिर्णये इन्द्रोऽथविस्मृतरथाङ्गधरावतार इत्युक्तम् । अन्यथा कृष्णावतारे सर्वेषां साधनपूर्तेरित्युक्तत्वाद्दिनान्तरे तदनुष्ठानं न स्यात् । तद्दिनेषु विभक्तसाधनविवक्षया पूर्तिश्चेत्तत्तद्दिनेषु साक्षात्क्रियमाणरूपविवक्षया ज्ञानतिरोधानं पुनस्तद्दार्ढ्यमिति काऽनुपपत्तिः ।।
भावदीपः
श्रवणादेरिति ।। ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यः’ इत्यादाविति भावः ।। मोक्षादिरिति ।। ज्ञानमादिपदार्थः । ‘दृष्ट्यादिस्तस्य साधनम्’ इत्यत्रादिपदेन ध्यानं श्रवणमनने च ग्राह्ये । तस्येत्यनेन च भक्तिशब्दार्थतयोक्तो यः स्नेहः स चातिपरिपक्वः परिपक्वः अपरिपक्व इति त्रिविधोऽपि गृह्यत इत्युपेत्य दृष्ट्यादिमध्ये किं कस्य भक्तिरूपस्य स्नेहस्य साधनमित्यतस्तद्विवेकेन दर्शयन् कथं भक्तेरित्यादिनोक्तशङ्कां निराह ।। अतिपरिपक्व इत्यादिना ।। योग उपायः ।। तत्साधनत्वादिति ।। मोक्षसाधनातिपरिपक्वभक्तिसाधनत्वादित्यर्थः ।। तत्साधनमिति ।। दृष्टिसाधनपरिपक्वभक्तिसाधनमित्यर्थः । श्रवणादीत्यादिपदेन मननग्रहः । यदुक्तमिति ।। ‘सुदुर्दर्शमिदं रूपं’ इत्याद्युदाहृत्योक्तमित्यर्थः । देवत्वादुत्तमाधिकारित्वमित्यनुवादः स्वकृतव्याख्यानानुरोधेनेति ज्ञेयम् । व्याप्तौ चेति ।। ये देवास्तेऽधिकार्युत्तमा इति मूले व्याप्तिरभिमतेति भावः ।।
भावप्रकाशः
भक्तया प्रसन्नः इत्यत्र मोक्षदर्शनज्ञानानां कृतत्वात्तदनुसारेणाह । मोक्षोमोक्षादिरिति । एकस्या एव भक्तेः त्रितयसाधनत्वं कथमित्यतो धर्मभेदादित्याह । अतिपरिपक्वभक्तियोग इति । तत्साधनत्वादिति । अतिपरिपक्वभक्तियोगसाधनत्वादित्यर्थः । तत्साधनमिति । परिपक्वभक्तियोगसाधनमित्यर्थः । तत्साधनतयेति । पक्वभक्तिसाधनतयेत्यर्थः । यदुक्तमर्जुनस्येति । तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमित्यनेनेत्यर्थः । तत्र मन्दा मनुष्येषु य उत्तमगणा मता इति सूत्रभाष्योदाहृतप्रमाणानुसारादाह । मर्त्या मर्त्योत्तमा इति ।। मध्यमा ऋषिगन्धर्वा इत्यनुसारेणाह । समा मध्यमा इति ।
वाक्यविवेकः
मोक्षादिरिति । अपरोक्षज्ञानं परोक्षज्ञानं च आदिशब्दार्थः ।। देवत्वेति । देवत्वदेवत्वोत्तमैश्वर्यवत्वयोरुत्तमैश्वर्य वत्वापरोक्ष ज्ञानित्वयोर्व्याप्तौ श्रुतिमाहेत्यर्थः ।। एतेनापरोक्षज्ञानात्पूर्वमप्युत्तमाधिकारित्वस्य विद्यमानत्वात् उत्तमाधिकारित्वापरोक्षज्ञानित्वयोर्व्याप्ताविति कथनमयुक्तमिति चोद्यं परास्तम् । उत्तमाधिकारित्वशब्देन उत्तमयोग्यतावत्वस्य ग्रहणमित्यनङ्गीकृत्य उत्तमैश्वर्यवत्वस्य ग्रहणात् । मूले अधमाधिकारिणो मर्त्या मुक्ताविति । मर्त्या मनुष्योत्तमाः मुक्तौ मुक्तिसाधनपरोक्षज्ञाने जाते अधमाधिकारिणः अधमैश्वर्यवन्तो भवन्तीत्यर्थः ।। एवं ऋष्यादिकाः समा इत्यादावपि द्रष्टव्यम् ।
देवा अधिकार्युत्तमा इत्युक्तया देवत्वोत्तमैश्वर्यवत्वयोर्व्याप्तिरुच्यत इत्येतच्छिष्यैरेव ज्ञातुं शक्यत इति अधिकार्युत्तमा देवा इति वाक्यमव्याख्याय नैव देवपदं प्राप्ता इति वाक्यं व्याख्यातुं तद्व्यावर्त्याशङ्कां दर्शयति । देवानामिति । देवानामुत्तमैश्वर्यवत्वं कुतः साधनात्प्राप्तमित्यर्थः । ब्रह्मदर्शनेति । देवानामुत्तमब्रह्मदर्शनाविनाभावात् । देवे नियमेनोत्तमब्रह्मदर्शनस्य विद्यमानत्वादिति भावात् । अनेन देवानामुत्तमैश्वर्याय उत्तमब्रह्मदर्शनं कारणं इत्युक्तं भवति । ततश्च नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिता इति मूलस्य ये उत्तमब्रह्मदर्शनवर्जितानैव ब्रह्मदर्शनविशिष्टा इति यावत् । ते एव देवंपदं देवपदरूपोत्तमैश्वर्यं प्राप्ता इत्यन्वयात् ये ब्रह्मदर्शनवर्जिताः ते देवपदरूपात्तमैश्वर्यं नैव प्राप्ता इति व्यतिरेकाच्च उत्तमब्रह्मदर्शनं देवपदरूपोत्तमैश्वर्यकारणमिति योजना सूचिता भवति । उत्तमैश्वर्यं प्रति उत्तमब्रह्मदर्शनस्य कारणत्वोक्तया उत्तमैश्वर्यवत्वापरोक्षज्ञानित्वयोः व्याप्तिः समर्थिता भवति ।
एवं चेदिति ।। श्रवणादिजन्यज्ञानस्य तिरोभावे पुनः श्रवणादि नानुष्टेयं तिरोभावयोग्यज्ञानोत्पत्तिप्रसङ्गात् । किं तु तिरोभावायोग्यस्य ज्ञानस्य यत्साधनं स्यात् तदेवानुष्टेयमिति भावः । एतेन श्रवणादेस्तिरोभावं प्रत्यसाधनत्वात् श्रवणाद्यनुष्टाने तिरोभावापादनमयुक्तमिति परास्तम् । श्रवणादेस्तिरोभावयोग्यज्ञानसाधनत्वात् तादृशज्ञानं स्यादित्यापादने तात्पर्यात् ।