गीता

गीता

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ।। १३ ।।

तात्पर्यम्

सत्वसत्वाधिकरजोरजोभिस्तमसा तथा ।

वर्णा विभक्ताश्चत्वारः सात्विका एव वैष्णवा’ इति च ।

कर्मविभागं शमो दम इत्यादिना वक्ष्यति ।

वैष्णवाः सात्विका एव तामसा एव चापरे ।

दौर्लभ्यसुलभत्वेन तेषां वर्णादिभिन्नता’ इति च ।

स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते ।

योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम् ।

विष्णुभक्तिश्चानुगता सर्ववर्णेषु विश्पतिम् ।

आरभ्य हीयतेऽथापि भेदः स्वाभाविकस्तत’ इति नारदीये ।

कर्ताऽपि भगवान्विष्णुरकर्तेति च कथ्यते ।

तस्य कर्ता यतो नान्यः स्वतन्त्रत्वात्परात्मन’

इति च । अपिशब्दो गुणसमुच्चयार्थः । कर्ता मे नास्तीत्यपि विद्धीति ।। १३ ।।

प्रकाशिका

‘‘चातुर्वर्ण्य’’मित्येतं श्लोकं व्याचष्टे ।। सत्त्वेत्यादिना ।। अस्यार्थः । उत्सर्गेण सत्त्वे सत्त्वाधिकरजआदिगुणभेदेन ‘‘शमो दमस्तपः शौचं क्षान्तिरार्जवमेव चे’’त्याद्युक्तकर्मभेदेन च ब्राह्मणाद्याश्चत्वारो वर्णाः विष्णुसृष्टाः तत्र शूद्रो वा अन्यो वा विष्णुभक्तश्चेत्सात्विक एव । ब्राह्मणादिरप्यवैष्णवश्चेत्तामस एव ।। एतदेव स्पष्ट्यते ।। वैष्णवाः सात्त्विका इत्यनेन ।। अर्थतश्चाधमवर्णादिषु राजसत्वादिवचनं न तु अवैष्णवानां सुलभत्वाभिप्रायमित्यवगन्तव्यम् । शमादिकं ब्राह्मणस्य शौर्यादिकं क्षत्रियस्येत्यादिकमप्यौत्सर्गिकम् । ब्राह्मणवच्छमादेः स्वतस्तु ब्राह्मणकर्मवशाद्वर्णान्तरत्वेन जातेष्वप्युपलम्भात् । अतश्च ब्राह्मणादीनामेतानि लक्षणानीत्यवगन्तव्यम् । विष्णुभक्त्यादेर्ब्राह्मणवद्वर्णान्तरेऽप्युपलब्धावपि तत्तत्तारतम्यात् वर्णेषु स्वाभाविकभेदसिद्धिः चातुर्वर्ण्यस्य कर्तारं मां विद्धि न त्वन्यानिति जीवाऽभेदनिवृत्तिः ।। १३ ।।

न्यायदीपिका

भगवद्भजनं विना कुतो न फलमित्यतस्तस्य पितृत्वाद्युज्यत इत्युच्यते ।। चातुर्वर्ण्यमिति ।। अत्र गुणानां त्रित्वात्कथं चातुर्वर्ण्यस्य गुणविभाग इत्याशङ्कां स्मृत्यैव परिहरति ।। सत्त्वेति ।। राजससात्विकेषु सात्विको ब्राह्मणः । सत्वमधिकं यतो रजसस्तद्वान् क्षत्रियः । समसत्वरजोवान्वैश्यः । रजोऽपेक्षयाधिकतमोवान् शूद्र इत्यर्थः । अनेन सत्वप्रधानत्वं ब्राह्मणादीनामुक्तम् । तस्यापवादमाह ।। सात्विका एवेति ।। वैष्णवा एव सात्विकाः सत्वप्रधानाः । न ब्राह्मणत्वादिप्रयुक्तं सात्विकत्वादीत्यर्थः ।

कर्मविभागः कीदृश इत्यत आह ।। कर्मेति ।। यदि वैष्णवा एव सात्विकास्तर्हि ब्राह्मणाः सात्विका इत्याद्युक्तिः किं निमित्तेत्याशङ्कां स्मृत्यैव परिहरति ।। वैष्णवा इति ।। अपरे द्वेषिणः । वैष्णवानां शूद्रादिषु दौर्लभ्याद्ब्राह्मणादिषु सौलभ्याद्ब्राह्मणा एव सात्विका इत्यादिरूपेण सात्विकत्वादीनां वर्णाश्रमभेदेन भिन्नतोच्यत इत्यर्थः । यथा सात्विकत्वादिकं न वर्णमात्रलक्षणं तथा शमादिकमपि न वर्णमात्रलक्षणम् । किं तु स्वाभाविकवर्णलक्षणमित्यत्र स्मृतिमाह ।। स्वाभाविक इति ।। नन्वस्वाभाविकं ब्राह्मणत्वादिकं कीदृशमित्यत आह ।। योनीति ।। अयमिति प्रसिद्धः ।

स्वाभाविकब्राह्मणस्यैव शमादिकम् । स्वाभाविकक्षत्रियस्यैव शौर्यादीत्याद्युक्तम् । तत्रापवादमाह ।। विष्ण्विति । शमपदोदिता विष्णुभक्तिः न केवलं ब्राह्मणस्यैवापि तु सर्ववर्णेष्वनुगतेत्यर्थः । उपलक्षणं चैतत् । दमादिकमप्येवं द्रष्टव्यम् । क्षत्रिये शमवति राष्ट्रविप्लवः स्यादित्यतो नायं शमः प्रसिद्धः । अपितु विष्णुभक्तिरिति शम इति वक्तव्ये तदर्थ एवोक्तः । शमादीनां क्षत्रियादिष्वपि सद्भावे कथमयं ब्राह्मणोऽयं नेति स्वाभाविकवर्णभेदज्ञानमित्यत आह ।। विश्पतिमिति ।। ब्राह्मणे शमादीनां बाहुल्यात्क्षत्रियादिषु क्रमेणाबहुलत्वाच्छमादीनां बाहुल्याबाहुल्यतोऽयं ब्राह्मणोऽयं नेति स्वाभाविको वर्णभेदो ज्ञातव्य इत्यर्थः । यथा भवान्सर्वस्य कर्ता एवं भवतोप्यन्यः कर्ताऽस्ति किमित्यपेक्षायामुच्यते ।। तस्येति ।। तत्र कर्तारमप्यकर्तारं विद्धि कर्तृत्वस्य मायिकत्वादित्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे ।। कर्तेति ।। एवंविधकर्तृत्वाकर्तृत्वयोरविरुद्धत्वात्कर्तारमप्यकर्तारं विद्धीत्यत्रापिशब्दो व्यर्थ इत्यत आह ।। अपीति ।। तत्प्रकारं दर्शयति ।। कर्तेति ।। १३ ।।

किरणावली

पितृत्वाद्युज्यत इति ।। आदिपदेन तस्य कर्तृशून्यत्वादि गृह्यते । जीवास्त्रिविधाः सात्विका राजसास्तामसाश्च । तत्र देवासुरवर्गयोः सात्विकतामसयोश्चातुर्वर्ण्याभावाद्राजसेषु तत्संभवात्तत्रायं विचारः । ते त्रिविधाः । राजससात्विकाःमुक्तियोग्याः । राजसराजसाः राजसतामसाश्चनित्यसंसारिणः । तत्र राजससात्विकेष्वयं विभागः । ये तु भागवता वर्णास्तेषां भेदोऽयमीरित इति वचनादित्यर्थमभिप्रेत्य प्रवृत्तानि राजसस्थसात्विकेष्वेव शुद्धसात्विकाः किञ्चिद्रजोयुक्तसात्विकाः समरजोयुक्तसात्विकाः सत्वात्किञ्चिदूनतमोयुक्तसात्विका इत्यन्तिमाध्याय तात्पर्यवाक्यानि मनसि निधाय व्याचष्टे ।। राजससात्विकेष्विति ।। राजससात्विकत्वप्रयोजकं सत्त्वं त्रिविधम् । सत्वं रजस्तम इति तद्भेदाद्राजससात्विका अपि त्रिविधाः । राजससात्विकसात्विकाः राजससात्विकराजसाः राजससात्विकतामसा इति । तत्रराजससात्विकेषु सात्विको ब्राह्मण इत्यर्थः । तत्र सत्वावान्तरभूतरजस्तमसोरभावेन राजससात्विकत्वप्रयोजकस्य सत्वस्य सत्वसत्वरूपत्वेन शुद्धत्वादिति भावः । सत्वाधिकरज इत्येतद्व्याचष्टे ।। सत्वमधिकमिति ।। क्षत्रिये राजससात्विकत्वप्रयोजकसत्वावान्तरभेदरूपं तमो नास्ति । सत्वावान्तरभेदभूतरजसः सत्वमधिकमिति राजससात्विकराजसः क्षत्रिय इति भावः । रजोभिरित्यत्र सत्वरजोभिरिति संयोज्यार्थमाह ।। समसत्वरजोवानिति ।। सत्वावान्तरभेदभूतसत्वसमरजोवान्वैश्य इत्यर्थः । तमस्तु रजोगुणापेक्षया न्यूनमिति द्रष्टव्यम् । तदुक्तं प्रमेयदीपिकायाम् । वैश्येतमसो रजोऽधिकं तच्च समसत्वयुतमिति ।

तमसेत्यस्य रजोपेक्षयाधिकतमसेत्यर्थमभिप्रेत्याह ।। रजोपेक्षयेति ।। सत्वप्रभेदरजोपेक्षयैवाधिकतमोवान्नतुसत्वापेक्षया । तस्य तमोगुणापेक्षयात्यल्पमधिकत्वात् । शूद्रा अतिस्वल्पसत्वाधिक्येन तामसा इति वक्ष्यमाणत्वादिति भावः । ननु वैश्यस्य समसत्वरजस्कत्वात्सत्वप्राचुर्याभावात्सत्वाधिको मोक्षयोग्य इत्यादिविरोध इति चेन्न । क्षत्रियेरजोपेक्षया सत्वमत्यधिकं वैश्येत्यल्पमधिकमित्यल्पत्वविवक्षयाऽत्र साम्योक्तिसम्भवात् । अत एव शूद्रविषये अतिस्वल्पसत्वाधिक्येनेति प्रमाणे स्वल्पसत्वाधिक्यं वैश्ये अतिस्वल्पसत्वाधिक्यं शूद्रे इति द्योतयितुं अतिस्वल्पेत्युक्तम् । किं च वैश्यस्य समसत्वरजस्कत्वे अनेन सत्वप्रधानत्वं ब्राह्मणादीनामुक्तम् । तस्यापवादमाह ।। सात्विका एवेति ।। वैष्णवा एव सात्विकाः सत्वप्रधानाः न ब्राह्मणत्वादिप्रयुक्तं सात्विकत्वादीत्यर्थ इत्युत्तरग्रन्थे ब्राह्मणादीनां सत्वप्रधानत्वमित्युक्तम् । सात्विकत्वादीत्यादि पदेन राजससात्विकत्वादीत्यर्थः । तेन राजससात्विकत्वराजसराजसत्वादि ग्रहणम् । अनेन मूले सात्विका इति बहुवचनमाद्यर्थ इत्युक्तं भवति । केषु चित्कोशेषु सात्विको ब्राह्मणः सत्वाधिकरजोवान् क्षत्रियो राजसतामसो वैश्यः तामसः शूद्र इत्यर्थः । उत्सर्गस्यापवादमाह ।। सात्विका एवेति ।। ये के वा सन्तु वैष्णवाश्चेत्सात्विका एवेत्यर्थ इति पाठो दृश्यते । सोप्युक्तार्थक एव ।

ननु ब्राह्मणादिविभागो राजससात्विकान्तर्गत इत्युक्तम् । राजससात्विकाश्च वैष्णवा एव । तथा च ब्राह्मणादित्वं वैष्णवत्वं चराजससात्विकेषु समनियतं वर्तत एवेति न ब्राह्मणत्वादि प्रयुक्तं सात्विकत्वादिकं किंतु वैष्णवत्वादि प्रयुक्तमिति कथमुच्यत इति चेन्न । सत्यं उभयं तेषु वर्तत इति तत्र सात्विकत्वादिकं किमुभय प्रयोज्यमुतान्यतरप्रयोज्यम् । नाद्यः । एकेनैव प्रयोजकेनोपपत्तावुभय कल्पने गौरवात् द्वितीये न ब्राह्मण्यप्रयुक्तं सात्विकत्वादिकम् । अवैष्णवेष्वपि ऋषिकुलप्रसूतत्वादिना ब्राह्मण्यादिसद्भावात् । अवैष्णवस्य वेदानधिकारित्वेपि तज्जात्युद्भवत्वमात्रेण ब्राह्मणत्वाद्युपपत्तेः । अतो वैष्णवत्व प्रयुक्तमेव सात्विकत्वादीति भावः ।। यदि वैष्णवा एव सात्विकास्तर्हीति ।। क्वचित् यदि वैष्णवा ये केपि सात्विकास्तर्हीति पाठः । नित्यसंसारिव्यावृत्त्यर्थमाह ।। द्वेषिण इति ।। विवृतमेतच्छ्रीमत्पद्मनाभतीर्थ पूज्यचरणैः । शूद्रो वान्योवा विष्णुभक्तश्चेत्सात्विक एव । ब्राह्मणादिरप्यवैष्णवश्चेत्तामसादिरेव । अधमवर्णादिषु राजसत्वादिवचनं तत्र वैष्णवानां दुर्लभत्वाभिप्रायं उत्तमवर्णाश्रमिषु सात्विकत्ववचनं तत्र वैष्णवानां सुलभत्वाभिप्रायमित्यवगन्तव्यमिति । क्षत्रियादिषु क्रमेणेत्यनेन विष्पतिं विशां प्रजानां पतिं राजानमित्यर्थ उक्तो भवति ।। १३ ।।

भावदीपः

राजसास्तु नरास्तत्र विप्रा इत्यन्तिमाध्यायतात्पर्यानुरोधादाह ।। राजससात्त्विकोष्विति ।। न वर्णमात्रलक्षणमिति ।। किन्तु सात्त्विकत्वं वैष्णवलक्षणं तामसत्वं भगवद्द्वेषिलक्षणमिति योज्यम् ।। स्वाभाविकेति ।। स्वरूपतो यो ब्राह्मणादिर्न तु योनिकृत इत्यर्थः ।। प्रसिद्ध इति ।। सर्वव्यापारोपशमरूपो वा भगवदेकनिष्ठतारूपो वेत्यर्थः । तर्हि क इत्यत आह ।। अपि तु विष्णुभक्तिरिति ।। एवं विधेति ।। भिन्नाधिकरणकर्तृत्वाकर्तृत्वयोरित्यर्थः । मामित्यनुक्तौ कथमभेदशङ्का, तदुक्तौ तु कथं तन्निरास इत्यतो द्वयमपि व्यनक्ति स्वस्येत्यादिना ।। १३ ।।

भावप्रकाशः

राजसास्तु नरास्तत्र विप्रा राजससात्विका इत्युदाहरिष्यमाणप्रमाणानुसारेणाह । राजससात्विकेष्विति ।। सत्वापेक्षया अधिकं रजो यस्येति प्रतीयते तदनुपपन्नम् । येतु भागवता वर्णास्तेषां भेदोऽयमीरित इत्युक्तत्वेनैतेषां मुक्तियोग्यप्रभेदत्वावगमात् मुक्तियोग्यानां च सत्वाधिकः पुल्कसोऽपि यस्तु भागवतः सदेत्युक्तत्वेन सत्वाधिकस्यावश्यकत्वादित्य आह । सत्वमधिकं यत इति । सात्विकाः स्वल्परजसः क्षत्रिया इति वक्ष्यमाणत्वादिति भावः । अत्र ब्राह्मणक्षत्रिययोरुभयोरपि राजससात्विकप्रभेदत्वेपि ब्राह्मणे रजोन्यूनं तदपेक्षयाकिञ्चिदधिकं क्षत्रिय इत्यवान्तरभेदोद्रष्टव्यः ।। सत्व राजसा वैश्या इति प्रमाणं मनसि निधायाह । समसत्वरजोवानिति । अत्र रजोऽपेक्षया सत्वस्य किञ्चिदधिकत्वेऽपि तदविवक्षया साम्योक्तिरिति द्रष्टव्यम् ।। शूद्रा अतिस्वल्पसत्वाधिक्येन तामसा इति प्रमाणमनुरुध्याह । रजोपेक्षयेति । ब्राह्मणादीनां सत्वादिप्रधानत्वमित्युत्सर्गस्य सात्विका एव वैष्णवा इति नापवादकम् । तदर्थसङ्कोचत्वभावादित्यत आह । वैष्णवा एव सात्विका इति । न ब्राह्मणादिमात्रस्य सात्विकत्वादिकम् । किंतु वैष्णवानामेवेति संकोचकत्वादस्यापवादत्वमेवेति भावः । अनेन मूले सात्विका इति बहुवचनमाद्यर्थ इत्युक्तं भवति ।। नित्यसंसारिव्यावृत्यर्थमाह । ये द्वेषिण इति । इत्याद्युक्तमिति । वैश्यस्यैव कृष्यादि, शूद्रस्यैव परिचर्येत्युक्तमित्यर्थः । शमवतीति । अक्रौर्योपेत इत्यर्थः । विश्पतिमारभ्येत्यस्यार्थमाह ।। क्षत्रियादिषु क्रमेणेति ।। १३ ।।

वाक्यविवेकः

कथं चातुर्वर्ण्यस्य गुणविभाग इति । कारणमिति शेषः । सत्त्वेतीति ।

इतः परं टीकाभेदेन वाक्यानि भिद्यन्ते । सत्वेति । राजससात्त्विकेषु सात्विको ब्राह्मणः । सत्वादधिकं यतो रजस्तद्वान् क्षत्रियः ।। समसत्वरजोवान् वैश्यः । रजोपेक्षयाधिकतमोवान् शूद्र इत्यर्थः ।। अनेन सत्वप्रधानत्वं ब्राह्मणादीनामुक्तं तस्यापवादमाह ।। सात्त्विका एवेति । वैष्णवा एव सात्विकाः सत्त्वप्रधानाः । न ब्राह्मणत्त्वप्रयुक्तसात्विकत्वादीत्यर्थः इत्येकः टीकावाक्यपाठः ।। अस्यार्थः । राजससात्विकेष्विति । राजससात्विके ब्रह्मक्षत्रियवैश्यशूद्रेषु रजोऽपेक्षया अत्यधिकसत्त्ववान् ब्राह्मण इत्यर्थः । सत्त्वादधिकं रज इति भ्रान्तिनिरासाय व्याचष्टे । सत्त्वमधिकमिति । तद्वानिति तदुभयवानिति भावः । रजः सामानाधिकरणसत्वस्याधिक्योक्तया तदुभयवत्त्वस्यैव लाभात् । अपवादमाहेति । अवैष्णवब्राह्मणविषये अपवादमाहेत्यर्थ इति । सत्त्वेति । सात्विको ब्राह्मणः सत्त्वाधिकरजोवान् क्षत्रियः । राजसतामसौ वैश्यः । तामसः शूद्र इत्यर्थः । उत्सर्गस्यापवादमाह । सात्विका इति । ये के वा सन्तु वैष्णवाश्चेत् सात्त्विका एवेत्यर्थः इति टीकान्तरपाठः । अस्यार्थः सुगमः । मूले शमदम इत्यादिना वक्ष्यतीति ।।

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं बाह्यं कर्म स्वभावजम् ।

इत्यादिना वक्ष्यतीत्यर्थः ।। १३ ।।

Load More