गीता

गीता

कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद्यः।

सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ।। ९ ।।

प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ।। १० ।।

तात्पर्यम्

तमसः परस्तात् अप्राकृतदेहम् ।। ९, १० ।।

न्यायदीपिका

कथं भूतः स्मर्तव्योऽसीत्यस्य परिहार उच्यते ।। कविमिति ।। तत्रादित्यवर्णश्चेच्छरीरित्वेन जन्मादिप्रसङ्ग इत्यत उक्तं तमसः परस्तादिति । तदनूद्य व्याचष्टे ।। तमस इति ।। अव्यक्तं वै तम इति हि श्रुतिः ।। ९,१० ।।

किरणावली

अव्यक्तं वै तम इति हि श्रुतिरिति ।। तमसः परस्तादित्यस्य व्याख्यानरूपश्रुतिरित्यर्थः । तथा च भाष्ये । तमसः परस्तादिति । अव्यक्तं वै तमः परस्ताद्धिसतत इति पिप्पलादशाखायामिति ।। ९ ।।

भावप्रकाशः

तमःशब्दस्य प्रकृतिवाचित्वे प्रमाणमाह ।। अव्यक्तं वै तम इति ।। ९ ।।