गीता

अन्त्यजानामपि विष्णुनामस्वाध्यायः

गीता

यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ।

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ।। ५ ।।

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ।। ६ ।।

तात्पर्यम्

द्रव्ययज्ञादीनां मध्ये स्वोचितो यज्ञो विद्यादानादिषु स्वोचितं दानं स्वोचितं तपश्च सर्वैर्वर्णाश्रमिभिरन्यैश्च कार्यमेवेत्यर्थः । विष्णुनामस्वाध्यायोऽन्त्यानामुपवासादितपश्च ।। ५,६ ।।

प्रकाशिका

यज्ञदानतपः कर्म न त्याज्यमित्युक्तम् ।। तत्र कस्य को यज्ञः कस्य किं दानं कस्य किं तप इत्यपेक्षायामाह ।। स्वोचित इत्यादिना ।। अन्त्यानामिति ।। अन्त्यजानां वर्णाश्रमिभ्योऽन्येषामित्यर्थः ।। ५,६ ।।

न्यायदीपिका

निश्चयं शृण्विति प्रतिज्ञातमुच्यते ।। यज्ञेति ।। तत्र ज्योतिष्टोमादियज्ञेषु हिरण्यादिदानेषु यतीनां शूद्रादीनां चाधिकाराभावादूर्ध्वरेतस्त्वादितपःसु गृहस्थादीनामधिकाराभावात्कथं सर्वेषां यज्ञादि विधीयत इत्यत आह ।। द्रव्येति ।। नात्र सर्वेषां ज्योतिष्टोमादियज्ञाः हिरण्यादिदानानि ऊर्ध्वरेतस्त्वादितपांस्येव विधीयन्ते, किंतु द्रव्ययज्ञादियज्ञा विद्यादिदानानि, सत्यवचनादितपांसि । तेषां च यत्यादीनामप्युचितत्वाद्युक्तं सर्वेषां तद्विधिरिति भावः । नाग्निर्न यज्ञ इत्यादेस्त्रिवर्णबाह्यानां न क्वापि यज्ञेऽधिकार इत्यत आह ।। विष्ण्विति ।। द्रव्यादियज्ञाभावेऽपि तेषां स्वाध्याययज्ञेऽधिकारोऽस्त्येव । न च वेदानधिकारेण तदभावः । विष्णुनामस्वाध्याययज्ञेऽधिकारसम्भवादिति भावः । तेषां किंतप इत्यत आह ।। सत्येति ।। ५,६ ।।

किरणावली

नाग्निर्नयज्ञ इत्यादेरिति ।। अत्र नाग्निर्न यज्ञ इत्यनेन नाग्निर्नयज्ञो न क्रिया नसंस्कारो नव्रतानि शूद्रस्येति श्रुतिं, नाग्निर्नयज्ञः शूद्रस्य तथैवाध्ययनं कुत इति स्मृतिं चोपादत्ते । आदिपदेन शूद्रस्तु वैश्यधर्मापि नैव वेदाक्षरो भवेदित्यादेर्ग्रहणम् । विष्णुनामस्वाध्यायोंऽत्यानामित्यस्य त्रिवर्णबाह्यानां शूद्रांत्यजादीनामित्यर्थः ।। ५,६ ।।

भावदीपः

नाग्निर्न यज्ञ इत्यादेरिति ।। अपशूद्राधिकरणभाष्योक्तवचनादित्यर्थः ।। ५६ ।।

भावप्रकाशः

नाग्निर्नयज्ञ इत्यादेरिति । नाग्निर्नयज्ञो न क्रिया न संस्कारो न व्रतानि शूद्रस्येति श्रुतेः ।

नाग्निर्न यज्ञः शूद्रस्य तथैवाध्ययनं कुतः ।।

केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते ।

इति स्मृतेश्चेत्यर्थः । विष्णुनामस्वाध्याययज्ञ इति । अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिण इत्युक्तत्वादिति भावः ।। ५६ ।।