तात्पर्यम्
तात्पर्यम्
मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः ।
राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः ।
दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ ।
शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः ।
नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम् ।
ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा ।
सनत्कुमारः कामभवोऽप्यनिरुद्धो विनायकः ।
सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः ।
इत्याद्या विष्णुनाऽविष्टा भिन्नाः संसारिणो हरेः ।
तेष्वेव लक्ष्मणाद्येषु त्रिष्वेवं च बलादिषु ।
नरार्जुनादिषु तथा पुनरावेश उच्यते ।
स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः ।
एतज्जानाति यस्तस्मिन्प्रीतिरभ्यधिका हरेः ।
सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम्’ इत्यादि महावराहे ।। २५ ।।
न्यायदीपिका
के ते मत्स्यादयः प्रादुर्भावा इत्यत उक्तमेव विवृणोति ।। मत्स्येति ।। ब्रह्मादयोपि भगवदवतारत्वेनान्यत्रोच्यन्ते तेहि किमत्रादिशब्देन गृहीता उतानवतारा एवेत्यपेक्षायामाह ।। ब्रह्मेति ।। तर्ह्यवतारत्वोक्तेः का गतिरित्यत आह ।। विष्णुनेति ।। आवेशविशेषवत्तया तदुक्तिरित्याशयः । साक्षादवतारा एव किं न स्युरित्यत आह ।। संसारिण इति ।। तेष्वेवेति ।। शेषसनत्कुमारानिरुद्धशक्रयमाश्विषु लक्ष्मणभरतशत्रुघ्नबलप्रद्युम्नानिरुद्धनरार्जुनयुधिष्ठिरनकुलसहदेवत्वेन जातेष्वित्यर्थः । अर्जुनादिचतुर्षु नैकप्रकारावेश इत्याह ।। स्वल्प इति ।। अवताराणामनवतारत्वेनानवताराणामवतारत्वेन ज्ञानं संकरज्ञानम् ।। २५ ।।
किरणावली
लक्ष्मणादीनां विशिष्य सङ्कर्षणप्रद्युम्नानिरुद्धाद्यात्मकत्वोक्तेर्गतिं वक्तुं प्रवृत्तं तेष्वेव लक्ष्मणाद्येष्विति वाक्यं प्रतीकमुपादाय व्याचष्टे ।। तेष्वेवेतीति ।। मूलरूपे भगवदावेशे नावतारे तत्सिद्धावपि पुनरवतारे आधिक्येन विशिष्य भगवदंशत्वोक्तिरिति भावः ।। २५ ।।
भावदीपः
लक्ष्मणेत्यादि ।। रामावतारे शेषसनत्कुमारानिरुद्धाः लक्ष्मणभरतशत्रुघ्नत्वेन, कृष्णावतारे बलप्रद्युम्नानिरुद्धत्वेन, शेषो नरत्वेन, शक्रादयोऽर्जुनादित्वेन च जातास्तेष्वित्यर्थः ।
भावप्रकाशः
उक्तमेवेति । मत्स्यकूर्मादिरूपाणामित्यनेनेति शेषः ।। २५ ।।
वाक्यविवेकः
अनवतारा एवेति । अवतारा न भवन्तीति हेतोराद्यशब्देन नागृहिताः किमित्यपेक्षायामाहेत्यर्थः । आवेशविशेषवत्तयेति । अवतारत्त्वोक्तेरावेशविशेषो निमित्तः किमिति भावः । तेष्विति तच्छब्देन परामृष्टानाह । शेषसनत्कुमारानिरुद्धशक्रयमाश्विष्विति । अनेन तेष्वेव लक्ष्मणाद्येष्विति मूलस्य शेषादिसहदेवेषु लक्ष्मणत्वेन भरतत्वेन शत्रुघ्नत्वेन बलत्त्वेन प्रद्युम्नत्वेनानिरुद्धत्त्वेन नरत्त्वेनार्जुनत्त्वेन युधिष्ठिरत्त्वेन नकुलत्वेन सहदेवत्वेन जातेषु सत्सु भगवतः पुनरावेशो भवतीति श्रुतिषूच्यत इत्यर्थः ।
अयमत्र विवेकः । लक्ष्मणभरतशत्रुघ्नेषु लक्ष्मणः शेषावतारः । भरतशत्रुघ्नौ सनत्कुमारानिरुद्धावतारौ । बलप्रद्युम्नानिरुद्धेषु बलः शेषावतारः प्रद्युम्नः सनत्कुमारावतारः । श्रीकृष्णस्य पौत्रोऽनिरुद्धः कामपुत्रानिरुद्धावतारः । नरार्जुनयुधिष्टिरनकुलसहदेवेषु नरः शेषावतारः । अर्जुनः शक्रावतारः । युधिष्टिरो यमावतारः । नकुलसहदेवावश्विनोरवताराविति ।। २५ ।।