गीता
गीता
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ।। ३२ ।।
तात्पर्यम्
अतो विष्ण्वनुवर्तिषु स्ववत् स्नेहः कर्तव्यः ।। ३२ ।।
प्रकाशिका
‘‘आत्मौपम्येने’’त्यस्यार्थमाह ।। अतो विष्णाविति ।। यतो विष्णुः सतां बन्धुः नित्यं सखा, यत्र यथावृत्तिः विहितवर्तनं तथेत्याद्युक्तम् । अतो विष्णुभक्तेषु स्वस्मिन्निव स्नेहः कर्तव्य इत्यर्थः ।। ३२ ।।
न्यायदीपिका
योगिन एवेत्थंभावान्तरमुच्यते ।। आत्मेति ।। तत्सर्वप्राणिविषयमित्यन्यथाप्रतीतिनिरासाय व्याचष्टे ।। अत इति ।। अत्र भगवदीयेष्वेव स्वस्मिन्निव स्नेहो विधीयते नत्ववैष्णवेषु । बन्धुरात्मेति वैष्णवानामेव भगवत्प्रियत्वस्योक्तत्वादनात्मन इत्यवैष्णवानां भगवदप्रियत्वस्योक्तत्वादिति भावः ।। ३२ ।।
किरणावली
योगिन एवेत्थंभावान्तरमिति । सर्वत्र समदर्शन इति ब्रह्माणमारभ्य तृणान्ते सर्वत्रैश्वर्यादिना साम्येन ज्ञानं इत्थंभाव उक्तः । स एवैकत्वमास्थित इति विवृतः । इदानीं भगवदीयेषु समबुद्धित्वलक्षणमित्थंभावान्तरमुच्यत इत्यर्थः । अत इति परामृष्टं हेतुं दर्शयति ।। बन्धुरिति ।। ३२ ।।