तात्पर्यम्
तात्पर्यम्
तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतममर्जुनं क्षत्रियाणां विशेषतोऽपि परमधर्मं नारायणद्विट्तदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मस्तद्विरुद्धः सर्वोप्यधर्मो भगवदधीनत्वात्सर्वस्येति बोधयति भगवान्नारायणः ।
प्रकाशिका
श्रीगीताप्रतिपाद्यमर्थं संक्षिप्य निर्दिशति तत्रेति ।।
न्यायदीपिका
एवं गीतातात्पर्यकथनस्य युक्ततां प्रसाध्य श्रोतृशेमुषीमनुकूलयिष्यन्नादावेवाशेष गीताप्रतिपाद्यमर्थं संक्षेपेण दर्शयति ।। तत्रेति ।। तत्र गीतायाम् । इति कथ्यत इति शेषः । कृष्णस्याप्यर्जुनादविशेषात्कथं तद्बोधकत्वमित्यतो भगवान्नारायण इत्युक्तम् । आप्तसमस्तकामस्य भगवतः किमर्जुनबोधनेनेत्यत उक्तम् ।। आत्मन इति ।। प्रयोजनाभावेपि प्रीत्यतिशयवशान्मातुरपत्यपालनवत्तद्बोधनं युक्तमिति भावः । अर्जुनस्य भगवत्प्रियत्वमेव कुतः अपरोक्षज्ञानित्वाज्ज्ञानी प्रियतमोऽतो मे इति स्मृतेरिति चेत्तदेव कुत इत्यत आह ।। उत्तमेति ।। एतदपि कुत इत्यत आह ।। साक्षादिति ।। साक्षादिन्द्रःपुरन्दरः । साक्षादवतारो नावेशमात्रमिति वा । अत्रदेवत्वमेव वक्तव्यम् । इन्द्रावतारमिति स्वरूपकथनम् ।। अर्जुनबोधने का प्राप्तिरित्यत आह ।। नारायणेति ।। बान्धवादिनिग्रहस्याधर्मत्वात्किमुच्यतेऽधर्मत्वेनाशङ्क्येत्यत एतन्निग्रहस्य कैमुत्येनधर्मत्वमाह ।। क्षत्रियाणामिति ।। भागवतमात्रस्यैतादृशनिग्रहःपरमधर्मः अत्रैव नियुक्तानां क्षत्रियाणां तु विशेषतोपि परमधर्म इत्यर्थः ।। बान्धदवादिनिग्रहःकथं परमधर्म इत्यतो बान्धवादीति वक्तव्ये नारायणद्विट्तदनुबन्धीत्युक्तम् । बान्धवादित्वेपि केषाञ्चित् नारायणद्वैषित्वात् । केषाञ्चित् तदनुबन्धित्वात्तन्निग्रहो धर्म एवेति भावः ।।
नन्वयं धर्मश्चेच्छास्त्रोदित एव भवेत्तथाचन शास्त्रविदुषाऽधर्मत्वेनाशङ्क्येत शङ्क्यते चातो नधर्म इत्यत आह ।। बन्धुस्नेहादिति ।। न शास्त्रमुखेनेयं शङ्का अपितु स्नेहमात्र निबन्धनैवेति भावः ।। ज्ञानिनः स्नेहमात्रेणसञ्जातया शङ्कया कथं स्वकीय परमधर्म निवृत्तिरित्यत उक्तम् ।। निवृत्तप्रायमिति ।। एवमाशङ्कया निवृत्तप्रायश्चेदेतद्युद्धकरणमेव बोधनीयं भगवन्महिमादिकं किमर्थमुच्यत इत्यतो बोध्यार्थमाह ।। स्वेति ।। नकेवलं युद्धादि स्वविहितवृत्तिमात्रं परमो धर्मः ।। येन तदेव बोध्यं स्यात् ।। अपितुभक्तयादिकमपि ।।
तत्रार्जुनस्य धर्मैकदेशेऽधर्मशङ्कायामपि प्राप्तलोकोपकाराय समग्रधर्मो भगवता बोध्यते ।। तत्र भगवन्महिमाद्युक्तिस्तु भक्तयुत्पादनायेति भावः ।। ननु युद्धादि स्वविहित वृत्तिनिवृत्तोप्यर्जुनो न परमधर्म निवृत्तो भक्तयादिमत्त्वात् ।। अतः किं बोध्यत इत्यत आह ।। तदिति ।। न भक्तयादिकं प्रत्येकं परमधर्मो येन तावता तस्य न परमधर्म निवृत्तिः ।। किंतु मिलितमेवातोऽन्यतमाभावेपि परमधर्म निवृत्तेर्युक्तं तद्बोधनमितिभावः ।। तर्हि प्रकृत्यादिवर्णनं क्वोपयुज्यत इत्यतोस्तु स्वविहित वृत्तेर्धर्मत्वं भगवद्भक्त्या तदाराधनस्य धर्मत्वं तद्विरुद्धस्य अधर्मत्वं च कुत इत्याशङ्कानिवारणाय सर्वस्य भगवदधीनत्वहेतुं वक्तुं सर्वनिरूपणमिति भावेनाह ।। भगवदिति ।। सर्वस्य भगवदधीनत्वेन धर्माधर्मतया भगवन्नियतयोरेव तथाभावात्तस्य चैवंविधयोरेव तथा नियमनोपपत्तेरिति भावः ।।
किरणावली
ननु साक्षादिन्द्रावतारमित्यादिना बोधयति भगवान्नारायण इत्यवतारिका कस्यचिद्वाक्यस्य दीयत इति प्रतिभाति । तदयुक्तं प्रतीकाग्रहणादुपपादनासङ्गतत्वाच्चेत्यत अवतारयति ।। एवं गीतातात्पर्येति ।। श्रोतृशेमुषीमिति ।। विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्तीति भावः ।। संक्षेपेणेति ।।
‘‘संक्षेपविस्तराभ्यां हि कथयन्ति मनीषिणः ।
बहुवारस्मृतेस्तस्य फलबाहुल्यकारणादि’’ति
वचनादिति भावः । तत्रेत्यनेन गीतातात्पर्यमुच्यत इति प्रकृतगीतापरामृश्यत इत्याह ।। गीतायामिति ।। गीताया नारायणावतारकृष्णकर्तृकबोधनाधिकरणत्वाभावादाह ।। इतिकथ्यत इति शेष इति ।। नारायण इत्यनन्तरमिति कथ्यत इतिपदद्वयमध्याहार्यमिति भावः ।। प्रयोजनाभावेऽपीति ।। स्वस्येति शेषः । यत्र ज्ञानित्वं तत्र भगवत्प्रियत्वमिति व्याप्तिग्राहकभागवतवाक्यं पठति ।। ज्ञानीप्रियतमोऽतो म इति ।। ज्ञानेनासौ बिभर्ति मामिति वाक्यशेषः ।। तदेवकुत इति ।। ननूत्तमाधिकारित्वेन प्रियतमत्वमेव साध्यतां किं ज्ञानित्वं प्रसाध्य तेन प्रियतमत्वसाधनेन । न च व्याप्तिग्राहकप्रमाणाभावः ।
श्रीब्रह्मरुद्रशेषाश्च वीन्द्रेन्द्रौ कामतत्स्त्रियः ।।
सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचरा
इत्यादावुत्तमत्वतारतम्येन प्रियत्वतारतम्यस्योक्तत्वात् । किं चोत्तमाधिकारित्वं तत्वाभिमानिपदयोग्यजीवेष्वस्ति । अपरोक्षज्ञानित्वं नास्तीति व्यभिचरितमिति चेन्न । उत्तरमूले सुदुर्दर्शमिदं रूपमित्यारभ्यार्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं चेत्यन्तेन ग्रन्थेन भगवत्प्रियत्वापरोक्षज्ञानित्वोत्तमाधिकारित्वदेवत्वानां हेतुहेतुमद्भावमापन्नानामुपपादयिष्यमाणत्वेन तदनुसारेणात्रापरोक्षज्ञानित्वस्याध्याहारेण प्रियत्वे हेतुतयोपपादनात् । युक्तं चैतत् । राजादिर्हि सर्वदास्ववासनावासितान्तःकरणेषु स्वगुणरूपसाक्षात्कारेण प्रमोदभरितेष्वतिप्रीतिं करोति । न तु तथोत्तमेष्वमात्यादिषु राष्ट्राधिकारिषु । अत एव ज्ञानीप्रियतमोतो मे ज्ञानेनासौ बिभर्ति मामित्युक्तिः । उत्तमाधिकारित्वं त्वपरोक्षज्ञानित्वे हेतुः। राज्ञा स्वसाक्षात्कारं विना तेषामुत्तमाधिकार प्रदानाभावात् । अत एव न व्यभिचारः प्राप्तमहाधिकारत्वस्य हेतुत्वेन विवक्षितत्वेन प्राप्यपदेषु हेतोरेवाभावात् ।।
साक्षादिन्द्र इति ।। साक्षात्प्रत्यक्षमुख्ययोरिति वचनान्मुख्येन्द्र इत्यर्थः । ननूत्तमाधिकारित्वे इन्द्रावतारत्वं न हेतुः । तस्य सपक्षेषु ब्रह्मादिष्वभावेनासाधारणानैकांत्यप्रसङ्गादित्यत आह ।। अत्र देवत्वमेवेति ।। पक्षसपक्षसाधारणं देवत्वमेवोत्तमाधिकारित्वे हेतुतया वक्तव्यमित्यर्थः । अधिकार्युत्तमा देवा इति वक्ष्यमाणत्वादिति भावः ।। स्वरूपकथनमिति ।। हेतुमति पक्षे तदप्यस्तीति स्वरूपकथनमित्यर्थः । न चार्जुनस्य देवत्वे हेतुतया सार्थकमिति वाच्यम् । असाधारण्यापरिहारादिति भावः । न च देवत्वेनैवापरोक्षज्ञानित्वमनुमीयतां किं मध्ये उत्तमाधिकारित्वानुमानेनेति वाच्यम् । राजसाक्षात्कारवतामेव महाधिकारप्राप्तिरिति कार्येण महाधिकारेण कारणस्य साक्षात्कारस्य साधनौचित्यात् । देवत्वं त्वधिकारप्रदाने योग्यतारूपं देवजातीयानामेव तादृशाधिकारप्रदानात् । न च देवत्वमागन्तुकं कथं योग्यतारूपमिति वाच्यम् । तदभिव्यक्तेरेवागन्तुकत्वात् । ‘‘देवासुरनरत्वाद्या जीवानां तु निसर्गत’’ इति वचनात् । तथा च सूत्रम् ।। ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॐ ।। (३४४०) इति । बान्धवादीत्यादिपदेन गुरु सब्रह्मचार्यादिसङ्ग्रहः ।। किमुच्यत इति ।। अधर्मत्वेनाशङ्कामात्रं वस्तुतो नाधर्मत्वमिति किमुच्यत इत्यर्थः ।। भागवतमात्रस्येति ।। ‘‘छिंद्यात्प्रसह्यरुशतीमसतांप्रभुश्चेज्जिह्वामि’’ति वचनादेवमुक्तम् । न चैतत् क्षत्रियविषयं न विप्रविषयमिति वाच्यम् । क्षत्रियश्चेत्स्वयं छिंद्यात् विप्रश्चेत्क्षत्रियेण छेदयेदिति विवक्षितत्वात् । प्रयोजककर्तृत्वाभिप्रायेण भागवतमात्रस्येत्युक्तिसम्भवात् । अत एव क्षत्रियाणां विशेषत इत्युक्तम् । शिक्षकक्षत्रियाभावे आपदि समर्थस्य विप्रादेरप्ययं धर्म इत्यप्याहुः ।। केषाञ्चिदिति ।।
ननु नारायणद्विडनुबन्धिनां भीष्मादीनां वधः कथं परमो धर्मः । भीष्माद्या नातिधर्मतो निहता इति महाभारततात्पर्यनिर्णयविरोधादिति चेन्न । युद्धशास्त्रोक्तप्रकारेण नारायणद्विडतदनुबन्धिनिग्रहस्यात्र परमधर्मत्वमुच्यते । भारतनिर्णये तु भीष्मादिवधस्य शिखण्ड्यानयनादिरूपेण किंचिद्व्याजेन कृतत्वान्नारायणद्विडनुबन्धिनिग्रहत्वेऽप्यङ्गवैकल्यान्नातिधर्मत्वेनेत्युच्यते । ‘‘पापो न शुद्धधर्मेण हन्तव्य’’ इति नारायणद्विषामेव शुद्धधर्मेणाहन्तव्यत्वादित्यविरोधः ।।
निवृत्तप्रायमितीति ।। शास्त्रार्थपर्यालोचनया मनसा स्वयमनिवृत्तत्वेपि द्रोणादीनां तत्र प्रविष्टत्वेन गुरुवधे भगवदाज्ञास्वीकाराय खडितिकार्येष्वप्रवृत्त्या निवृत्तसदृशमित्यर्थः । भगवन्महिमादीत्यादिपदेन महालक्ष्म्यादिमहिमा भक्तयादिकरणं च गृह्यते ।। बोध्यार्थमिति ।। कृष्णेनेति शेषः ।। तत्र तावत्स्वविहितवृत्त्या भक्तया भगवदाराधनं परमो धर्म इति बोधयतीत्याशङ्क्य स्वविहितवृत्त्या भक्तया च भगवदाराधनं परमो धर्म इति शास्त्रार्थपर्यालोचनया मनसा स्वयमनिवृत्तत्वेऽपि द्रोणादीनां तत्र प्रविष्टत्वेन गुरुवधे भगवदाज्ञा धर्म इति बोधयतीत्यर्थतयोक्तशङ्कापरिहाराय व्याचष्टे ।। न केवलमिति ।। भक्तयादिकं भक्तिवैराग्यादिकम् ।।
ननु भक्तयादिकमपि परमो धर्मोऽस्तु तथापि न तद्बोध्यम् । तत्राधर्मशङ्काभावात् । अन्ततो युद्धकरणमपि न बोधनीयम् । युद्धस्य धर्मतया तेन ज्ञातत्वेन द्रोणादिविषये शङ्कामात्रत्वाङ्गीकारादित्यत आह ।। तत्रार्जुनस्येति ।। धर्मैकदेशे युद्धादिलक्षणे । आहितशङ्कायामपि प्राप्तलोकोपकाराय नारायणद्विट्तदनुबन्धित्वेऽपि बान्धवादिवधोऽन्याय्य इति भगवद्भक्तिदार्ढ्याभावनिबन्धनशङ्काप्रवृत्तिमत्सज्जनोपकाराय युद्धादिरूपो भक्तयादिरूपश्च समस्तो धर्मो भगवता निरूप्यत इत्यर्थः ।। तथापि भगवदादिमहिमवर्णनमनुपयुक्तमित्यस्य कःपरिहार इत्यत आह ।। तत्रेति ।। युद्धादिस्वविहितवृत्तिनिवृत्त इति ।। निवृत्तप्राय इत्यर्थः ।। अतः किं बोध्यत इतीति ।। भक्तयादिमत्त्वेनैव पुरुषार्थावाप्तिसम्भवा‘‘त्तस्माद्युध्यस्व भारते’’ति किमर्थं बोध्यत इत्यर्थः ।। भक्तयादिकमिति ।। भक्तयादिकं युद्धादिस्वरूपविहितवृत्तेः प्रत्येकं पृथगेव परमो धर्मो न भवति । येन पृथक् धर्मत्वेन तावत् भक्तयादिमात्रानुष्ठानेन तस्य स्वविहितयुद्धादिकं त्यजतो न परमधर्मनिवृत्तिः । किं तु । स्वविहितवृत्त्या मिलितमेव भक्तयादिकं परमधर्म इत्यर्थः । यद्वा भक्तयादिकमित्यादिपदेन युद्धादिस्ववृत्तिर्गृह्यते प्रत्येकं प्रत्येकं मिलितमेव परस्परं मिलितमेव । एतेन तद्विरुद्ध इति मूलस्य युद्धादिस्वविहितवृत्त्या भक्तयादिपूर्वं भगवदाराधनविरुद्धः सर्वोऽपि विहितानुष्ठानेन भक्तयादित्यागरूपः भक्तयाद्यनुष्ठानेन विहितत्यागरूपः भक्तया विहितानुष्ठानेऽपि फलेषु रागरूपः भगवत्समर्पणत्यागरूपः विकर्मसङ्गरूपश्चेति सर्वोऽप्यधर्म इत्यर्थः ।।
तर्हि प्रकृत्यादिवर्णनमिति ।। तर्हि तथापि महाभूतान्यहङ्कार इत्यादिना करिष्यमाणं प्रकृत्यादिवर्णनं क्वोपयज्युत इत्यर्थः । सर्वस्य भगवधीनत्वमेव कुतो वर्णनीयमित्यत उक्तम् ।। अस्त्वित्यादिना निवारणायेत्यन्तेन ।। सर्वस्य भगवदधीनत्वं भक्तया भगवदाराधनस्य धर्मत्वे तद्विरुद्धस्याधर्मत्वे कथं हेतुरित्यत आह ।। सर्वस्येति ।। तथाभावात् तथात्वाद्धर्माधर्मत्वादित्यर्थः । ननु सर्वस्य भगवदधीनत्वात् भक्तया स्वाराधनस्याधर्मत्वं तद्विरुद्धस्य धर्मत्वं कुतो न नियमितवानित्यत आह ।। तस्य चेति ।। तस्य स्वतन्त्रत्वेन प्रकृतस्य भगवत एवं विधयोरेव भक्तया त्वाराधनत्वतद्विरुद्धत्वप्रकारं प्राप्तयोरेव धर्माधर्मतया नियमनस्योपपत्तिसिद्धत्वादित्यर्थः । न हि कश्चिदनुन्मत्तः भक्तया स्वाराधनमधर्मत्वेन तद्विरुद्धं धर्मत्वेन व्यवस्थापयेदिति भावः ।।
भावदीपः
अनुकूलयिष्यन्निति ।। सङ्क्षेपेणोक्ते प्रपञ्चं जिज्ञासवो भवन्तीति प्रपञ्चनेऽपि जिज्ञासाजननमत्रानुकूलनमिति भावः ।। इति शेष इति ।। नारायणपदानन्तरं इतिपदं कथ्यत इति पदञ्चाध्याहार्यमित्यर्थः ।। इति स्मृतेरिति ।। ‘ज्ञानेनासौ बिभर्ति माम्’ इति भागवतस्मृतेरित्यर्थः ।। अत्र ज्ञानित्वे । ‘नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः’ इति स्मृतेरिति भावः ।। अत्रैवेति ।। द्विट्तदनुबन्धिनिग्रह एवेत्यर्थः ।। केषाञ्चिदिति ।। दुर्योधनादीनाम् । भीष्मद्रोणादीनां तदनुबन्धित्वादिति भावः ।। शास्त्रविदुषा ।। अर्जुनेनेत्यर्थः ।। धर्मैकदेश इति ।। युद्धरूपे । समग्रधर्मः स्वविहितवृत्तिभगवद्भक्त्यादिरूपः ।। मिलितमेवेति ।। भक्तिवैराग्यादिपूर्वकं स्वविहितवृत्तिः परमधर्म इत्यर्थः । युद्धनिवृत्तिरपि परमधर्मविरुद्धत्वादधर्म एवेति तद्बोधनमपि कार्यमेवेत्यर्थः ।। तथाभावात् ।। धर्माधर्मभावादित्यर्थः । तद्विरुद्धमपि धर्मत्वेन नियमयति चेत् धर्मो भवत्येवेत्यत आह ।। तस्य चेति ।। हरेः स्वभक्त्यादिपूर्वकस्वविहितवृत्तितद्विरुद्धरूपयोरेव धर्माधर्मत्वेन नियमनोपपत्तिरित्यर्थः ।।
भावप्रकाशः
श्रोतृशेमुषीमनुकूलयिष्यन्निति । विदितसंक्षेपां हि प्रपञ्चजिज्ञासवो भवन्तीति भावः । संक्षेपेण दर्शयतीति ।
संक्षेपविस्तराभ्यां च कथयन्ति मनीषिणः ।
बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात् ।
इत्युक्तेरिति भावः । गीतायाः नारायणकर्तृकबोधनाधिकरणत्वाभावादाह । इति कथ्यत इति शेष इति ।। नारायण इत्यनन्तरं इति कथ्यत इति शेष इत्यर्थः । प्रयोजनाभावेऽपीति । स्वप्रयोजनाभावेऽपीत्यर्थः । तथा च प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत इत्युक्तिविरोधो नेत्यर्थः । अर्जुनो भगवत्प्रियतमः अपरोक्षज्ञानित्वादित्यभिप्रेत्य समाधत्ते । अपरोक्षज्ञानित्वादिति । व्याप्तिनिश्चायकं प्रमाणमाह ।। ज्ञानी प्रियतम इति । तदेवेति । अपरोक्षज्ञानमेवेत्यर्थः ।। अत्र अर्जुनो भगवदपरोक्षज्ञानी उत्तमाधिकारित्वात् । ब्रह्मादिवदित्यनुमानं द्रष्टव्यम् । न चापरोक्षज्ञानशून्येषु ऋज्वादिषु व्यभिचारः । अधिकार्युत्तमा देवा इति वक्ष्यमाणोत्तमाधिकारित्वस्य हेतुत्वेन विविक्षितत्वात् । तत्र च देवा इत्यनेन नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिता इत्युक्तरीत्या अपरोक्षज्ञानिनामेव विवक्षितत्वेनापरोक्षज्ञानशून्य ऋज्वादिषु हेतोरेवागमादिति भावः ।। साक्षात्प्रत्यक्षमुख्ययोरित्यभिधानं मनसि निधाय मुख्येन्द्रव्यावर्तकतया साक्षाच्छब्दं व्याचष्टे । साक्षादिन्द्रः पुरंदर इति । साक्षादित्येतदवतारस्य वा विशेषणमित्यभिप्रेत्याह । साक्षादवतार इति । प्रजापाश्च तथादेवा इत्यत्र देवतामात्रस्योत्तमाधिकारित्वाभिधानमाह । अत्र देवत्वमेव वक्तव्यमिति भागवतमात्रस्येति । छिन्द्यां प्रसह्यरुशतीमसतां प्रभुश्चेजिह्वामित्यादिप्रमाणबलादेवमुक्तमिति भावः ।
नारायणद्विट् तदनुबन्धीत्यत्र कर्मधारये भीष्मादीनां नारायणद्विडनुबन्धित्वेऽपि नारायणद्विट्त्वा भावात्तन्निग्रहस्य परमधर्मत्वं न सिध्येदतो द्वन्द्व इत्यभिप्रेत्य व्याचष्टे । केषाञ्चिन्नारायणत्वाद्विट्त्वादिति । दुर्योधनादीनामित्यर्थः ।। केषाञ्चित्तदनुबन्धित्वादिति । भीष्मादीनामित्यर्थः ।। तन्निग्रहो धर्म एवेति भाव इति । नारायणाद्विषां तदनुबन्धिनां च निग्रहो धर्म एवेत्यर्थः ।
ननु नारायणाद्विडनुबन्धिभीष्मादीनां निग्रहस्य परमधर्मत्वे भारततात्पर्यनिर्णये भीष्माद्य नातिधर्मतः इत्यनेन भीष्मादिवधस्याधर्मेण कृतत्वोक्तया अधर्मरूपत्वस्य सूचितत्वात्तद्विरोध इति चेन्न । अत्र युद्धशास्त्रोक्तप्रकारेण नारायणाद्विडनुबन्धिविरोधस्य परमधर्मस्योक्तत्वेन भीष्माद्या इत्यत्र च युद्धशास्त्रोक्तमर्यादातिक्रमेण भीष्मादिवधस्य सूचितत्वेन विरोधप्रसक्तेरेवाभावादिति भावः । नन्वयं धर्मश्चेदिति । धर्मस्य सच्छास्त्रैकसमधिगम्यत्वादिति भावः । बोध्यार्थमिति । अर्जुनं प्रति गीतायाः बोध्यमर्थमित्यर्थः । नन्वर्जुनस्य युद्धान्निवृत्तत्वेऽपि भक्तया भगवदाराधनान्निवृत्तत्वाभावेन तद्बोधनमसङ्गतमित्याशङ्क्य यद्यप्येषा शङ्काऽर्जुनस्य नास्ति तथाऽपि प्राप्तलोकोपकारार्थं भगवता निवार्यत इति उत्तरमूलं मनसि निधाय विशेषमाह । तत्रार्जुनस्य धर्मैकदेश इति ।। प्राप्तलोकोपकारार्थमिति ।। शङ्कोपेतसज्जनलोकोपकारार्थमिति भावः ।। अथापि भगवन्महिमोक्तिः कुत्रोपयुज्यत इत्यतो भक्तयर्थं भगवन्महिमोक्तिरिति सूत्रभाष्यं मनसि निधायाह । तत्र भगवन्महिमाद्युक्तित्स्विति ।। अतः किं बोध्यत इतीति । भक्तयादिमत्वेनैव पुरुषार्थावाप्तिसम्भवात् किं युद्धादिबोधनेनेत्यर्थः । तर्हि प्रकृत्यादिवर्णनमिति । महाभूतान्यहङ्कार इत्यादिना करिष्यमाण इत्यर्थः । तथाभावादिति । धर्माधर्मत्वादित्यर्थः । तस्य चैवंविधयोरेव तथा नियमनोपपत्तेरिति ।। तस्य भगवतः । एवंविधयोरेव स्वविहित वृत्या भक्तया भगवदाराधनत्वतद्विरुद्धत्वोपेतत्वयोरेव । तथानियमनोपपत्तिः धर्माधर्मतया वृध्द्यादिनियमनोपपत्तिरित्यर्थः । अर्जुनस्य देवत्वादीत्यादिशब्देन उत्तमाधिकारित्वभगवत्प्रियत्वयोर्गृहणम् ।।
वाक्यविवेकः
मातुरपत्यपालनवदिति ।। यद्यपि मातुरपत्यपालनेन प्रयोजनमस्ति तथापि पालनसमये प्रायस्तदनुसन्धानाभावात् पालने प्रीत्यतिशय एव कारणमित्यभिमातुरित्याद्युक्तमिति बोध्यम् ।।
एतदपीति ।। उत्तमाधिकारित्वमपि कुतः प्रतिपत्तव्यमित्यर्थः ।। अत्र देवत्वमेवेति । उतमाधिकारित्वे देवत्वस्यैव प्रयोजकत्वादिति भावः ।। अतो न धर्म इति । किं तु शास्त्रेणाधर्मतया उक्तो धर्मश्चेति शेषः ।। शास्त्रं दृष्ट्वा धर्मत्वस्याशङ्कितत्वात् शास्त्रप्रमाणकं अधर्मत्वं अस्येति भावः । न शास्त्रमुखेनेति । येन धर्मत्वं स्यादिति शेषः । बोध्यार्थमाहेति । भगवन्महिमादेः बोध्यार्थत्वमाहेत्यर्थः ।। किं बोध्यत इति ।। अर्जुनमुपलक्षणीकृत्य किं बोध्यते यः परधर्मनिवृत्तः तमेवोपलक्षणीकृत्य तत्वं बोधनीयमिति भावः ।। तद्विरुद्धः सर्वोऽप्यधर्म इति मूलस्य तेन स्वविहितवृत्याभाक्तया भगवदाराधनेनाविरुद्धः सर्वोऽप्यधर्म इत्यक्षरार्थं मनसिनिधायाभिप्रायमाह ।। नभक्तयादिकमिति । तर्हीति । स्वविहितवृत्याभक्तयाभगवदाराधनस्यैव परमधर्मत्वे इत्यर्थः । तथाभावादिति । धर्माधर्मत्वभावादित्यर्थः तस्येति । विष्णोः स्वविहितवृत्या भक्तया स्वाराधनस्य धर्मत्वेन तद्विरुद्धस्याधर्मत्वेन नियमनस्य उपपत्तिसिद्धत्वादिति भावः ।।